०४८ रावणेन सीतानिर्भर्त्सनम्

॥ १,२ ॥

पतगाः गरुडाः देवयोनिविशेषाः ॥ ३।४८।३ ॥

द्वन्द्वमासादितः कलहं प्राप्तः ॥ ३।४८।४ ॥

स्वमधिष्ठानं लङ्काम् ॥ ३।४८।५७ ॥

तीव्रांशुः तीव्रकिरणोपि सूर्यः मद्भयाच्छिशिरकिरणो भवतीति भावः ॥ ३।४८।८१० ॥

पाण्डरेण शुभ्रेण प्राकारेण राजतेनेत्यर्थः ॥ ३।४८।१११५ ॥

तापसेन मुनिना । तपस्विना शोच्येन । तत्र त्वं वसती सीतेत्यारभ्य तव भाग्येन संप्राप्तं भजस्व वरवर्णिनीत्यन्तस्य ग्रन्थसन्दर्भस्य प्रातीतिकार्थः स्पष्टः । वस्तुतस्तु तत्रेति । तत्र लङ्कायां वसती त्वं मया भृत्येन समर्पितानिति शेषः । मानुषान् दिव्यांश्च भोगान् सह एकदैव भुञ्जाना सती । मानुषीणां नारीणामिति द्वितीयार्थे षष्ठी । न स्मरिष्यसि । किञ्च मानुषस्य मनुष्यरूपेणावतीर्णस्य । गतायुषः गतं प्राप्तमङ्गीकृतमेकादशसहस्रवत्सरायुर्येन तस्य रामस्य भगवतः श्रीमन्नारायणस्य सम्बन्धिन इति शेषः । नः अस्मान् स्मरिष्यसि ॥ स्थापयित्वेति । यः मन्दवीर्यः तमप्रियमपि पुत्रं भरतम् अन्तर्यामिप्रेरितेन राज्ञा स्थापयित्वा राज्य इति शेषः । ततस्तेनैव प्रेरितेन राज्ञा ज्येष्ठः श्रीमन्नारायणः श्रीरामः “ज्येष्ठः श्रेष्ठः प्रजापतिः” इति सहस्रनामोक्तेः । सर्वराक्षससंहाराय वनं प्रस्थापितः ॥ तेनेति । भ्रष्टराज्येन भ्रष्टमरीणां राज्यं येन तेन । गतचेतसा मायोपाधिकेश्वरस्य श्रीरामस्यान्तःकरणाभावाद्गतचेतस्कत्वम् “न तस्य कार्यं करणं च विद्यते” इति श्रुतेः । तापसेन तपस्विना तापसानाभिनस्तापसेनस्स चासौ तपस्वी च तेन श्रीरामेण सह करिष्यसि किम् अयमस्मदीय इति विज्ञापनमिति शेषः ॥ ३।४८।१६ ॥

सर्वेति । सर्वराक्षसभर्तारम् । प्रतिशब्द इवार्थे । कामात्तव भृत्यो भविष्यामीति मनोरथादागतं मां मन्मथशराविष्टं जनमिव स्वयं ममेष्टदेवता त्वमेवमाख्यातुं वक्तुं नार्हसीत्यर्थः ॥ ३।४८।१७ ॥

कामुकं पुरूरवसमुर्वशी चरणेनाभिहत्य पश्चात्तापमगमदिति यत् तद्युक्तम् । अकामुकं भृत्यं मां मम मातृरूपा त्वं चरणेनाभिहत्य तिरस्कृत्येत्यर्थः । परितापं गमिष्यसीत्येतदयुक्तमित्यर्थः । उर्वशी पुरूरवसं चरणेनाभिहत्य पश्चात्तापं गतेति यथा पुराणेषु प्रसिद्धं तथा पश्चात्तापं गमिष्यसि ॥ ३।४८।१८ ॥

रामं विना लङ्कां प्रत्यागन्तुमनिच्छन्तीं प्रत्याह अङ्गुल्येति । युद्धे यस्याङ्गुल्या समः कोपि नास्ति । कुतः? यस्स रामः श्रीमन्नारायण एव मानुषः मनुष्यरूपेणावतीर्णः । तं मम भाग्येन तत्रैव सम्प्राप्तं तव पतिमिति शेषः । भजस्वेति सम्बन्धः ॥ ३।४८।१९२३ ॥

अप्रतिरूपरूपाम् अप्रतिरूपमनुपमं रूपं सौन्दर्यं यस्यास्ताम् ॥ ३।४८।२४ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामाणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायाम् अष्टचत्वारिंशः सर्गः ॥ ३।४८ ॥