०३५ मारीचं प्रति पुनः रावणागमनम्

तत इति । शूर्पणखावाक्यमिति शूर्पं शोणितभाजनं शूर्पेण शोणितभाजनेन यज्ञादिसत्क्रियां नखयति विदूषयतीति शूर्पनखा । “नख विदूषणे” इति धातुः । यद्वा शूर्पाकाराणि नखानि यस्यास्सा । सचिवमुखेन कार्यं बुध्वा । तामभ्यनुज्ञाय विसृज्य जगाम अन्तःपुरमिति शेषः ॥ ३।३५।१ ॥

अथानन्तरम् । तत्कार्यं स्वयमनुगम्यानुसन्धाय, पर्यालोच्येत्यर्थः । तच्च यथावदुपलभ्य इदमित्थमिति निश्चित्य । पुनश्च दार्ढ्याय गुणदोषप्राबल्यदौर्बल्यविषयचिन्तानिर्णयतां दर्शयति दोषाणां चेति । इदमत्र संप्रधार्य स्वेन चिकीर्षितं सीताहरणलक्षणं कार्यं किं पौरुषेण सुकरम् अथवा चौर्येण कर्तव्यमिति । कतरस्मिन् पक्षे दोषाल्पत्वं गुणभूयस्त्वमिति, तत्र पौरुषेण कर्तुं न शक्यम्, खरादियुद्धे रामस्याचिन्त्यपराक्रमत्वेन श्रुतत्वात् । उपायपरिकल्पितचौर्याश्रयणे तात्कालिकदोषा न लक्ष्यन्ते सीतारहिते रामे पश्चादपि हानिर्न सम्भाव्यत इति दोषाणां गुणानां च बलाबलं संप्रधार्य ॥ ३।३५।२ ॥

इतिकर्तव्यमित्येवात्मनो निश्चयं कृत्वा अयमेव पक्षस्सम्यगिति निश्चयं कृत्वेत्यर्थः । स्थिरबुद्धिस्सन् । ततो ऽनन्तरं यानशालां जगामेत्यन्वयः ॥ ३।३५।३ ॥

प्रच्छन्नं गूढम् । प्रकाशं चेत् वृद्धा वारयिष्यन्तीत्यभिप्रायः ॥ ३।३५।४९ ॥

विद्युन्मण्डलस्थाने आभरणानि, मेघस्थाने रावणः, बलाकास्थाने अलङ्कृतो रथ इति ज्ञेयम् ॥ ३।३५।१० ॥

सागरानृपं समुद्रतीरप्रदेशम् । अवलोकयन् ययाविति शेषः । सागरानूपमेव वर्णयति नानापुष्पफलैरित्यारभ्य स्निग्धं सागरतेजसेत्यन्तेन । आजैरिति पाठः । आजैः अजो ब्रह्मा तत्पुत्रैः वैखानसैः प्रसिद्धैः । माषैः माषसंज्ञैः ॥ ३।३५।१११७ ॥

प्लवाः मण्डूकाः । वैडूर्याण्येव प्रस्तराणि शिला यस्मिन् अनृपे ॥ ३।३५।१८,१९ ॥

अभिसंपतन् मार्गवशात्प्राप्नुवन् । विमानानि गन्धर्वाप्सरसश्च ददर्शेति सम्बन्धः ॥ ३।३५।२०,२१ ॥

जात्यानां जातिभवानाम् ॥ ३।३५।२२ ॥

समूहानित्युत्तरत्र स्थितं पदं मण्डूकप्लुत्यात्र विनियोज्यम् । तीरतः तीरे ॥ ३।३५।२३ ॥

प्रस्तरान् समूहान् शैलानीत्यादिषु लिङ्गव्यत्यय आर्षः ॥ ३।३५।२४ ॥

प्रस्रवाणि प्रवाहान् ॥ ३।३५।२५२७ ॥

गरुडो गजकच्छपावादाय यस्य न्यग्रोधस्य शाखामाजगामेति सम्बन्धः ॥ ३।३५।२८,२९ ॥

तत्रेति । तत्र भग्नायाः शाखायाः अधः प्रजापतेर्नखजाताः वैखानसाः । वालजाताः वालखिल्याः “ये नखास्ते वैखानसाः ये वालास्ते वालखिल्याः” इति श्रुतेः । माषाः पूतिमाषगोत्रजाः । माषप्रमाणा वा । अजाः अयोनिजाः । धूम्राः दवधूमपायिनः परमर्षयः सङ्गता बभूवुः ॥ ३।३५।३० ॥

तेषां मुनीनां दयार्थं शाखापातेन तेषां नाशो माभूदित्यनुग्रहार्थम् ॥ ३।३५।३१ ॥

एकपादेन तौ गजकच्छपौ तां शाखां च गृहीत्वा अन्तरिक्ष एव तदामिषं गजकच्छपामिषं भक्षयित्वा तया शाखया निषादविषयं निषाददेशं हत्वा मुनींश्च वधान्मोक्षयित्वा अतुलं प्रहर्षं लेभे ॥ ३।३५।३२,३३ ॥

तेनैव प्रहर्षेण अभिमतभक्षणनिषादनाशमुनिजनरक्षणजनितसन्तोषेणेत्यर्थः ॥ ३।३५।३४ ॥

अयोजालानि अयश्श्रृङ्खलनिर्मितानि जालानि रत्नमयगेहोपरि पक्षिराजप्रवेशपरिहाराय बद्धानि निर्मथ्य भित्त्वा रत्नगृहं च भित्त्वा अमृतमाजहारेत्यन्वयः ॥ ३।३५।३५ ॥

सुपर्णकृतलक्षणं शाखाभङ्गरूपं लक्षणं चिह्नं यस्य तं तथोक्तम् ॥ ३।३५।३६४१ ॥

पश्चादिदम् उत्तरसर्गे वक्ष्यमाणम् ॥ ३।३५।४२ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायां पञ्चत्रिंशः सर्गः ॥ ३।३५ ॥