०२९ खरनिर्भर्त्सनम्

खरमिति । मृदुपूर्वं मृदूक्तिपूर्वम् । परुषं कर्णकठोरमित्यर्थः ॥ ३।२९।१ ॥

बले तिष्ठता बलविषयस्वामित्वेन तिष्ठता त्वयेत्यर्थः ॥ ३।२९।२ ॥

भूतानामुद्वेजनीयः उद्वेगकरः । नृशंसः घातुकः एवंविधश्च लोकानामीश्वरः इन्द्रोपि न तिष्ठति, चिरकालमिति शेषः । किंपुनर्भवानित्यर्थः ॥ ३।२९।३,४ ॥

अप्राप्तस्य प्राप्त्याशा कामः, प्राप्तपर्याशा लोभः । तस्य पापस्य अन्तं नाशरूपं परिपाकमिति यावत् । पश्यति पापफलमनुभवतीत्यर्थः । किमिव? ब्राह्मणी करकादिव करका घनोपलः तानत्तीति करकात्, पुँल्लिङ्गोप्यस्ति । ब्राह्मणी रक्तपुच्छिकेव । रक्तपुच्छिकायाः करका विषमिति प्रसिद्धिः । रक्तपुच्छिका घनोपलं निगीर्य क्षणेन म्रियते, तद्वत्त्वमपि मया विनश्यतीत्यर्थः ॥ ३।२९।५,६ ॥

पापकर्माणः पूर्वण्येनैश्वर्यं प्राप्यापि न चिरं तिष्ठन्ति क्षिप्रमेव नश्यन्तीत्यर्थः ॥ ३।२९।७ ॥

पापस्य कर्ता काले पापफलानुभवकाले प्राप्ते अवश्यं घोरं दुःखरूपं फलं लभते, ऋतुकाललक्षणे काले प्राप्ते आर्तवं तत्तदृतुप्रयुक्तं पुष्पमिव ॥ ३।२९।८ ॥

नचिरादित्येकं पदम् । अविलम्बेनेत्यर्थः ॥ ३।२९।९ ॥

राज्ञा दशरणेन भरतेन वा । आसादितिः नियुक्तः ॥ ३।२९।१० ॥

भित्त्वा तद्वपुरिति शेषः । विदार्य भूमिमिति शेषः । निपतिष्यन्ति भूमिं भित्वा गमिष्यन्तीत्यर्थः ॥ ३।२९।११ ॥

ये धर्मचारिणः ताननुगमिष्यतीत्यनेन पापिनामपि स्वेन हतानामुत्तमलोकप्राप्तिरस्तीत्युक्तं भवति ॥ ३।२९।१२ ॥

पतितं दुर्दशां प्राप्य भूमौ पतितम् ॥ ३।२९।१३१७ ॥

अकृतात्मानः कल्मषचित्ताः ॥ ३।२९।१८ ॥

कुलं व्यपदिशन् कुलीनत्वं प्रकटयन् । मृत्युकाले तत्तुल्ये समरे संप्राप्ते सति । अप्रस्तवे स्तवं को वाभिधास्यति को वा आत्मप्रशंसां करोतीत्यर्थः ॥ ३।२९।१९ ॥

सुवर्णप्रतिरूपेण सुवर्णसदृशेन । तप्तेनेवाश्मनाग्निना अग्निना अग्निवर्णेन । अश्मना पाषाणेन न तप्यते, वस्त्विति शेषः । सुवर्णवर्णमश्मानं दृष्ट्वा अयमङ्गार इति स्तुत्या व्यपदिशन्ति तथापि तेनाग्निना वस्तु न तप्यते किन्तु मुख्येनैवाग्निना तप्यत इत्यर्थः । एतदुक्तं भवति अग्निबुध्या अग्निवर्णमश्मानं स्पृशते पुरुषायानुपलभ्यमानोष्णस्पर्शेनात्मना । आत्मनो ऽनग्नित्वं नाम लघुत्वं यथा विदर्शितं भवति तथा ते त्वया त्वां वीरम्मन्वानाय मह्यं कत्थनेनात्मप्रशंसया अवीरत्वं नामात्मनो लघुत्वं विदर्शितमित्यपेक्षितपदाध्याहारेण योजना । तप्तेनेव कुशाग्निनेति पाठे त्वयमयर्थः कुशाग्निना सुवर्णशोधकाग्निना तप्तेन सुवर्णप्रतिरूपेणारकूटेन लघुत्वं कार्ष्यरूपं यथा विदर्शितं भवति तथा ते त्वया कत्थनेनात्मप्रशंसया लघुत्वमशूरत्वं प्रदर्शितं भवतीति ॥ ३।२९।२० ॥

नत्वित्यादि । मां पश्यसि ननु । गदाधरमित्यनेन गदाया अमोघत्वं सूच्यते । धराधरमिति पर्वतविशेषणम् ॥ ३।२९।२१,२२ ॥

यद्यपि त्वद्विषये इति शेषः । बहुवक्तव्यं परुषवचनमस्ति तथाप्यहं त्वया साकं न वक्ष्यामीति शेषः । भवतो लघुतरत्वादिति भावः । हेत्वन्तरमाह अस्तमिति ॥ ३।२९।२३ ॥

ते त्वया हतानि तेषामश्रुप्रमार्जनमिति । तेषां हतबान्धवराक्षसानामित्यर्थः । प्राकृतानित्यादीनां वास्तवार्थस्तु आत्मानं प्रशंससि इह महात्मनस्तवैतन्न युक्तमिति भावः । विक्रान्ता इति । ये नरर्षभाः त्वादृशमहात्मानः ते एवं न कथयन्ति । केचित्स्वतेजसा गर्विताः कथयन्ति । अतस्तवोचितं न भवतीति भावः । प्राकृता इति । क्षित्रियपांसना यथा निरर्थकं विकत्थन्ते तथा त्वं विकत्थसे तव न युक्तमिति भावः । कुलमिति । समरे शत्रुपक्षस्य मृत्युकले सम्प्राप्ते सति स्तवं को वाभिधास्यति, न कोपीत्यर्थः । सर्वथेति । आत्मानमेवं भाषयसि यदि तदा तव लघुत्वमेव प्रदर्शितं भविष्यति । अतस्तवैतन्न युक्तमिति भावः । नन्विति हे राम गदाधरं मां पश्यसि ननु, एतादृशगदापाणिरहं पाशहस्तो ऽन्तक इव त्रयाणामपि लोकानां प्राणान् हन्तुं पर्याप्तः यद्यपि तथापि रणे तव न पर्याप्त इति शेषः । चतुर्दशेति । राक्षसानां चतुर्दशसहस्राणि ते त्वया हतानि तथा त्वन्नाशात् । त्वत् त्वत्तः नाशात् मन्नाशात् त्वत्तो मन्नाशो सतीत्यर्थः । तेषां तद्दारादीनां अश्रुमार्जनं करोमीति सम्बन्धः । त्वदिति । घातयितुर्मम मरणे तद्दारुणा दुःखनिवृत्तिर्भवतीति भावः ॥ ३।२९।२४ ॥

इत्युक्त्वा अश्रुप्रमार्जनं करोमीत्युक्तेत्यर्थः । रामाद्वधाकांक्षी सन्निति शेषः । परमक्रुद्धः खरः गदां रामाय चिक्षेपेति सम्बन्धः । परमाङ्गदः प्रशस्तकेयूरः ॥ ३।२९।२५ ॥

अत एव भस्म कृत्वा तत्समीपतः रामसमीपमगात् ॥ ३।२९।२६२८ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायामेकोनत्रिंशः सर्गः ॥ ३।२९ ॥