फलश्रुतिः ॥ ३।४७।१५ ॥
सम्भ्रियमाणे राघवस्याभिषेकोपयुक्तसम्भार इत्यर्थः ॥ ३।४७।६ ॥
मे श्वशुरं सुकृतेन धर्मेण शापयित्वा अयाचत ॥ ३।४७।७,८ ॥
अर्थैरन्वर्थैरर्थैः सुवर्मरत्नादिभिः अन्वर्थैरनुगतार्थैः सप्रयोजनैः उपभोगक्षमैरित्यर्थः ॥ ३।४७।९ ॥
सकलदिव्यभोगानुभवकाले कैकेयीवञ्चितराज्ञा वयं वनं प्रति प्रेषिता इत्याशयेनाह– मम भर्तेति । भ इति गायत्र्या नवमाक्षरं मम भर्तेत्यस्य श्लोकस्य भ इत्यनेन तृतीयाक्षरेण सङ्गृह्णाति । ममेत्येतद्वनप्रवेशसमयमधिकृत्योच्यते । वनप्रवेशसमये मम भर्ता वयसा पञ्चविंशकः । पञ्चविंश इव । क इवार्थे । पञ्चविंशतिवार्षिक इति व्यपदेष्टुं नातिपरिणत इत्यर्थः । मम जन्मनि तदानीं वर्षाणि अष्टादश गण्यते गण्यन्ते । वचनव्यत्यय आर्षः । वर्षाण्यष्टादशेति गण्यत इति वा ॥ ३।४७।१०१६ ॥
अत्र दद्यादित्यनेन अर्थिनां यावदपेक्षितं वस्तु ददातीत्युक्तं भवति । न प्रतिगृह्णीयादित्यनेन अवाप्तसकलकामत्वं व्यज्यते ॥ ३।४७।१७ ॥
द्वैमात्रः द्वयोर्मात्रोरपत्यं सापत्निकमातुः पुत्र इत्यर्थः ॥ ३।४७।१८२० ॥
कैकेय्याः कृते कैकेयीनिमित्तम् ॥ ३।४७।२१ ॥
समाश्वस समाश्वसिहि विश्रान्तिं कुरु ॥ ३।४७।२२ ॥
स त्वमिति, अत्र त्वदीयमिति शेषः । कुलशब्देन मातृकुलम्, गोत्रशब्देन पितृकुलमुच्यते ॥ ३।४७।२३२५ ॥
त्वां तु काञ्चनवर्माङ्गीमित्यादिश्लोकस्य प्रातीतिकार्थः स्पष्टः । वस्तुतस्तु त्वां ममेष्टदेवतामित्यर्थः । दृष्ट्वा स्वकेषु पुत्रमित्रादिषु दारेषु च रतिमिच्छां नाधिगच्छामि ममेष्टदेवतायास्तव दर्शनेनान्दपूर्णो ऽहं सर्वतो निर्वृतो ऽस्मीति भावः ॥ ३।४७।२६ ॥
इतस्तत आहृतानामुत्तमस्त्रीणां सर्वासां मम मे या अग्रमहिषी तस्याश्च मम च भव, ईश्वरीति शेषः ॥ ३।४७।२७ ॥
लङ्केति श्लोकद्वयमेकं वाक्यम् । तत्र लङ्कायां वनेषु विहरिष्यसि यदि तदा अस्यारण्यवासं न स्पृहयिष्यसि ॥ ३।४७।२८,२९ ॥
किञ्च पञ्चसहस्राणि दास्यः मे मया सार्धं परिचरिष्यन्ति यदि, तवेति शेषः । तदा भार्या भया कान्त्या आर्या पूज्या भवसीति सम्बन्धः ॥ ३।४७।३० ॥
रावणेन, पुत्रसदृशेनेति शेषः । एवं प्रार्थनारूपेणोक्तापि अतितामसभक्तो रावणः श्रीरामवियोगं सम्पादयतीति कुपिता जनकात्मजा प्रत्युवाचेति सम्बन्धः ॥ ३।४७।३१ ॥
महागिरिर्मेरुः । अकम्प्यमप्रधृष्यम् । राममनुव्रता राममुद्दिश्यानुसरणमेव व्रतं यस्यास्सा तथोक्ता ॥ ३।४७।३२ ॥
न्यग्रोधपरिमण्डलं न्यग्रोधमिव परिणाहवन्तम् । यद्वा बहुशाखं न्यग्रोधवत् बहुबन्धुजनस्तोमम् ॥ ३।४७।३३ ॥
सिंहविक्रान्तगामिनं सिंह विक्रान्तं गर्वयुक्तं गच्छतीति सिंहविक्रान्तगामी तम् । सिंहसङ्काशं पराक्रमे सिंहसदृशमिति विवेकः ॥ ३।४७।३४३६ ॥
मन्दभाक् मन्दो भागो भागधेयं यस्य । यद्वा मन्दं श्रीणम् आयुरादिकं भजतीति तथोक्तः, क्षीणदशापन्नायुरादिकमित्यर्थः । काञ्चनपादपदर्शनं मुमूर्षूणां लक्षणम् ॥ ३।४७।३७४४ ॥
स्यन्दिनिका क्षुद्रनदी । सुराग्र्यं सुराणामग्र्यम् श्रेष्ठममृतमित्यर्थः । सौवीरकम् आरनालम् ॥ ३।४७।४५,४६ ॥
मद्गुः जलकाकः । सारसो हंसः ॥ ३।४७।४७ ॥
जरां जीर्णावस्थाम् । वज्रं रत्नविशेषः । अवगीर्णं ग्रस्तम्, वज्रखण्डं तण्डुलखण्डमिति बुद्ध्या ग्रस्यते तत्तस्य नाशाय भवति तद्वदित्यर्थः । यद्वा वज्रम् आज्यम् । “वज्रो वा आज्यम्” इति श्रुतेः । मक्षिकया सहावगीर्णं भुक्तमित्यर्थः ॥ ३।४७।४८,४९ ॥
भयकारणार्थं भयोत्पादनार्थम् ॥ ३।४७।५० ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायां सप्तचत्वारिंशः सर्गः ॥ ३।४७ ॥