त्वरमाण इति । शूर्पणखागमनात्पूर्वमेवेति शेषः ॥ ३।३१।१ ॥
खरश्चेति चकारेण दूषणत्रिशिरसौ संङ्गृहीतौ । कथञ्चिदहमागतः केवलं प्रेक्षकतया स्थितत्वाद्रामशराविषयीकृत इत्यर्थः ॥ ३।३१।२,३ ॥
परासुना मुमूर्षूणा । कः को वा गतिं स्थितिं स्वरूपं वा ॥ ३।३१।४७ ॥
सन्दिग्धया वाचा सन्दिग्धाक्षरया वाचेत्यर्थः ॥ ३।३१।८,९ ॥
सिंहसंहननः “वराङ्गरूपोपेतो यः सिंहसंहननो हि सः” इत्यमरः ॥ ३।३१।१०,११ ॥
नागेन्द्र इव सर्पश्रेष्ठ इव ॥ ३।३१।१२१७ ॥
नैव देवा महात्मान इति आयाता इति शेषः ॥ ३।३१।१८,१९ ॥
येन येनेति । भयकर्शिताः राक्षसाः स्वेषां राक्षसत्वगोपनार्थं येन येन रूपान्तरेण गच्छन्ति तेन तेन परिगृहीतरूपेणाग्रतः स्थितं राममेव पश्यन्ति । यद्वा येन येन यद्यद्वस्त्वन्तर्धानसाधनबुद्ध्या गच्छन्ति तेन तेन तस्मिंस्तस्मिन्वस्तुनि राममेव पश्यन्ति, तत्तद्वस्तु रामाकारमेव पश्यन्तीति । यद्वा मार्गेणेत्यध्याहारः । येन येन मार्गेण राक्षसाः स्वत्राणार्थं गच्छन्ति पलायन्ते तेन तेन तत्र तत्र मार्गे रामं पश्यन्तीति अनेन प्रतिराक्षसं स्वेच्छागृहीतदेहत्वं व्यज्यते ॥ ३।३१।२०,२१ ॥
हे राजन् यथा रामस्य वृत्तं तत्कृतातिमानुषकर्म । यद्वा रामस्य वृत्तं चरितम् । यथा यथावत् बलं पराभिभवनसामर्थ्यम् । पौरुषं महापुरुषकर्म । यथा यादृशम्, तत्सर्वमिति शेषः । श्रृण्विति योजना ॥ ३।३१।२२ ॥
कुपितः मर्यादोल्लङ्घनविषयनिग्रहवान् राम इति रमयतीति व्युत्पत्त्या कोपस्याहार्यत्वं व्यज्यते । विक्रमेणासाध्यः विक्रमे प्रवृत्ते निवारयितुमश्क्य इत्यर्थः । असाध्य इत्युपपदरहितेन असाध्यशब्देन ब्रह्मेन्द्ररुद्राद्यसाध्यत्वं प्रतीयते । महायशाः लोके वेदे च प्रसिद्धविभवः, अनेन त्रिविक्रमावतारस्सूच्यते । शरैर्जलैः पूर्णाया आपगाया वेगं परिहरेदित्यनेन भविष्यत्कृष्णावतारस्सूच्यते ॥ ३।३१।२३ ॥
नभश्शब्देन लक्षणया ब्रह्माण्डकोश उच्यते । नभश्चाप्यवसादयेदित्यनेनापि त्रिविक्रमावतारध्वनिः । तथा च श्रुतिः “यो अस्कभायदुत्तरं सधस्थं विचक्रमाणस्त्रेधोरुगायः” इति । मज्जन्तीं सीदन्तीम् महीमुद्धरेदिति वराहावतारस्सूचितः । श्रीमानित्यनेन वराहावतारेपि लक्ष्म्या अनुवृत्तिस्सूचिता । यद्वा महीशब्देन महीस्थजनो लक्ष्यते तथाचायमर्थ संसारसमुद्रे मज्जन्तं महीस्थजनमुद्धर्तुं शक्तमिति परमपुरुषार्थरूपमोक्षप्रद इत्यर्थः ॥ ३।३१।२४ ॥
लोकानाप्लावयेदित्यनेन संहारकारणमपि श्रीराम एवेति प्रतीयते । शरैः समुद्रस्य वेगं विधमेदित्यनेन करिष्यमाणसेतुबन्धनं व्यज्यते । वायुमिति पृथिव्यादिभूतोपलक्षणम् “पृथिव्यप्सु प्रलीयते । आपस्तेजसि लीयन्ते” इत्याद्युक्तप्रकारेण प्रलयं कुर्यादिति ध्वन्यते । संहृत्य वेत्यनन्तरमनुवादात् ॥ ३।३१।२५ ॥
पुनस्संहृत्येत्यनेन पूर्वकल्पसंहारसृष्ट्योरप्येतत्कर्तृकत्वं व्यज्यते । लोकानिति बहुवचनेन संहार्यास्सर्वेपि लोका विवक्षिताः । विक्रमेण सङ्कल्पमात्रेणेत्यर्थः । “एतस्य वा अक्षरस्य” इत्यादि श्रुतेः । महायशाः षड्गुणैश्वर्यकृतप्रसिद्धिः । शक्ताः अनन्तशक्तिमान् । “परास्य शक्तिर्विविधैव श्रूयते” इति श्रुतेः । ननु “एको ह वै नारायणः” इत्यादिना नारायणस्य सृष्टिकर्तृत्वं प्रतीयते तत्कथं रामस्य सृष्टिकर्तृत्वमित्यत आह स पुरुषव्याघ्र इति । “स हि देवैरुदीर्णस्य रावणस्य वधार्थिभिः” इत्यादिना स एवायं नारायणो रामात्मनावतीर्ण इत्युक्तत्वादिति भावः । स्रष्टुं पुनरपीति अत्रापि पुनश्शब्दः पूर्वसृष्टेस्तदधीनत्वद्योतकः ॥ ३।३१।२६ ॥
दशग्रीवेति सम्बोधनेन रामपदस्वारस्याच्च तवावलेपहेतुभूतमनन्यसाधारणं दशवदनत्वं हीति सूचनेन श्रीरामस्य सहस्रशीर्षत्वं च व्यज्यते । तथा च हस्तिमशकयोरिव श्रीरामस्य तव चान्तरम्, अतस्त्वया रामो युधि जेतुमशक्यः । अल्पशक्तिकेन त्वया अपरिमितानन्तशक्तिमान् रामः कथं जेतुं शक्य इति भावः । रक्षसां नमुचिहिरण्यकशिपुशम्बरबलिप्रभृतीनां लोकेन जनेनापि जेतुं न शक्य इत्यर्थः । जयस्यासम्भावनां द्योतयितुं स्वर्गः पापजनैरिवेत्युक्तम् । प्रसिद्धैर्बहुभिरेकः कथं जेतुमशक्य इत्यत आह स्वर्गः पापजनैरिवेति ॥ ३।३१।२७ ॥
इन्द्रजिता निर्जिताश्शक्रादयो ऽस्मत्सहाया भविष्यन्तीत्याशङ्कां वारयति न तमिति । अहं मन्य इति राक्षसजातिमापन्नस्यापि ममातीतानन्तजन्मसुकृतपरिपाकेन श्रीरामस्य रूपविषयं ज्ञानमुत्पन्नमिति वा । यद्वा अकम्पनापदेशेन भगवान्वाल्मीकिरेव श्रीरामस्य परतत्त्वख्यापनं कृतवानिति वा न किञ्चिद्विरुद्धम् । मम सम्बन्धिनं तं वधोपायं मयोत्प्रेक्षितं वधोपायमित्यर्थः ॥ ३।३१।२८ ॥
भार्येति । श्यामा यौवनमध्यस्था ॥ ३।३१।२९ ॥
देवी देवपत्नी । गन्धर्वी गन्धर्वपत्नी । “पुंयोगादाख्यायाम् " इति ङीष् ॥ ३।३१।३० ॥
प्रमथ्य श्रीरामं केनचिदुपायेन प्रलोभ्य तस्य भार्यां प्रमथ्य बलात्कृत्वापहर ॥ ३।३१।३१ ॥
अरोचयत अनुकूलत्वेन ज्ञातवान् । चिन्तयित्वेति श्रीरामस्य सीतया सहानवस्थानोपायमिति शेषः ॥ ३।३१।३२ ॥
काल्यं प्रातः । अरोचयत तद्वाक्यमित्यस्य वास्तवार्थस्तु चिन्तयित्वा अकम्पनाद्रामवृत्तान्तश्रवणानन्तरं चिन्तयित्वा त्रेतायुगे श्रीरामो ऽवतरिष्यतीति सनत्कुमारवाक्यं स्मृत्वेत्यर्थः । श्रीरामहस्ताद्वधेच्छू रावणः तद्वाक्यं तस्याकम्पनस्य वाक्यं सीतामपहरेत्येवंरूपं वचनमरोचयत अनुकूलत्वेनाङ्गीचकारेति सम्बन्धः । अस्मिन्नर्थे उत्तररामायणोक्ता सनत्कुमाररावणसम्बन्धिनी अगस्त्यरामसंवादरूपा कथानुसन्धेया । तथाहि रामं प्रत्यगस्त्यवचनम् “अथापरां कथां दिव्यां श्रृणु राजन् पुरातनीम् । यदर्थं राम वैदेही रावणेन हृता पुरा । पुरा कृतयुगे राम प्रजापतिसुतं प्रभुम् । सनत्कुमारमासीनं रावणो वाक्यमब्रवीत् । रावणः दैत्यदानवयक्षांसि ये हतास्समरे ऽरयः । कां गतिं प्रतिपद्यन्ते केन ते हरिणा हताः ॥ सनत्कुमारः ये ये हताश्चक्रधरेण राजन् त्रैलोक्यनाथेन जनार्दनेन । ते ते गतास्तन्निलयं नरेन्द्राः क्रोधोपि देवस्य वरेण तुल्यः ॥ श्रुत्वा ततस्तद्वचनं निशाचरस्सनत्कुमारस्य मुखाद्विनिर्गतम् । तदा प्रहृष्टस्स बभूव विस्मितः कथं नु यास्यामि हरिं महाहवे ॥ मुनिः मनसश्चेप्सितं यत्तद्भविष्यति तदाहवे । सुखी भव महाबाहो किञ्चित्कालं प्रतीक्षय । अथवा राक्षसेन्द्र त्वं यदीदं प्रष्टुमिच्छसि । कथयिष्यामि ते सर्वं श्रूयतां यदि रोचते । कृतयुगे व्यतीते वै मुखे त्रेतायुगस्य तु । हितार्थं देवमर्त्यानां भविता नृपरिग्रहः । इक्ष्वाकूणां च यो राजा भाव्यो दशरथो भुवि । तस्य सूनुर्महातेजा रामो नाम भविष्यति । एवं श्रुत्वा महाबाहू राक्षसेन्द्रः प्रतापवान् । त्वया सह विरोधेच्छुश्चिन्तयामास राघव । सनत्कुमारात्तद्वाक्यं चिन्तयानो मुहुर्मुहुः । रावणो मुमुदे मोहाद्युद्धार्थी विचचार ह । एतदर्थं महाबाहो रावणेन दुरात्मना । सुता जनकराजस्य हृता राम महामते । लङ्कामानीय यत्नेन मातेव परिरक्षिता ॥ " इत्यादि। अत एव रावणस्य सीतारामभृत्यत्वेन तावुद्दिश्य तेन वक्ष्यमाणानि बाह्यदृष्ट्या दुर्भाषणवत्प्रतीयमानान्यपि वाक्यानि वस्तुतः स्तुतिपराण्येव। तथा तत्र तत्र व्याख्यास्यामः ॥
३।३१।३३३५ ॥
ताटकेयं मारीचम् ॥ ३।३१।३६ ॥
अर्थोपहितया अर्थगम्भीरया ॥ ३।३१।३७ ॥
अथ जाने इति छेदः । हे राजन् कच्चित्सुकुशलमिति सामान्यप्रश्नः । राक्षसेश्वर लोकानां राक्षसलोकानां कुशलं नेत्याशङ्के । अथ अथवा । त्वं य तत्सूर्णमागतः अतः कुशलं नैव जाने महत्प्रयोजनं विना भवदागमनं नोपपद्यत इत्यर्थः ॥ ३।३१।३८,३९ ॥
आरक्षः अन्तपालः, खरादिरित्यर्थः । अत एव जनस्थानं हतं नाशितम् । साचिव्यं साहाय्यम् ॥ ३।३१।४०,४१ ॥
सा सीता केन आख्याता आहर्तव्येति शेषः । आख्याता कथितेत्यर्थः । त्वया सामादिनानन्दितः को वा नन्दति, स्वकीयशाठ्येनेति भावः । तादृशः को वा सीतामिहानयस्वेति ब्रवीति तमपि ब्रवीहि ब्रूहि । निन्दित इति पाठे निन्दितस्त्वया तिरस्कृतः को वा न नन्दति राज्यलक्ष्मीसम्पन्नं त्वां दृष्ट्वेति शेषः । त्वया तिरस्कृतस्तावकमैश्वर्यमसहमानस्सन् त्वया सह कृत्रिममित्रभावं प्राप्तस्सन् तवेदृशीं ब्रूद्धिमुपदिशतीति भावः ॥ ३।३१।४२ ॥
श्रृङ्गं प्राधान्यमैश्वर्यमिति यावत् ॥ ३।३१।४३ ॥
उद्धर्तुमुद्धारयितुम् । कापथं कुमार्गम् । प्रतिपादितः प्रापितः ॥ ३।३१।४४,४५ ॥
विशुद्धवंशे अभिजनो ऽभिजननमेव ॥ अग्रहस्तो यस्य स तथा गजस्य यथा करो भूषणम् तथा श्रीरामचन्द्रस्यापि सत्कुलप्रसूतत्वं भूषणमिति भावः । तेजो मदः तेजः प्रताप एव मदो यस्य सः । समदस्यैव गजस्य श्लाध्यतया मदो यथा गजस्य भूषणं तथा श्रीरामचन्द्रस्यापि महावीर्यस्य प्रताप एव भूषणमिति भावः । संस्थितदोर्विषाणः संस्थितौ संस्थानवन्तौ दिव्यलक्षणलक्षितौ दोषौ बाहू एव विषाणे यस्य स तथा गजस्य श्रृङ्गद्वयमिव श्रीरामस्याजानुलम्बि भुजगभोगाभबाहुद्वयं भूषणमिति भावः । राघवगन्धहस्ती मत्तगजः यस्य मदगन्धेनान्ये गजाः पलायन्ते स मदगन्धहस्ती । इह इदानीं यदीक्षितुमपि न युक्तः, किमुत योद्धुमिति भावः ॥ ३।३१।४६ ॥
रणान्तास्स्थितिसन्धिवालः रणान्ते सङ्ग्राममध्ये स्थितिरनपक्रमणमेव सन्धिः अङ्गप्रत्यङ्गसन्धिश्च वालश्चयस्य स तथा । रणान्तस्थितिसन्धिपाल इति पाठे रणान्तःस्थित्या रणमध्यावस्थानेन सन्धीन् छिद्राणि पालयतीति तथा । विदग्धाः रणचतुरा ये खरादिराक्षसरूपाः मृगाः तान् हन्तीति तथा । शराङ्गपूर्णः शरैरेवाङ्गैरवयवैः पूर्णः । निशितासिः तीक्ष्णखड्ग एव दंष्ट्रे यस्य सः । सुप्तः परद्रोहविमुखतया अवस्थानमेव सुपतत्वं रामपक्षे द्रष्टव्यम् । सिंहपक्षेतु सुप्तत्वं सनिद्रत्वम् । नृसिंहो ना मनुष्यः दशरथतनयरूपेण गृहीतलीलविग्रहः श्रीराम एव सिंहः बोधयितुं न युक्त इति योजना ॥ ३।३१।४७ ॥
चाप एव अवहारो जलग्राहो यस्मिन् “ग्राहो ऽवहारः” इत्यमरः । भुजयोर्वेगः शरसन्धानमोक्षणविषयो वेगः स एव पङ्को यस्मिन् तस्मिन् । चापस्य परनिग्रहपरतया मकरसाम्यम् । दुस्तरत्वसाम्येन भुजवेगस्य पङ्कसाम्यम् । शरोर्मिमाले शरा एव ऊर्मिमालास्तरङ्गसमूहा यस्मिन् तस्मिन् सुमहाबलौघे महाबलमेव ओघ आवर्तो यस्मिंस्तस्मिन् । सुमहाहवौघ इति पाठे सुमहानाहव एव लक्षणया रणोत्साहा एव ओघः प्रवाहो यस्मिंस्तस्मिन् । अतिघोरे दुष्प्रवेशतया भयङ्करे । राम एव पातालमुखः समुद्रस्तस्मिन् प्रस्कन्दितुं प्रवेष्टुं न युक्तमित्यन्वयः ॥ ३।३१।४८ ॥
रावणोद्युक्तमकार्यमविलम्बेन निवर्तयितुं प्रसीद प्रसन्नो भवेति पुनःपुनराह ॥ ३।३१।४९,५० ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायामेकत्रिंशः सर्गः ॥ ३।३१ ॥