एवमिति । भयाद्रावणादधुनैव हानिर्भविष्यतीति । त्रासाद्गच्छामीत्यब्रवीत् ॥ ३।४२।१४ ॥
सुसंश्लिष्टं दृढम् ॥ ३।४२।५ ॥
शौण्डीर्यं पौरुषम् । मच्छन्दादिव मम मतसदृशमुक्तम् । इदानीं मारचो ऽसि स्वप्रकृतिं प्राप्तो ऽसि । पूर्वमन्यः अधैर्यावलम्बनादिति शेषः ॥ ३।४२।६,७ ॥
शून्ये रामलक्ष्मणरहितसमये ॥ ३।४२।८१४ ॥
मणिप्रवरश्रृङ्गाग्रः मणिप्रवराकारे इन्द्रनीलरत्नाकारे श्रृङ्गाग्रे यस्य सः । सितासितमुखाकृतिः क्वचित् सिता क्वचिदसिता च मुखस्याकृतिर्यस्य सः ॥ ३।४२।१५ ॥
रक्तपद्ममोत्पलमुखः मुखपुटयोर्मध्ये एकः रक्तपद्मवर्णः अन्यः नीलोत्पलवर्णः । इन्द्रनीलोत्पलश्रवाः इन्द्रनीलमिव उत्पलमिव श्रवः श्रवणं यस्य सः ॥ ३।४२।१६ ॥
मधूकनिभपार्श्वः मधूकपुष्पसदृशपार्श्वद्वयः ॥ ३।४२।१७ ॥
सुसंहतः श्लिष्टसन्धिबन्धः ॥ ३।४२।१८२० ॥
शाद्वलानि वित्तरन् भक्षयन् ॥ ३।४२।२१,२२ ॥
कदलीवाटिकां समाश्रयदिति च्छेदः । सीतासन्दर्शनं सीतादर्शनयोग्यस्थानं समाश्रयत् ॥ ३।४२।२३२६ ॥
विनिष्पतन् उत्प्लुत्य धावन् ॥ ३।४२।२७ ॥
भावस्य राक्षसत्वस्य । अपचयः लवनम् ॥ ३।४२।२९३२ ॥
रूप्यधातुतनूरुहं रूप्यं रजतं धातवः ताम्रगैरिकादयः तैस्सदृशतनूरुहम् ॥ ३।४२।३३,३४ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपीकाख्यायामारण्यकाण्डव्याख्यायां द्विचत्वारिंशः सर्गः ॥ ३।४२ ॥