०४५ सीतादुर्वचनात्-लक्ष्मणनिर्गमनम्

॥ १३ ॥

भ्रातुराज्ञाय शासनमिति । अप्रमत्तेन ते भाव्यमित्यादिरूपम् ॥ ३।४५।४,५ ॥

मत्कृते मदर्थम् ॥ ३।४५।६ ॥

विस्रब्धः निश्चिन्तः ॥ ३।४५।७ ॥

त्वद्रक्षणं विहाय कथं गमिष्यामीत्यत्राह किं हीति । यत्प्रधानस्त्वमिहागतः यो रामः प्रधानं यस्य सः यत्प्रधानः तस्मिन् रामे संशयं प्राणसंशयम् आपन्ने प्राप्ते सति इहाश्रमे तिष्ठन्त्या मया किं कर्तव्यम्, न किमपि मद्रक्षणेन प्रयोजनं नास्ति, श्रीरामं विना अहं क्षणमपि न जीविष्यामीति भावः ॥ ३।४५।८१५ ॥

गन्धर्वनगरप्रख्या गन्धर्वनगरमिन्द्रजालम् । यद्वा मेघादावारोपितं प्रासादवनादिकं तत्कदाचिद्दृश्यते तद्यथा व्यामोहजनकम् एवं चित्रवस्तुरूपेण परव्यामोहजनिका काचिच्छक्तिर्माया सा तस्य रक्षसो मारीचस्यास्ति यया मुह्यसीत्यर्थः ॥ ३।४५।१६,१७ ॥

जनस्थानवधं शून्यताकरणरूपं प्रति उद्दिश्य खरस्य निधनात् संहारादारभ्येत्यर्थः । ल्यब्लोपे पञ्चमी । हे कल्याणि वयमेतैर्निशाचरैः कृतवैराः अस्मासु वैरमाचरितवन्त इत्यर्थः ॥ ३।४५।१८ ॥

तस्मादेव हिंसाविहाराः हिंसैव विहारो येषां ते विविधा वाचो विसृजन्ति प्रबलानेकरक्षोयुद्धेप्यप्रतिहतशक्तिसम्पन्नस्य श्रीरामस्य पुरतः स्थातुमशक्ताः मायाविनो हिंसाविहारा विविधा वाचो विसृजन्तीति भावः ॥ ३।४५।१९,२० ॥

अकार्यकरणारम्भ इति पाठः । अकार्यकरणारम्भः अकृत्यकरणोद्युक्तः ॥ ३।४५।२१२८ ॥

तीक्ष्णाः क्रूरहृदयाः ॥ ३।४५।२९,३० ॥

उपश्रृण्वन्तु मे वाक्यमिति शेषः । वनेचराः देवाः । अन्यायं परुषं त्वयोक्तः ॥ ३।४५।३१ ॥

त्वं प्रणश्य नाशं प्राप्नुहि । यत् यस्माद्गुरुवाक्ये व्यवस्थितं मामेवं विशङ्कसे अत एव स्त्रीत्वं स्वभावेन दुष्टम् ॥ ३।४५।३२ ॥

पूर्वं धिक् त्वमाद्य प्रणश्येत्युक्त्वा रामस्मरणेन तस्या मङ्गलमाशास्ते स्वस्तीत्यादिना ॥ ३।४५।३३ ॥

रामेण सह त्वां पश्येयं नवेत्येतन्न जानामीति निमित्तानां तादृशत्वादिति भावः ॥ ३।४५।३४,३५ ॥

आबन्धिष्ये उद्बन्धनं करिष्यामीति । विषमे भृग्वादिविषमप्रदेशे ॥ ३।४५।३६३९ ॥

अभिवाद्य नमस्कृत्य अभिप्रणम्य प्रह्वीभूय अन्वीक्षमाणः कथमेनां रामेण विना कृत्वा गमिष्यामीत्याशयेन बहुशो निरीक्षणम् ॥ ३।४५।४० ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायां पञ्चचत्वारिंशः सर्गः ॥ ३।४५ ॥