॥ १३ ॥
विमानाग्रे पुष्पके ॥ ३।३२।४ ॥
रुक्मं हिरण्यम् । तन्मयीभिरिष्टकाभिश्चिता वेदिः रुक्मवेदिः तां गतं प्राप्तम् । प्राज्यं प्रभूतमाज्यं यस्य तम्, प्रभूतेनाज्येन, वर्द्धितमित्यर्थः ॥ ३।३२।५,६ ॥
देवासुराणां विमर्देशु युद्धेषु । उत्कृष्टकिणवक्षसमिति पाठः । उत्कृष्टमुल्लिखितं क्षतं किणयुक्तं वक्षो यस्य तम् ॥ ३।३२।७ ॥
दर्शनीयाः परिच्छदाः छत्रचामरादयो यस्य तम् ॥ ३।३२।८ ॥
स्निग्धवैडूर्यसङ्काशं स्निग्धानि कान्तियुक्तानि वैडूर्याणि प्राचुर्येण येष्वाभरणेषु तेषां सङ्काशाः प्रभाविशेषाः यस्य तम् ॥ ३।३२।९१४ ॥
नलिनीं चैत्ररथवनमध्यवर्तिनीं सरसीमित्यर्थः ॥ ३।३२।१५,१६ ॥
उत्तिष्ठन्तौ उदयन्तौ ॥ ३।३२।१७ ॥
शिरांस्युपजहार पूजोपकरणानि चकार । देवदानवेति मानुषादृते देवादिभिः कर्तृभिः अस्य मृत्युतो भयं मरणभयं नास्तीत्यर्थः ॥ ३।३२।१८,१९ ॥
हविर्धानेषु सोमाभिषवशालासु । मन्त्रैः प्रातरनुवाकग्रावस्तोत्रादिभिः । अभिष्टुतं सोममुपहन्ति नाशयति । प्राप्तयज्ञहरं दक्षिणकालप्राप्तयज्ञहरमित्यर्थः । आप्तयज्ञहरमिति पाठे आप्तपदस्य पर्याप्तत्वमर्थः । सर्वभूतानां रावणं रावकम् ॥ ३।३२।२०२४ ॥
प्रदर्शयित्वा स्वकं वैरूप्यमिति शेषः । अभीतचारिणी भयराहित्येन सर्वपुरुषगामिनी ॥ ३।३२।२५ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायां द्वात्रिंशस्सर्गः ॥ ३।३२ ॥