॥ १,२ ॥
लब्धलक्षाः लब्धावसराः । प्राप्तयुद्धोत्साहा इति यावत् ॥ ३।३६।३ ॥
रतिवासं च राक्षसाः इति पाठः रत्या प्रीत्या वासो यस्मिन् कर्मणि तत्तथोक्तम् । चतुर्दशसहस्राणि वसन्तीत्यनुषज्यते ॥ ३।३६।४,५ ॥
संयुगे रामेण सह सङ्गताः तेन सह समरमकार्षुरित्यर्थः । वसमाना वसन्तः । परमत्यर्थम् । आयत्ताः सन्नद्धाः ॥ ३।३६।६ ॥
तेन रामेण किञ्चिदपि परुषमनुक्त्वा धनुः शरैः शरमोक्षव्यापारैः व्यापारितं सञ्जातव्यापारं कृतम् ॥ ३।३६।७९ ॥
पित्रेत्यादिश्लोकद्वयस्य प्रातीतिकार्थः स्पष्टः । वस्तुतस्तु क्रुद्धेन पित्रा निरस्तः निष्कासितः किम्? किन्तु कैकेयीवरदानसमये हि तेन पित्रा प्रार्थितः सन् वनमागतस्सभार्यः सभायामार्यः सभ्यः क्षीणजीवितः किम्? किन्तु तस्य खरस्य सैन्यस्य संहर्ता । कुतः क्षत्रियपांसनः क्षत्रियान् पातीति क्षत्रियपः सचासावंसनश्च शत्रुनाशकः । “अंस समाघाते” इति धातुः । अत एव अशीलः किम् किन्तु सद्वृत्तः तथापि कर्कशः कठिनः, शत्रुविषय इति शेषः । तीक्ष्णः क्रौर्येष्वनलसः अत एव अमूर्खः अलुब्धः जितेन्द्रिय इति छेदः । त्यक्त धर्मः त्यक्ता विरुद्धा धर्मा येनेति मध्यमपदलोपिसमासः । अत एवाधर्मात्मा किम्? किन्तु धार्मिक एव, अत एव भूतानामहिते रतः सर्वभूतदयापर इत्यर्थः ॥ ३।३६।१०,११,१२ ॥
तस्य भार्यामिति यथाश्रुतार्थः स्पष्टः । वस्तुतस्तु सनत्कुमारवचनाद्विष्णुरूपश्रीरामाद्वधं प्राप्य तत्पदं प्राप्तुं तस्य भार्यामानयिष्यामि न तु द्रोहबुद्ध्येति भावः ॥ ३।३६।१३ ॥
त्वया भ्रातृभिश्च सहायभूतैर्नाभिचिन्तये न गणयामि ॥ ३।३६।१४१६ ॥
तदिति भिन्नं पदम् । प्रकृते कार्यसाहाय्ये यत्कार्यं यत्कर्तव्यं तन्मे वचनात् श्रृण्विति सम्बन्धः ॥ ३।३६।१७१९ ॥
तयोरपाये अपगमे सति शून्ये इत्यत्राश्रम इत्यनुषज्यते । निराबाधः प्रतिबन्धरहितः ॥ ३।३६।२० ॥
तत इति प्रातीतिकोर्थः स्पष्टः । वस्तुतस्तु रामे भार्याहरणकर्शिते राम एवेभः रामेभस्य आर्या सीता तस्याः आहरणम् तेन हेतुना कर्शिते नाशिते सति रामेण मच्छरीर इति शेषः । ततः कृतार्थेनान्तरात्मना उपलक्षितस्सन् पश्चाद्विस्रब्धं निष्कलङ्कं सुखं परमानन्दसुखं मोक्षमिति यावत् । प्रहरिष्यामि प्रकर्षेणाहरिष्यामि, प्राप्स्यामीत्यर्थः । इदमात्मगतम् ॥ ३।३६।२१ ॥
रामकथां श्रुत्वा मारीचः परित्रस्तो बभूव तेन परित्रासेन तस्य वक्त्रं शुष्कं समभवदिति सम्बन्धः ॥ ३।३६।२२ ॥
नेत्रैः नेत्रव्यापारैः । मृतभूत इव मृतसदृशः ॥ ३।३६।२३ ॥
त्रस्तविषण्णचेताः त्रस्तः विषण्णचेताः खिन्नमानससञ्चारो यस्य । कुतः? रामपराक्रमज्ञः ॥ ३।३६।२४ ॥
इति श्रीमहेश्वरतीर्थकृतायां श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायां षट्त्रिंशः सर्गः ॥ ३।३६ ॥