०४० रावणकृतमारीचनिर्भर्त्सनम्

मारीचेनेति । क्षमं निवर्तनसमर्थम् । युक्तं युक्तियुक्तम् न्याय्यं वा ॥ ३।४०।१ ॥

पथ्यहितवक्तारं पथ्यम् अनपायम् । हितं सुखावहम् ॥ ३।४०।२ ॥

अयुक्तार्थं राजप्रतिकूलत्वादनुचितार्थम् ॥ ३।४०।३ ॥

पापशीलत्वादिविशेषणयुक्तस्य रामस्य पौरुषमिति शेषः । त्वद्वाक्यैरेव भेत्तुं मया न शक्यमिति काकुः ॥ ३।४०।४ ॥

प्राकृतमसारं स्त्रीवाक्यं कैकेयीवाक्यम् । एकपदे एकपादविन्यासेनैव अतित्वरया गत इत्यर्थः । प्राणैः प्राणेभ्यः । मारीचेनेत्यादेः हर्तव्या तव सन्निधावित्यन्तस्य ग्रन्थस्य वास्तवार्थे ऽयमर्थः तद्वाक्यं सीतां नाहरेति वाक्यं न जग्राह तं प्रति परुषवाक्यं चाब्रवीत् । तदेवाह यदिति । हे मारीच मयि सीताहरणकाम इत्यर्थः । अयुक्तार्थमयोग्यार्थं वाक्यं निष्फलम् । इदं चेद्युक्तमित्याह त्वदिति । मानुषस्य मूर्खस्य विशेषतः पापशीलस्य । द्वितीयार्थे षष्ठी । भेत्तुं शक्यम् । रामस्य रामं तु मया भेत्तुं न शक्यमिति यदुक्तं त्वद्वाक्यैस्तत्सत्यमेवेत्यर्थः । किन्तु य इति । यः परमकरुणाशालितया प्राकृतस्त्रीवाक्यमपि श्रुत्वा राज्यादिकं त्यक्त्वा वनं गतः तस्य सीता भार्या त्ववश्यं मया आहर्तव्येति सम्बन्ध । सीताहरणाभावे स्वस्य रामहस्तान्मरणं न भविष्यतीति हृद्गतम् ॥ ३।४०।५७ ॥

कार्यस्य विनिश्चये विषये दोषं गुणं वा अपायं वा उपायं वा संपृष्टस्त्वेवम् उत्तरं वक्तुमर्हसि नास्माकं तज्जिज्ञासा अतो नैवं वक्तुं सुयुक्तमित्यर्थः ॥ ३।४०,८,९ ॥

उपचारेण युक्तं बहुमानपुरस्सरम् ॥ ३।४०।१० ॥

मानवर्जितं सम्मानशून्यम्, प्रत्युत सावमर्दं तिरस्कारसहितम् ॥ ३।४०।११ ॥

रूपाणि अंशान् । अग्नेरौष्ण्यं सौम्यं शिशिरत्वं प्रकृते दयार्द्रचित्तत्वमित्यर्थः । दण्डं दुष्टनिग्रहकारित्वम् ॥ ३।४०।१२,१३ ॥

धर्मं राजधर्मम् ॥ ३।४०।१४ ॥

गुणदोषौ आत्मनि च कार्याकार्ये क्षमं युक्तं वा त्वां न पृच्छामि किन्तु एतावदेव मयोक्तम् ॥ ३।४०।१५ ॥

तत्किमत आह अस्मिन्निति । अस्मिन् कार्ये विषये भवत्कृत्यं साहाय्यमेव न त्वात्मनि गुणदोषचिन्तनम् अतस्त्वं कर्तुमर्हसीति सम्बन्धः । साहाय्ये मम वचनात् यत्कर्म कार्यं तच्छृण्विति सम्बन्धः ॥ ३।४०।१६२३ ॥

शिवं मनोहरम् । मार्गं मृगरूपम्, गच्छ प्राप्नुहि ॥ ३।४०।२४,२५ ॥

बलादपि करिष्यसि अनिच्छतापि त्वया सर्वथा अहमेतत्कार्यं कारिष्यामीत्यर्थः । विपक्षे बाधकमाह राज्ञ इति ॥ ३।४०।२६ ॥

तं राममासाद्य मृगरूपेण प्राप्य । जीवितसंशयः तव जीवितस्य संशयः । हानिलाभौ सन्दिग्धौ पक्षे जीवितलाभो ऽपि सम्भाव्यते, मद्विरोधे तु जीवितहानिर्निश्चितैव । अतस्त्वं बुद्ध्या निश्चित्य यद्युक्तं तत्कुरुष्व ॥ ३।४०।२७ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायां चत्वारिंशः सर्गः ॥ ३।४० ॥