॥ १५ ॥
कनकाङ्गदं कनकवलयभूषणमिति चापविशेषणम् ॥ ३।३४।६९ ॥
सहदूषणः खरश्च हत इति शेषः ॥ ३।३४।१०१२ ॥
रामस्य दक्षिणो बाहुरित्यनेन रामकार्यधुरन्धरत्वं प्रतीयते । प्राणो बहिश्चर इत्यनेन निरतिशयप्रेमास्पदत्वं दर्शितम् ॥ ३।३४।१३२१ ॥
॥ २२२६ ॥
निशम्येति । प्रतिपत्तुं ज्ञातुम् ॥ ३।३४।२७ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायां चतुस्त्रिंशः सर्गः ॥ ३।३४ ॥