०२५ रामेण खरसैन्यसंहारः

अवष्टब्धधनुं अवलम्बितशरासनम् । धनुःशब्द उकारान्तो ऽप्यस्ति ॥ ३।२५।१३ ॥

सचिवाः श्येनगाम्यादयः ॥ ३।२५।४ ॥

लोहिताङ्गः भौमः ॥ ३।२५।५८ ॥

बलाहकाः मेघाः ॥ ३।२५।९११ ॥

तानि शस्त्राणि । स्वविशिखैः प्रति जग्राह अवरुरोध ॥ ३।२५।१२ ॥

वज्रैरिव महाचल इति व्यतिरेकदृष्टान्तः । वज्रैः वज्रनिपातैः । अनयोपमया श्रीरामस्य न काचिदपि तत्कृतव्यथेति सूच्यते ॥ ३।२५।१३ ॥

क्षतजं रक्तम् ॥ ३।२५।१४,१५ ॥

विशिखान् बाणान् बाणसंज्ञान् शरान् “बाणास्तु गतपत्रिणः” इति वैजयन्ती ॥ ३।२५।१६ ॥

दुरावारान् अशक्यनिवारणान् । दुर्विषहान् सोढुमशक्यान् । कङ्कपत्रान् कङ्कपत्रसंज्ञान् शरान् । अजिह्नगान् अकुटिलगतीन्, अस्खलितलक्ष्यानित्यर्थः ॥ ३।२५।१७२१ ॥

काञ्चनसन्नाहान् काञ्चनपरिकरान् । सादिनः तुरगारूढान् ॥ ३।२५।२२,२३ ॥

नालीकाः मुखमात्रायस्संयुक्ताश्शराः । नाराचाः सर्वत आयसाः । विकर्णिनः उग्राङ्कुशाः उद्धारे आन्त्रहारिण इति भेदः ॥ ३।२५।२४२६ ॥

आवार्य निवार्य ॥ ३।२५।२७३० ॥

दूषणाश्रयसंश्रिताः दूषणमेव आश्रयं रक्षितारं संश्रिताः ॥ ३।२५।३१३९ ॥

विस्तीर्णा इति पाठः । विशेषाच्छादना ॥ ३।२५।४० ॥

क्षीणाः कण्ठगतप्राणाः । छिन्नाः द्विधाभूतशरीराः । भिन्नाः कण्डितावयवाः ॥ ३।२५।४१ ॥

सोष्णीषैः शिरोवेष्टनसहितैः ॥ ३।२५।४२४५ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायां पञ्चविंशस्सर्गः ॥ ३।२५ ॥