०४३ स्वर्णमृगग्रहणर्थं रामगमनम्

॥ १ ॥

प्रहृष्टेति । मृष्टहाटकवर्णिनी मृष्टं परिशुद्धं हाटकं हेम तस्य वर्णो ऽस्तीति तथा ॥ ३।४३।२४ ॥

मृगयां चरन्तः मृगयार्थं पर्यटन्तः । उपाधिना मृगरूपोपाधिना ॥ ३।४३।५ ॥

मायाविदः अस्य या माया दृश्यते अनया इदं मृगरूपं कृतम् अस्य माया मृगाकारेण परिणतेत्यर्थः । भानुमत् प्रकाशसम्पन्नम् । गन्धर्वपुरसन्निभम् गन्धर्वपुरं नाम रम्यभवनाकारविशेषक्षणभङ्गुरमभ्रम् ॥ ३।४३।६,७ ॥

काकुत्स्थं लक्ष्मणम् ॥ ३।४३।८,९ ॥

सृमरचमरौ कृष्णशुक्लपुच्छौ चामरमृगौ ॥ ३।४३।१०,११ ॥

तेजसा गर्वेण । क्षमया अत्वरया । दीप्त्या शरीरप्रकाशेन एतैरुपलक्षितः पुरः निकटे । अयं मृगो यथा यादृशप्रकारः । अस्य सदृशो मृगः दृष्टपूर्वो न भवतीत्यन्वयः ॥ ३।४३।१२ ॥

रत्नबिन्दुसमाचितः रत्नबिन्दुव्याप्तः ॥ ३।४३।१३,१४ ॥

मृगो यदि जीवन्नेव तव ग्रहणमभ्येति यदि गृहीतो भवेत् तदा नः आश्चर्यभूतं भवति । आश्चर्यसत्त्वं भवति । अतस्सर्वेषां विस्मयं जनयिष्यतीति सम्बन्धः ॥ ३।४३।१५१८ ॥

शष्पबृस्यां बालतृणैः परिकल्पिततापसासने । विनीतायां प्रसारितायां जाम्बूनदमयत्वचि उपासितुं त्वत्समीपे स्थातुमिच्छामीति योजना ॥ ३।४३।१९ ॥

इदं कामवृत्तं कैकेय्यादिवत्स्वप्रयोजनाय भर्तृवियोजनरूपमिदं कृत्यं रौद्रं क्रूरं स्त्रीणामसदृशमिति यद्यपि मतं ज्ञातं तथाप्यस्य वपुषा मम विस्मयो जात इत्यभिप्रायेण वाक्यं परिसमापितवती ॥ ३।४३।२० ॥

काञ्चनरूपेण काञ्चनमृगेण । “रूपं मृगेपि विज्ञेयम्” इति हलायुधः । नक्षत्रपथवर्चसा नक्षत्रसदृशवर्चसा बिन्दूपलक्षितत्वात् आगतं प्राप्तं बभूव ॥ ३।४३।२१२३ ॥

रूपश्रेष्ठतया उपलक्षित एष मृगो न भविष्यति एतादृशमृगो न क्वचिदपि सिद्ध्यतीत्यर्थः ॥ ३।४३।२४ ॥

नन्दनोद्देशे नन्दनमित्युद्देशः कीर्तनं यस्य तस्मिन् । चैत्ररथसंश्रये तदाख्ये वने ॥ ३।४३।२५ ॥

कनकबिन्दुभिश्चित्ररोमराजय इत्यन्वयः ॥ ३।४३।२६ ॥

शतह्रदां विद्युतम् ॥ ३।४३।२७ ॥

मसारगल्लर्कमुखः मसार इन्द्रनीलः, गल्लर्कश्चषकः, इन्द्रनीलनिर्मितचषकाकारास्य सम्पुट इत्यर्थः । कस्य नामानिरूप्यो ऽसौ अनिरूप्यः इदमित्थमिति निरूपयितुमशक्यः ॥ ३।४३।२८,२९ ॥

मांसहेतोरिति । किम्पुनरेवंविधलाभार्थमिति भावः ॥ ३।४३।३० ॥

एतन्मृगरूपं महाधनं वन एव सम्भवति तस्मादिदमत्यादरेण सङ्ग्राह्यमित्याशयेनाह धनानीति । मणिरत्नसुवर्णिनः मणिरत्नं मणिश्रेष्ठं सुवर्णं च हेममयेषु धातुषु सम्भवतः ते तथोक्ताः, वज्रादिमणिसुवर्णरजताद्याकाराः धातवः लक्षणया गौरिकादिधात्वाधारपर्वतप्रदेशा इत्यर्थः । धनानि विचित्रमृगादिरूपधनानि । व्यवसायेन उद्योगेन वने विचीयन्ते अन्विष्यन्ते । वन इत्युपलक्षणम् । यत्र क्वापि स्थितं वस्तु राज्ञा सङ्गृह्यत इति भावः ॥ ३।४३।३१ ॥

तत् तस्मात् सारं श्रेष्ठमखिलं धनं शास्त्राविरुद्धोपायेन सर्वदा सम्पादितं धनमित्यर्थः । निचयवर्द्धनं कोशवर्द्धनम् “उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीः” इति न्यायेन शास्त्राविरुद्धोपायेन सम्पादितं द्रव्यं राज्ञां कोशगृहं पूरयतीति भावः । तत्र दृष्टान्तमाह मनसेति । नृ़णां मनुष्याणां चिन्तितं सङ्लल्पितं धनं सर्वं तथैवाविर्भूतं सत् यथा शुक्रस्य निचयवर्द्धनं भवति तथैवेत्यर्थः । जनस्य सङ्कल्पितार्थाः शुक्रस्य कोशं पूरयन्तीति प्रसिद्धिः । यद्वा शुक्रस्य मनसा चिन्तितं सङ्कल्पितं सर्वधनं तथैवाविर्भूय यथा शुक्रस्य निचयवर्द्धनं भवति ॥ ३।४३।३२ ॥

एवमस्तु, अथापि विचार्य कर्तव्यमिति चेन्नेत्याह अर्थीति । अर्थयते प्रार्थयतीत्यर्थी, अपूर्ववस्तुकामः पुरुष इत्यर्थः । अविचारयन्नालोचनामकुर्वन् येनार्थकृत्येन अर्थसाधनेनोद्योगेन संव्रजति सम्यग्गच्छतीत्यर्थः । अर्थ्याः अर्थादनपेताः, अर्थसम्पादनचतुरा इति यावत् । अर्थशास्त्रज्ञानस्तमेवार्थं प्राहुः यद्वस्तु सौन्दर्यलोभेन पुरुषस्तत्साधने व्यग्रः प्रवर्तते स एवार्थः । अयंच मृगस्तथाविध इति भावः ॥ ३।४३।३३ ॥

परार्ध्ये अमूल्ये ॥ ३।४३।३४ ॥

कदल्येव कादली मृदच्चकर्बुरनीलाग्ररोममृगविशेषः । प्रियकी मृदूच्चमसृणघनरोममृगविशेषः । प्रियकी सुखस्पर्शो व्याघ्र इत्यन्ये । प्रवेणी आस्तरणम् । आविकम् अविवालनिर्मितः कम्बलविशेषः । एतस्य मृगचर्मणः ॥ ३।४३।३५ ॥

यश्च दिव्यो नभश्चरो मृगः मृगशीर्षनक्षत्रम् एतावुभौ दिव्यौ देवतार्हौ अमानुषौ वा शौभनावित्यर्थः ॥ ३।४३।३६ ॥

मायैषा राक्षसस्येति यन्मां वदसि तथायं यदि भवेदेवमप्यस्य वधः कर्तव्य इत्यन्वयः ॥ ३।४३।३७,३८ ॥

उत्थाय प्रादुर्भूय ॥ ३।४३।३९ ॥

पूर्वमुक्तमपि वातापिवृत्तान्तं मारीचस्य मायाव्यापारे दृष्टान्तत्वेनाह पुरस्तादिति । पुरस्तात्पूर्वस्मिन् काले । इह दण्डकारण्ये । स्वगर्भो ऽश्वतरीमिवेति । अश्वतरी गर्दभादश्वायामुत्पन्ना तां स्वगर्भ एव यथा हन्ति तद्वदयमपि उदरस्थो द्विजान् हन्ति ॥ ३।४३।४०,४१ ॥

समुत्थाने श्राद्धान्ते । तद्रूवं स्वकं रूपम् । उत्स्मयित्वा ईषत्स्मित्वा ॥ ३।४३।४२ ॥

अविगण्य अविचार्य, पापमिति शेषः ॥ ३।४३।४३ ॥

एवं यो मद्विधमतिमन्येत तद्रक्षः मारीचः वातापिरिव न भवेत् किमिति काकुः । वातापिरिव मारीचोपि वधार्ह एवेत्यर्थः । अतिमन्येत अतिक्रामेत मा मां गतः प्राप्तः अयं मारीचः अगस्त्येन वातापिरिव हतो भवेदित्यन्वयः ॥ ३।४३।४४ ॥

सन्नद्धः धनुःकवचादिसन्नाहयुक्ता भव । मैथिलीं यत्नतो रक्ष । कुतः? अस्यामिति । अस्माकं यत्कृत्यं तत्सर्वमस्यामायत्तं सीतारक्षणार्थमित्यर्थः ॥ ३।४३।४५ ॥

तर्हि त्वया करणीयं किमित्यत आह अहमिति । अतः कारणान्मृगमानयितुं यावद्गच्छामि तावदिह सन्नद्धो भवेति पूर्वेण सम्बन्धः ॥ ३।४३।३६ ॥

प्रधानया श्रेष्ठया त्वचा उपलक्षित एष मृगो न भविष्यति, किन्तु रक्षोमायैव यद्यपि तथापि मृगत्वचि गतस्पृहां गता प्राप्ता स्पृहा यस्याः ताम् । वैदेहीं पश्येत्यन्वयः । यद्वा पश्येति मृगत्वचि गतस्पृहां वैदेहीं पश्य अत एव प्रधानया त्वचा हेतुभूतया एष मृगो न भविष्यति, मरिष्यतीत्यर्थः । मृगत्वचि सीतेच्छाया विद्यमानत्वान्मृगं हत्वा त्वचमेवानयिष्यामीति भावः ॥ ३।४३।४७ ॥

सीतया हेतुभूतया ते त्वया आश्रमस्थेनापि त्वया अप्रमत्तेन भाव्यम्, आश्रमे ऽप्रमत्तः सन् सीताया रक्षणं कुर्वित्यर्थः । पृषतं चर्म आदायेत्यत्र सन्ध्यभाव आर्षः ॥ ३।४३।४८,४९ ॥

प्रदक्षिणेन प्रकर्षेण दक्षिणः समर्थः तेन पक्षिणा जटायुषा सह अनुकूलेनेति वा । प्रदक्षिणं सर्वत एव, सर्वदिग्वर्तिराक्षसादिभ्य इत्यर्थः । शङ्कितस्सन् अप्रमत्तो भवेति शेषः ॥ ३।४३।५० ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायाम् आरण्यकाण्डव्याख्यायां त्रिचत्वारिंशः सर्गः ॥ ३।४३ ॥