॥ १४ ॥
अयुक्तचारम् अनियोजितारम् । दुर्दर्शं सङ्कटकार्यदशायामप्यमात्यादीनां दर्शनाप्रदातारम् । अस्वाधीनं स्त्रीजितम् ॥ ३।३३।५ ॥
विषयं देशम् । वृद्ध्या उदयेन । सागरे गिरयः मग्ना इति शेषः ॥ ३।३३।६ ॥
आत्मवद्भिः प्रशस्तधैर्यैः । विगृह्य विरोधं कृत्वा ॥ ३।३३।७,८ ॥
प्राकृतैः मूर्खैः ॥ ३।३३।९१३ ॥
स्वे विषये स्वकीये देशे ॥ ३।३३।१४ ॥
तीक्ष्णं प्रत्यक्षदृश्यमानम् । शठं गूढविप्रियकारिणम् । गर्वितं सञ्जातगर्वं पार्थिवम् । सर्वभूतानि भृत्यादिसर्वप्रजा अपि व्यसने व्यसनकाले नाभिधावन्ति तद्रक्षणाय न प्रवर्द्धन्ते ॥ ३।३३।१५ ॥
अग्राह्यं सद्भिरिति शेषः । आत्मसम्भावितम् आत्मना स्वेनैव बहुमानं प्राप्तः सोयमात्मसम्भावितः तम् । क्रोधिनम् अस्थाने क्रोधवन्तम् । व्यसने व्यसनकाले । स्वजनोपि अमात्यादिरपि ॥ ३।३३।१६१९ ॥
सर्वज्ञः स्वराष्ट्रपरराष्ट्रवृत्तान्तज्ञः ॥ ३।३३।२० ॥
व्यक्तक्रोधप्रसादश्च व्यक्तौ सार्थकत्वेनाभिव्यक्तौ क्रोधप्रसादौ यस्य सः तथोक्तः ॥ ३।३३।२१ ॥
यस्य ते येन त्वया अविदितः न ज्ञात इत्यर्थः ॥ ३।३३।२२ ॥
न देशकालप्रविभक्ततत्त्वविदिति नगनैकादिवन्नसमासः । नचिरात् क्षिप्रम् । विपत्स्यसे आपदं प्राप्स्यसीत्यर्थः ॥ ३।३३।२३ ॥
विचिन्तयामासेति मरीचः समरो मास्त्विति ब्रूते, इयं भगिनीतु समरं प्रोत्साहयति किमत्रकर्तव्यमिति चिन्तयामासेत्यर्थः ॥ ३।३३।२४ ॥
इति श्रीमहेश्वरीतिर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायां त्रयस्त्रिंशः सर्गः ॥ ३।३३ ॥