तथेति । त्सरुः खड्गमुष्टिः । असिकण्ठ इति यावत् ॥ ३।४४।१ ॥
त्र्यवनतं शार्ङ्गम् । आत्मविभूषणं चापस्य वीरालङ्कारत्वादिति भावः । कलापौ तूणीरे । उदग्रविक्रमः मृगजिघृक्षया त्वरितपदविन्यासः ॥ ३।४४।२ ॥
सन्दर्शने ऽभवत् दृष्टिविषयो ऽभवत् ॥ ३।४४।३ ॥
तं स्मेत्यादिश्लोकत्रयमेकं वाक्यम् । रूपेण स्वरूपेण । अग्रतः अग्रे द्योतमानमिव इषोः पातादतिवृत्तम् अतिक्रान्तम् । लोभयानं हस्तप्राप्तमिव दृश्यमानम् । इवशब्दस्य शङ्कितमित्यनेन सम्बन्धः । धनुष्पाणिं दृष्ट्वा अन्यमृगाणामिव अस्य शङ्का नास्तीति भावः ॥ ३।४४।४६ ॥
अपाकर्षत उन्मादयामास बहुदूरधावनेन चित्तमोहं चकारेत्यर्थः ॥ ३।४४।७११ ॥
भूयः अत्यर्थं कुपित इत्यन्वयः ॥ ३।४४।१२१४ ॥
सदृशं मृगरूपस्येति पाठः । रूपमिति शेषः । मारीचस्य तदानीं रूपमन्यदीयम् । हृदयं तु स्वीयमेव । तथाचायमर्थः मृगरूपस्य सदृशं रूपं तस्यास्वकीयं रूपं भित्त्वा पश्चात्स्वकीयं हृदयं बिभेदेति भावः ॥ ३।४४।१५,१६ ॥
तां मतिं रावणोक्तसीतालक्ष्णाह्वानोपायं स्मृत्वा केन मत्कृतोपायेनेति शेषः । सीता लक्ष्मणं प्रेषयेत् तां सीतां शून्ये रावणो हरेदिति दध्याविति योजना ॥ ३।४४।१७ ॥
मारीचस्यैषा मायेति लक्ष्मणेन पूर्वं यदुक्तं तत्तथैवाभवत् । कुतः? मारीच एव मया हतः ॥ ३।४४।२३,२४ ॥
हृष्टतनूरुहः त्रासाद्रोमाञ्चिततनुरभवदिति शेषः ॥ ३।४४।२५,२६ ॥
जनस्थानमभिमुखः जनस्थानमध्यवर्तिनिजाश्रममुद्दिश्येत्यर्थः ॥ ३।४४।२७ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायां चतुश्चत्वारिंशः सर्गः ॥ ३।४४ ॥