॥ १,२ ॥
एषेति । अभिधानेति अभिधानप्रगल्भस्य प्रौढवाददक्षस्य । प्रत्ययघातिनी विश्वासघातिनी (तवप्रत्ययघातिनीति पाठः) ॥ ३।३०।३७ ॥
प्रबद्धनिद्रेति पाठः । प्रबद्धनिद्रे प्रकर्षेण बद्धा दीर्घभूता निद्रा यस्य तस्मिन् । शरण्यानां स्वतपोमहिम्ना सर्वजनशरण्यानां मुनीनां शरण्या वासयोग्या भविष्यन्ति ॥ ३।३०।८ ॥
हतस्थाने हतराक्षससन्निवेशे ॥ ३।३०।९ ॥
विप्रसरिष्यन्ति जनस्थानाद्विद्रविष्यन्तीत्यर्थः ॥ ३।३०।१० ॥
निरर्थकाः निर्गतो ऽर्थः कामादिपुरुषार्थो यासां ताः । अनुरूपं त्वत्सदृशं कुलं यासां ताः अनुरूपकुलाः । पतिरीदृशः पापकर्मेत्यर्थः ॥ ३।३०।११ ॥
यत्कृते यन्निमित्त्म् । शङ्कितैः त्वद्विघ्नं शङ्कितैः मुनिभिरग्नौ हविः पात्यते क्षिप्यते ॥ ३।३०।१२१४ ॥
कालपाशपरिक्षिप्ताः बद्धाः । निरस्तषडिन्द्रियाः निर्गतज्ञानेन्द्रियान्तःकरणव्यापाराः । तमेवमित्यादिश्लोकत्रयस्य प्रातीतिकार्थः स्पष्टः । वस्तुतस्तु एवं ब्रुवाणं रामं मृत्युवश्यः खरः हे राम त्वं वाच्यावाच्यं न बुद्ध्यस इति दृढमवलिप्तोसीति च निर्भर्त्सयामासेति च सम्बन्धः । एवं निर्भर्त्सने हेतुमाह कालपाशेति । लेके कालपाशपरिक्षिप्ताः पुरुषाः महात्मानमपि निर्भर्त्सन्त्येवेति भावः ॥ ३।३०।१५ ॥
भ्रुकुटिं संरुद्ध्य संनिबद्ध्य । प्रहरणस्यार्थे आयुधस्यार्थे ॥ ३।३०।१६ ॥
दशनच्छदम् अधरम् ॥ ३।३०।१७ ॥
तमिति हत इत्यब्रवीत् । वस्तुतस्तु त्वं हतः मया ज्ञात इत्यब्रवीत् ॥ ३।३०।१८,१९ ॥
जातस्वेदः रोषादुत्पन्नस्वेदः ॥ ३।३०।२० ॥
बाणान्तरात् बाणक्षतविवरात् । प्रस्रवणस्य प्रस्रवणाख्यस्य । तोयधारापरिस्रवः तोयधारापरिस्रवणमिव ॥ ३।३०।२१ ॥
विह्वलः विकटः रुधिरगन्धेनोपलक्षितः ॥ ३।३०।२२ ॥
संरब्धम् अतिक्रुद्धम् । आपतन्तं बाणक्षेपणानवकाशतया अतिसन्निकृष्टम् उपरि आपतन्तं खरं दृष्ट्वेति शेषः । कृतास्त्रः शिक्षितास्त्रः रामः त्वरितविक्रमः शस्त्रसन्धानावकाशार्थं त्वरितपादविक्षेपस्सन् प्रतिपदं प्रतीपं तिर्यगित्यर्थः । किञ्चिदपासर्पत् अपसृतवान्, अपसर्पणे हेत्वन्तरमाह रुधिराप्लुतमिति । तद्देहरुधिरस्य स्वस्मिन् संश्लेषजुगुप्सयेत्यर्थः । यद्वा तं खरं वर्जयित्वा प्रतिपदं प्रतिमार्गं आगतेनैव मार्गेणापासर्पत् अपागच्छत् शरसन्धानसौकर्यार्थं द्वित्राणि पदानि किञ्चित्पृष्ठतो गच्छतीत्यर्थः । क्वचिदतिसङ्कटदेशकालयोः वीरधुरन्धराणामपि सम्मतमिदमपसर्पणामिति भावः ॥ ३।३०।२३ ॥
उद्यन्तं ब्रह्मदण्डं ब्रह्मास्त्रमिव स्थितम् ॥ ३।३०।२४,२५ ॥
रामेण धनुरायम्य कर्णान्तमाकृष्य विमुक्तः स बाणः खरस्योरस्यपातयत् अपतदित्यर्थः ॥ ३।३०।२६ ॥
रुद्रेणेवेति । इवशब्दो वाक्यालङ्कारे । श्वेतारण्यं कावेरीसिन्धुनिकटदेशः ॥ ३।३०।२७ ॥
बलो वेत्यत्रवाशब्द इवार्थे “उपमायां विकल्पे वा” इत्यमरः ॥ ३।३०।२८ ॥
एतदर्थं खरादिवधार्थं शरभङ्गाश्रममिति सुतीक्ष्णगस्त्याश्रमयोरप्युपलक्षणम् । हे शरभङ्ग त्वं तावत् जनस्थानसन्निकर्षाय रामं सुतीक्ष्णाश्रमं नय । ततो मुनयः स्वस्वाश्रमदर्शनापदेशेन खरसन्निकर्षं नयन्त्विति वक्तुमगस्त्यहस्ते आयुधानि निधातुं चेत्यर्थः ॥ ३।३०।३०३३ ॥
अर्धाधिकमुहूर्तेन घटिकात्रयेणेत्यर्थः ॥ ३।३०।३४,३५ ॥
दाक्ष्यं सामर्थ्यम् ॥ ३।३०।३६३८ ॥
तं दृष्ट्वेति । “ते तु यावन्त एवाजौ तावांस्तु ददृशे स तैः” इत्युक्तरीत्या तात्कालिकस्वेच्छागृहीतचतुर्दशसहस्रदिव्यमङ्गलविग्रहवत्तया प्रतिराक्षसं प्रत्येकं राम इव स्थित्वा दृश्यमानमिति तच्छब्दार्थः । यद्वा इन्द्रादिभिरपि सम्भूयाप्रधृष्यान् बलीयसश्चतुर्दशसहस्रराक्षसान् एक एवार्धाधिकमुहूर्तेन स्वयमक्षत एव लीलया संहृत्य स्वपुरस्स्थितं “राम जामातरं प्राप्य स्त्रियं पुरुषविग्रहम्” इत्यात्मना अज्ञानात्पूर्वं विप्रलब्धमिति वा तच्छब्दार्थः । “तैर्धनूंषि ध्वजाग्राणि वर्माणि च शिरांसि च । बाहून् सहस्ताभरणानूरून् करिकरोपमान् । चिच्छेद समरे रामः “इत्युक्तप्रकारेण शत्रुहन्तारं दृष्ट्वेत्यन्वयः । किञ्च “परित्राणाय साधूनां विनाशाय च दुष्कृताम् । धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥ " इति स्वप्रतिज्ञां परिपालयन्नवतीर्य असतो राक्षसान् हत्वा सतामृष्यादीनां जगन्मोहनदिव्यमङ्गलस्वमूर्तिसाक्षात्कारेण परमानन्दं सम्पादितवानित्याह महर्षिणां सुखावहमिति। किञ्च एवंविधं रामं दृष्ट्वा वैदेही बभूव स्वनिर्वाहरूपसत्तासम्पन्ना जातेत्यर्थः। भूधातोस्सत्तावाचकत्वात्। श्रीरामस्य शत्रुमध्यलीनतया असत्प्रायत्वात्स्वस्याप्यसत्प्रायत्वम् अमन्यत पूर्वं वैदेही, इदानीं स्वप्राणेश्वरश्रीरामसत्तया स्वसत्ता निष्पन्नेत्यमन्यत। “आत्मा वै पुरुषस्य दाराः” इति नियमादिति भावः। हृष्टा प्रीता परिषस्वजे आयुधव्रणानां स्तनोष्मणा परिहारं कर्तुं गाढमालिङ्गनं कृतवतीति ॥
३।३०।३९,४० ॥
सभाज्यमानम् पूज्यमानम् ॥ ३।३०।४१ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायां त्रिंशस्सर्गः ॥ ३।३० ॥