०४१ मारीचोपदेशः

आज्ञप्त इति । राजवद्राजार्हम् । वाक्यं वाक्यानुष्ठानम् । रामलक्ष्मणावपवाह्य त्वयेत्थं करणीयमित्येवंरूपं प्रतीत्यर्थः । रावणेनाज्ञप्तमारीचः तस्य प्रतिकूलं वाक्यमब्रवीदिति सम्बन्धः । यद्वा राजवदितिशब्देन पूर्वसर्गोक्तं रावणगतमौद्धत्यं लक्ष्यते । तदस्मिन्वाक्ये प्रवर्तकत्वेनास्तीति राजवदिति योज्यम् । यद्वा राजवत् राजेव । वाक्यं वाक्यानुष्ठानम् । मृगरूपमाश्रित्य रामलक्ष्मणावपवाह्य त्वया यथेष्टं गन्तव्यमित्येवंरूपं प्रतिकूलं रावणेनाज्ञप्तश्चोदितो निशाचरः परुषं वाक्यमब्रवीत् ॥ ३।४१।१,२ ॥

त्वया सुखिना सती कः पापकृन्नाभिनन्दति । केन पापकारिणा उपायतः अपायेन अयमुपदिष्टः विनाश इत्यनुषज्यते । स एव मृत्युद्वारम् ॥ ३।४१।३ ॥

हीनवीर्याः तव शत्रवः त्वां बलीयांसम् । बलीयसा त्वत्तो बलवत्तरेण उपरुद्धं विनश्यन्तमिच्छन्ति, इदमाश्चर्यमिति शेषः ॥ ३।४१।४ ॥

इदं सीताहरणम् । स्वकृतेन स्वनिर्मितविनाशोपायेनेत्यर्थः ॥ ३।४१।५ ॥

उत्पथं शास्त्रविरुद्धम् । आरूढमापन्नं त्वां न निगृह्णन्ति न निवारयन्ति । सर्वशः सर्वोपायैः ते सचिवा वध्या इति सम्बन्धः ॥ ३।४१।६ ॥

निग्राह्यः निवर्तनीयः । न निगृह्यसे न निवार्यसे ॥ ३।४१।७ ॥

स्वामिप्रसादात् स्वामिनः प्रसन्नभावात् । विपर्यये स्वाम्यनुग्रहाभावे । स्वामिवैगुण्यात् स्वाम्युत्पथप्रवृत्तेः स्वामिवैगुण्यान्न केवलममात्या एव व्यसनं प्राप्नुवन्ति किन्तु इतरजना अपीत्यर्थः ॥ ३।४१।८,९ ॥

उक्तमर्थं निगमयति तस्मादिति ॥ ३।४१।१० ॥

तीक्ष्णेन क्रूरदण्डेन । प्रतिकूलेन सर्वजनविरुद्धेन ॥ ३।४१।११ ॥

तीक्ष्णमन्त्राः तीक्ष्णोपायाः । तेन सह मन्त्रग्राहिणा राज्ञा सह । मन्दसारथयः अकुशलसारथयः । विषमे निम्नोन्नतदेशे ॥ ३।४१।१२ ॥

साधवः धर्मज्ञाः । युक्ता नीतिमार्गनिष्ठाः । धर्ममनुष्ठिताः अनुष्ठितवन्तः । सपरिच्छदाः सपरिजनाः ॥ ३।४१।१३ ॥

तीक्ष्णेन तीक्ष्णदण्डेन स्वामिना रक्ष्यमाणाः प्रजाः न वर्द्धन्ते । गोमायुना मृगघातकमृगेण ॥ ३।४१।१४ ॥

कर्कशः क्रूरबुद्धिः ॥ ३।४१।१५ ॥

काकतालीयं यादृच्छिकं तदिदं घोरं रामकर्तृकवधरूपं मया आसादितं प्राप्तम् । अत्र स्वहननविषये किं किञ्चिदपि न विचारणीयमिति शेषः । किन्तु त्वमेव शोचनीयः । कुतः? यतः ससैन्यो विनशिष्यसि । अयं भावः अहमेक एव यादृच्छिकेन निपातेन विनशिष्यामि अतो नाहं शोच्यः प्रमादविपन्नाः शोच्यन्ते त्वन्तु बुद्धिपूर्वमकार्यं कुर्वन् सबन्धुपरिवारो विनशिष्यसि अतस्त्वमेव शोचनीय इति ॥ ३।४१।१६ ॥

नचिरात् क्षणेनैव तवारिणा श्रीरामेण हतोहं म्रियेयम् अनेन हेतुना कृतकृत्योस्मि, विश्वामित्रयागसंरक्षणमारभ्य खरादिवधान्तममानुषश्रीरामचरितमनुस्मृत्यासाधारणमहिमस्फूर्त्त्या रघुपुङ्गवे परमपुरुषत्वमभिसन्धाय तत्करप्रापितमरणस्य परमपुरुषार्थत्वादिति भावः । तथाहि नारसिंहपुराणे “रामादपि च मर्त्तव्यं मर्तव्यं रावणादपि । उभाभ्यामपि मर्तव्ये वरं रामान्न रावणात् ॥ " इति ॥

३।४१।१७१९ ॥

परेतकल्पाः आसन्नमरणाः । गतायुषः क्षीणायुषः । अतो गतायुष्यस्त्वमपि हितं न गृह्णासि ॥ ३।४१।२० ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां आरण्यकाण्डव्याख्यायामेकचत्वारिंशः सर्गः ॥ ३।४१ ॥