०२७ त्रिशिरो वधः

॥ १ ॥

तं रामम् ॥ ३।२६।२ ॥

स राघवः प्रतिजग्राह अवरुरोध ॥ ३।२६।३१० ॥

वज्राशनिसमस्पर्शं व्रजति यात्येव न प्रतिहन्यत इति वज्रम्, अश्नाति शत्रुजीवितमित्यशनिः । तदुभयसमस्पर्शम् ॥ ३।२६।१११३ ॥

छिन्नहस्तस्य तस्याग्रतः परिघः पपातेत्यनुषज्यते ॥ ३।२६।१४,१५ ॥

अपूजयन् अस्तुवन् ॥ ३।२६।१६ ॥

संहत्य मिलित्वा ॥ ३।२६।१७२१ ॥

पञ्चसाहस्रैर्बाणैरित्यध्याहार्यम् ॥ ३।२६।२२२८ ॥

तेजस्वी राम इत्यनुज्यते ॥ ३।२६।२९३८ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायां षड्विंशः सर्गः ॥ ३।२६ ॥

खरमिति । सन्निपत्य आगत्य ॥ ३।२७।१,२ ॥

आयुधमालभे स्पृशामीति ॥ ३।२७।३ ॥

तस्यावध्यत्वं ज्ञात्वाह एष वेति । प्राश्निकः जयापजयनिर्णायकः । सप्तविंशे सर्गे मां नियोजयेत्यादिसार्धश्लोकचतुष्टयस्य वास्तवार्थस्तु हे खर संयुगे रामं च तेन विनिपातितं सैन्यं चेति शेषः । पश्य अतस्त्वं साहसान्निवर्तस्व मां नियोजय । तर्हि त्वं तं हनिष्यसि किम् ? तत्राह प्रतिजानामीत्यादि । सर्वरक्षसां वधार्थं सर्वरक्षसां हन्तारमित्यर्थः । रामं यथा यथावत् । अहं प्रतिजानामि सम्यग् जानमीत्यर्थः । अतः तं वधिष्यामीति सर्वमायुधमालभे ग्रहिष्यामि केवलमित्यर्थः । हन्तुमशक्यश्चेदनेन किम् ? तत्राह अहमिति । अस्य रामस्य अहं वा रणे मृत्युः, किन्तु एष वा एष राम एव समरे मम मृत्युः अतस्त्वं महोत्साहाद्विनिवर्तस्व मुहूर्तं प्राश्निको भवेति सम्बन्धः ॥ ३।२७।४ ॥

प्रहृष्ट इति । प्रहृष्टो वाहत इत्यत्र अहत इति पदच्छेदः । रामे अहते सति मे मयि च निहते सति प्रहृष्टस्त्वं रामं प्रति संयुगायोपयास्यसि । अथवा जनस्थानं वा प्रयास्यसीति सम्बन्धः । प्रसादितः प्रार्थितः । युध्य युद्धं कुरुष्व ॥ ३।२७।५,६ ॥

त्रिशिरापीत्यत्राकारलोपश्छान्दसः ॥ ३।२७।७ ॥

व्यसृजदिति । दुन्दुभेर्दुन्दुभिनादस्य सदृशं नादं व्यसृजत् अकरोत् ॥ ३।२७।८११ ॥

सोपहासं वचनमीदृशं विक्रमसदृशम् बलं तस्यैवाविष्करणम् । पुष्पैः स्वल्पा पीडा भवति त्वच्छरैस्तादृशी पीडापि नास्तीति भावः ॥ ३।२७।१२,१३ ॥

सन्नतपर्वभिः ऋज्वीकृतपर्वभिः । वाजिनः वेगवतः इति तुरङ्गविशेषणम् ॥ ३।२७।१४ ॥

तस्य सूतं रथोपस्थात् इति पाठः । रथोपरिभागान्न्यपातयदिति सम्बन्धः ॥ ३।२७।१५ ॥

जडः निश्चेष्टः ॥ ३।२७।१६,१७ ॥

पूर्वं पतितैः शिरोभिः हेतुभिः स्वयं न्यपतत् ॥ ३।२७।१८ ॥

खरसंश्रयाः खरसेवकाः ॥ ३।२७।१९,२० ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाक्यायामारण्यकाण्डव्याख्यायां सप्तविंशः सर्गः ॥ ३।२७ ॥