इदानीं मारीचः रावणदुर्बुद्धिनिवारणाय रामवैभवं वक्तुमुपक्रमते कदाचिदिति ॥ ३।३८।१,२ ॥
मद्वित्रस्तः मन्निमित्तं वित्रस्तः ॥ ३।३८।३,४ ॥
पर्वकाले यागकाले ॥ ३।३८।५ ॥
अकृतास्त्रः अनभ्यस्तास्त्रः । काममिति सैन्यं कर्तृ ॥ ३।३८।६९ ॥
काममत्यन्तम् । महत्समर्थं सौन्यमस्तु तथापि तिष्ठतु । तेनानुपयोगादिति भावः ॥ ३।३८।१०१२ ॥
उपस्थितः तद्रक्षणार्थं समीपं प्राप्तः सन् ॥ ३।३८।१३ ॥
अजातव्यञ्जनः अनुत्पन्नश्मश्रुः । एकवस्त्रधरः ब्रह्मचर्ये स्थितः । शिखीकाकपक्षधरः कनकमालया उपलक्षितः ॥ ३।३८।१४,१५ ॥
आजगामेत्युत्तमपुरुषरूपम् । आगतोस्मीत्यर्थः ॥ ३।३८।१६१८ ॥
तेन रामेण, तेन बाणेन आहतो ऽहं शतयोजनपर्यन्ते समुद्रे क्षिप्तः ॥ ३।३८।१९ ॥
नेच्छता अनिच्छता, एतच्च रक्षणं केवलकृपामूलम् । निरस्तस्सन् अचेतनोस्मि ॥ ३।३८।२०२३ ॥
क्रीडेति । आहरिष्यसि प्रयत्नेन सम्पादयिष्यसि ॥ ३।३८।२४,२५ ॥
पापसंश्रयात् पापात्मसङ्गतेः । परापापैः परेषां पापात्मनां पापैर्निमित्तैः । नागह्रदे सर्पयुक्तह्रदे गरुडेन नागनिग्रहसमये यथा मत्स्याश्च हन्यन्ते तद्वदित्यर्थः ॥ ३।३८।२६,२७ ॥
हृतदारान् परिहृतदारान्, त्यक्तदारानिति यावत् ॥ ३।३८।२८,२९ ॥
परिग्रहः जात्यभिप्रायेणैकवचनम् ॥ ३।३८।३०३३ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायां अष्टात्रिंशः सर्गः ॥ ३।३८ ॥