॥ १ ॥
त्रिशिरोदूषणावपि हतौ दृष्ट्वा त्रासो ऽभवदित्यनुषज्यते ॥ ३।२८।२,३ ॥
हतभूयिष्ठम् अल्पावशिष्टम् ॥ ३।२८।४ ॥
शिक्षया धनुर्विद्याभ्यासेन । मार्गान् शरसङ्घातप्रक्षेपणादि प्रकारभेदान् ॥ ३।२८।५ ॥
स खरः बाणैर्दिशः पूरयामासेति योजना ॥ ३।२८।६ ॥
स रामः सायकैः नभः अविवरं नीरन्ध्रं चकारेति सम्बन्धः ॥ ३।२८।७ ॥
पर्याकाशं परितोवर्तमानमाकाशम् । अनाकाशं निरवकाशं बभूव । तत्र हेतुः शरसङ्कुलमिति ॥ ३।२८।८ ॥
उभयोः संप्रयुद्ध्यतोस्सतोः ॥ ३।२८।९११ ॥
खरः स्वसैन्यस्य हननेन परिश्रान्तमपि रामं तथा पौरुषे पर्यवस्थितं महासत्त्वं मेने इति सम्बन्धः ॥ ३।२८।१२ ॥
तं खरम् । क्षुद्रमृगं हरिणादिकम् ॥ ३।२८।१३१५ ॥
वर्मणि कवचे ॥ ३।२८।१६१९ ॥
निर्ह्रादं शब्दम् ॥ ३।२८।२० ॥
सुमहर्षिणा अगस्त्येन । अतिसृष्टम् दत्तम् ॥ ३।२८।२१२५ ॥
अभिलक्षितान् श्रेष्ठान् ॥ ३।२८।२६,२७ ॥
नाराचान् अत्र प्रमुमोचेतिक्रिया अध्याहार्या ॥ ३।२८।२८ ॥
त्रयोदशबाणानां सप्तसु युगादिलक्ष्येषु विनियोगमाह तत इति । त्रिवेणुर्नाम रथमुखस्थावयवविशेषः । छित्त्वेत्युत्तरत्र स्थिता क्रिया सर्वत्र सम्बन्ध्यते (त्रिवेणुर्बलवानिति पाठः) ॥ ३।२८।२९३२ ॥
रामस्य तत्कर्म समेत्य दृष्ट्वा देवादयस्तम् अपूजयन्, नमस्कारस्तुत्यादिभिरतोषयन्नित्यर्थः ॥ ३।२८।३३ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायामष्टाविंशः सर्गः ॥ ३।२८ ॥