एवमिति । निरन्तरमिति पाठे मध्ये वाक्यविच्छेदाकरणेनेत्यर्थः ॥ ३।३९।१ ॥
अनिर्विण्णः तथाकृतः । पूर्वं रामेण प्राणसङ्कटं प्रापितोप्यहमनिर्विण्णः कृतः पुनरपि श्रीरामनिरसनविषयक प्रवृत्तौ निष्फलत्वधीरहितः कृतः, पुनरपि श्रीरामनिरसनाय प्रवृत्तोहमिति यावत् । यद्वा तथाकृतः पूर्वं प्राणसङ्कटं प्रापितोपि अहमनिर्विण्णः अप्राप्तरामविषयप्रवृत्तिवैराग्यः ॥ ३।३९।२६ ॥
प्रव्राजितः कृतसकलदुष्कृतपरित्याग इत्यर्थः ॥ ३।३९।१३१५ ॥
रहिते रामरहिते वन इत्यर्थः ॥ ३।३९।१६ ॥
रकारादीनि रेफादीनीति यावत् ॥ ३।३९।१७,१८ ॥
रामकथा न कार्या न कथनीया, मत्पुरत इति शेषः ॥ ३।३९।१९ ॥
युक्ताः नियमितचित्ताः । सपरिच्छदाः सपरिवाराः ॥ ३।३९।२० ॥
क्षमं कुरु सीताहरणोपायं कुरु ॥ ३।३९।२१ ॥
महातेजाः महापराक्रमः । महासत्त्वः महत् सत्त्वं बुद्धिबलं यस्य स महासत्त्वः । महाबलः महत् बलं शरीरबलं यस्य स महाबलः । एको हिशब्दः प्रसिद्धौ । अपरो ऽवधारणे । राक्षसलोकस्यान्तको न भवेदपि हि अन्तको भवेदेवेत्यर्थः ॥ ३।३९।२२ ॥
अतिवृत्तः वृत्तमतिक्रान्तः शूर्पणखाहेतोः सीताहननप्रयत्नदोषविरहितशूर्पणखाहेतोः अतिवृत्तः शूर्पणखावाक्यश्रवणजनितरोषवशाद्रामहननार्थमुद्युक्तः खरः हतः ॥ ३।३९।२३ ॥
अत्र रामस्य को व्यतिक्रमः, न को ऽपीत्यर्थः ॥ ३।३९।२४ ॥
नाभिपत्स्यसे नाङ्गीकरिष्यसि ॥ ३।३९।२५ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायाम् एकोनचत्वारिंशः सर्गः ॥ ३।३९ ॥