तयेति । नचिरादिव शीघ्रमेवेत्यर्थः ॥ ३।४६।१ ॥
अन्तरं रामलक्ष्मणयोरपसरणरूपमवकाशमित्यर्थः । “अभिचक्राम वैदेहीम्, वैदेहीमन्वपद्यत, तामाससादातिबलः, उपतस्थे स वैदेहीम्, अभ्यगच्छत वैदेहीम् " इत्येताः क्रियाः प्रत्यासक्तिविशेषविवक्षया पुनः पुनः प्रयुज्यन्ते ॥ ३।४६।२ ॥
ग्रहवत् अङ्गारकादिवत् ॥ ३।४६।५७ ॥
तदन्तरे तस्मिन्नवकाशे ॥ ३।४६।८ ॥
भव्यरूपेण साधुरूपेणोपलक्षितः ॥ ३।४६।९,१० ॥
बाष्पशोकाभिपीडितां बाष्पैः शोकेन चाभिपीडिताम् ॥ ३।४६।११ ॥
ब्रह्मघोषं परिव्राजकवेषोचितं वेदघोषम् । रहिते रामलक्ष्मणाभ्यां रहिते समये ॥ ३।४६।१२१४ ॥
ह्रीरिति ह्रीप्रभृतयो विष्णुशक्तिविशेषाः ॥ ३।४६।१६ ॥
समा एकाकाराः शिखरिणः शिखराणि अग्राणि प्रशस्तानि सन्तीति तथा ॥ ३।४६।१७१९ ॥
नदी कर्त्री अम्भसा कूलं स्वकूलमिव मनो हरसीत्यन्वयः ॥ ३।४६।२० ॥
करान्तमितध्या मुष्टिग्राह्यमध्या ॥ ३।४६।२१,२२ ॥
रूपादीनि त्रीणि चित्तमुन्मादयन्ति मनःक्षोभं जनयन्ति ॥ ३।४६।२३ ॥
प्रतिक्राम निर्याहि ॥ ३।४६।२४ ॥
सम्पन्नानि राजभोगैरिति शेषः ॥ ३।४६।२५ ॥
माल्यादीनि त्वया आचरितुमुपभोक्तुं युक्तानीति पूर्वेणान्वयः ॥ ३।४६।२६२८ ॥
प्रशस्ता प्रशंसिता ॥ ३।४६।३२ ॥
आतिथ्यकरणेन अर्घ्याद्यनन्तरं पक्वान्नं सिद्धं भूतमित्यादिशब्दैः ब्रूयादिति शास्त्रात्तथैवाब्रवीदित्यर्थः ॥ ३।४६।३३ ॥
पात्रकुसुम्भधारिणं पात्रमलाबुप्रभृतिष्वेकं कुसुम्भं रक्तवस्त्रम् । कुसुम्भशब्देन रक्तवर्णे लक्षणा वा । अपायदर्शनम् अपाये अपहरणे अनर्थकरणे वा दर्शनं बुद्धिर्यस्य तम् । उद्द्वेष्टु भोजयितुम् । यद्वा अतिथित्वाद्द्वेषं कर्तुमशक्यम् । ब्राह्मणवत् ब्राह्मणेन सदृशं यथा भवति तथा न्यमन्त्रयत् । ब्राह्मणातिथिमिव निमिन्त्रितवतीत्यर्थः ॥ ३।४६।३४ ॥
बृसीयत्यासनम् । सिद्धं पक्वम् । वचजातं वनोद्भूतं कन्दमूलादि त्वदर्थमुपकल्पितमिति शेषः ॥ ३।४६।३५ ॥
प्रतिपूर्णभाषिणीं सर्वमन्नं पक्वमिति भाषमाणाम् ॥ ३।४६।३६ ॥
हरितं श्यामम् ॥ ३।४६।३७ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायां षट्चत्वारिंशः सर्गः ॥ ३।४६ ॥