आश्रममिति । औत्पातिकानुत्पातान् । स्वार्थे ठक् ॥ ३।२४।१ ॥
प्रजानामहितान् । अत्र प्रजाशब्देन प्रकृतत्वाद्राक्षसा एवोच्यन्ते ॥ ३।२४।२ ॥
सर्वभूतापहारिणः सर्वराक्षसविनाशसूचकानिति यावत् ॥ ३।२४।३,४ ॥
एवं राक्षसानां दुर्निमित्तान्युक्त्वा स्वस्य जयसूचकानि निमित्तान्याह सधूमा इति । मम युद्धाभिनन्दिताः युद्धे अभितो नन्दो आनन्द एषां सञ्जाता इति तथोक्ताः, श्रीरामगतो युद्धहर्षः शरेषूपचर्यते । मम युद्धहर्षसूचका इति फलितार्थः । चापानि विवेष्टन्ते विशेषेण वेष्टन्ते अभिनिमन्त्रिततत्तद्देवतासान्निद्ध्याच्चापेषु स्वयमेव शरास्संसक्ता भवन्तीत्यर्थः ॥ ३।२४।५ ॥
अग्रतः अस्माकं पुरत इत्यर्थः । वनचारिणः यादृशाः सौम्याः पक्षिणः कूजन्ति तादृशैस्सुनिमित्तैः नो ऽस्माकम् अभयं प्राप्तम् । चकारादरीणां जीवितस्य संशयश्च प्राप्त इत्यर्थः ॥ ३।२४।६ ॥
सम्प्रहारो रणः । स्वस्य जयसूचकनिमित्तान्तरं दर्शयति अयमिति । बाहुः कर्ता दक्षिण इति शेषः । सन्निकर्षे समीपे ॥ ३।२४।७ ॥
न केवलं ममैव जयसूचकम्, तवाप्यस्तीत्याह सप्रभमिति । युद्धार्थमुद्यतानां योषामायुःपरिक्षयो भवति भविष्यति तेषां वदनं निष्प्रभं भवति, नैवमस्माकमिति भावः ॥ ३।२४।८१० ॥
अनागतस्य आगमिष्यतः अनिष्टस्येत्यर्थः । प्रतिविधानं परिहारः केनेत्यत आह आपदमिति ॥ ३।२४।११ ॥
शैलस्य गुहाम्, आश्रमं हित्वेति शेषः । दुर्गामन्यैर्गन्तुमशक्याम् ॥ ३।२४।१२ ॥
इदं वाक्यं त्वया प्रतिकूलितुं प्रतिकूलयितुम् नेच्छामि “समानकर्तृकेषु तुमुन्” इति । यद्यपि तथापि भोक्तुमनुजानातीतिवत् क्वचिद्भिन्नकर्तृकेष्वपि तुमुनिष्यते । प्रतिकूलितमिति पाठे त्वया प्रतिकूलितं त्वत्कर्तृकप्रातिकूल्यवद्वाक्यं नेच्छामीत्यर्थः ॥ ३।२४।१३१५ ॥
हन्तेति हर्षे । निर्युक्तम् अस्मदुक्तम् लक्ष्मणेन निर्युक्तं नितरां युक्तं कृतमित्युक्त्वा रामः कवचमाविशत् धृतवानित्यर्थः ॥ ३।२४।१६२० ॥
स्वस्तीति । स्वस्ति गोब्राह्मणेभ्य इति लोकनामभिसङ्गताः लोकपालनायभिसङ्गताः उद्युक्तास्तेभ्यो ब्राह्मणेभ्यः स्वस्त्यस्तु क्षेममस्तु । स्वस्ति गोब्राह्मणानां चेति पाठे आर्षत्वान्न चतुर्थी । ये लोकानामभिसङ्गताः हविर्मुखेन अनुकूला भवन्तीत्यर्थः । तदुक्तम् “अग्नौ प्रास्ताहुतिस्सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ॥ " इति ॥
३।२४।२१२५ ॥
रूपमिति । रुद्रस्येव महात्मन इति पाठः । जगत्संहरणार्थमुद्युक्तस्य प्रलयकालरुद्रस्य रूपं यद्वत्तद्वत् खरादिवधार्थमुद्युक्तस्य रामस्य रूपमपि बभूवेत्यर्थः । तदुक्तं स्कान्दे “रुद्रतेजोविलसितं दृष्ट्वा रामकलेवरम् । शङ्खं चक्रं च शूलं च पिनाकं खेटमेव च । खट्वां घण्टां च इमरुं बाणपाशाङ्कुशं तथा । चापं वज्रं च ख़ड्गं च परशुं त्रासकारणम् । जयश्रियं च गङ्गां च ददृशुः सिद्धचारणाः ॥ " इति ॥
३।२४।२६३२ ॥
वितत्येति । धनुर्वितत्य आरोप्य । क्रोधमिति क्रोधमाहारयत् प्राप्तवान् ॥ ३।२४।३३ ॥
तेजसाविष्टमिति रौद्रतेजसा सम्पन्नमित्यर्थः ॥ ३।२४।३४३७ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायां चतुर्विंशः सर्गः ॥ ३।२४ ॥