॥ १ ॥
सुलभा इति । सततं प्रियवादिनः तत्कालमधुरवाक्यवक्तारः पुरुषाः सुलभाः भवन्तीति शेषः । लोके केचिद्वञ्चकाः राजसमीपवर्तिनः राज्ञो भविष्यदापदं ज्ञात्वापि तन्निवृत्त्युपायमकथयित्वा तत्कालप्रियवचनं कथयन्तीति भावः । किन्तु अप्रियस्य तत्काले अप्रियवत्प्रतीयमानस्य श्रवणकटुभूतस्येत्यर्थः । पथ्यस्य कालान्तरे पथ्यस्य, शुभोदर्कस्येत्यर्थः । वचनस्येति शेषः । वक्ता दुर्लभः तादृशो मन्त्री दुर्लभ इत्यर्थः । अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः । तस्मात् मयोक्तमिदानीं कर्णपरुषमपि शुभोदर्कं वचनं त्वया श्रोतव्यमिति भावः ॥ ३।३७।२ ॥
अन्यथा तवानर्थो भविष्यतीत्याशयेनाह अपीति । रक्षसां स्वस्ति भवेदपि भवेत्किम्? न भवेदेवेत्यर्थः । रामो लोकान् अराक्षसान्न कुर्यादपि न कुर्यात्किम्? कुर्यादेव ॥ ३।३७।४ ॥
जनकात्मजा ते जीवितान्ताय नोत्पन्नापि किन्तु उत्पन्नैव । सीतानिमित्तं महद्व्यसनं न भवेदपि किम्? भवेदेव ॥ ३।३७।५ ॥
लङ्कापुरी त्वां प्राप्य न विनश्येदपि किम्? विनश्येदेवेत्यर्थः ॥ ३।३७।६,७ ॥
पूर्वं रामे रावणेनोक्तदूषणानि निराकरोति न च पित्रेत्यादि ॥ ३।३७।८,९ ॥
सत्यवादिनं करिष्यामीति वनं प्रव्रजितः स्वयमेव गतः ॥ ३।३७।१० ॥
कैकेय्याः प्रियकामार्थं प्रियमनोरथपूरणार्थम् ॥ ३।३७।१११३ ॥
स्वेन तेजसा पातिव्रत्यवैभवादिना । शरार्चिषं शरा एवार्चीषि ज्वाला यस्य तम् । खड्गचापेन्धनं खड्गचापशब्देन तद्वन्तः शत्रवः कथ्यन्ते । अर्श आद्यच् । तथा खड्गचापधराः शत्रव एवेन्धनानि दाह्यवस्तूनि यस्य तम् तथोक्तम् ॥ ३।३७।१४,१५ ॥
धनुर्व्यादितदीप्तास्यं धनुरेव व्यादितं सर्वसंहाराय विवृतं ज्वालादीप्तमास्यं यस्य तम् । अमर्षणं क्रुद्धम् ॥ ३।३७।१६ ॥
आसादयितुं प्राप्तुम् । किं कृत्वा, राज्यादीनि संत्यज्येत्यर्थः ॥ ३।३७।१७२० ॥
किमिति । व्यर्थमिममुद्यमं कृत्वा ते किम् न किमपि हितमित्यर्थः । तदन्तं तद्दर्शनावसानमित्यर्थः ॥ ३।३७।२१ ॥
जीवितमित्यर्धं भिन्नं वाक्यम् ॥ ३।३७।२२२५ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायां सप्तत्रिंशः सर्गः ॥ ३।३७ ॥