०२३ खरेणोत्पातदर्शनम्

तत्प्रयातमिति पाठः । णिचि कर्मणि क्तः । तत् बलम् सेनायामित्यर्थः । गर्दभारुणः गर्दभ इव अरुणो धूसरः ॥ ३।२३।१ ॥

पुष्पचिते पुष्पयुक्ते । रथयुक्ताः रथे बद्धाः । यदृच्छया दैवगत्या ॥ ३।२३।२ ॥

रुधिरपर्यन्तं रुधिरो रक्तवर्णः पर्यन्तः प्रान्तदेशो यस्य तत् । अलातचक्रप्रतिममिति तद्वत्तुल्यम् ॥ ३।२३।३,४ ॥

विस्वरान् विकृतस्वरान् ॥ ३।२३।५ ॥

प्रदीप्तायां दिशि उत्पातवशाज्जाज्वल्यमानायाम् । शिवाः गोमायवः । यातुधानानां राक्षसानाम् । अशिवममङ्गलसूचकं भैरवस्वनं व्याजह्रुरित्यन्वयः ॥ ३।२३।६ ॥

प्रभिन्नगिरिसङ्काशाः परस्परसंसक्तपर्वतसदृशाः । तोयशोणितधारिणः तोयं शोणितमिव धारयन्तीति तथा । रक्ततुल्यं तोयं धारयन्तीत्यर्थः । आकाशमनाकाशमनवकाशं चक्रुः आच्छादयामासुरित्यर्थः ॥ ३।२३।७ ॥

उद्धतं सान्द्रम् ॥ ३।२३।८ ॥

क्षतजार्द्रसवर्णाभा रुधिरोक्षितेन वस्तुना समानप्रभा सन्ध्या कर्त्री । कालं स्वकालं विना । खरस्येति पूर्वं दीप्तदिगाभिमुख्येन शिवारुतान्युक्तानि अधुना खराभिमुख्येन सैन्याभिमुख्येन चेति भेदादपौनरुक्त्यम् ॥ ३।२३।९ ॥

नित्यमशुभकरा अशुभशंसिनः । घोरनिदर्शनाः दुर्निमित्तदृष्टान्तभूताः ॥ ३।२३।१० ॥

कबन्धो धूमकेतुः । परिघाभासः परिघा आयुधविशेषः । तद्वद्भासमान इत्यर्थः ॥ ३।२३।११ ॥

प्रवातीति । प्रतिकूल इति शेषः । खद्योतसप्रभाः खद्योतसन्निभाः । उत्पेतुः उत्पन्नाः ॥ ३।२३।१२,१३ ॥

जलधरारुणः सन्ध्यामेघवदरुण इत्यर्थः । वीचीकूचीत्यनुकरणशब्दौ । वाश्यन्त्यः शब्दं कुर्वन्त्यः ॥ ३।२३।१४,१५ ॥

स्वरश्चास्यावसज्जत हीनस्वरो ऽभूत् ॥ ३।२३।१६ ॥

सास्त्रा दुर्निमित्तरूपाश्रुसमेता । सास्त्रमिति पाठे क्रियाविशेषणम् । रुजा वेदना तथापीति शेषः । न न्यवर्तत युद्धयात्राया इति शेषः ॥ ३।२३।१७,१८ ॥

दुर्बलान् जनानिव ॥ ३।२३।१९,२० ॥

बलोत्सिक्तं बलाधिकम् । अहत्वा उपावर्तितुं नोत्सह इति सम्बन्धः । वस्तुतस्तु अहत्वा नोपावर्तितुमुत्सह इत्यनेन हत्वैवोपावर्तितुमुत्सह इत्यभिप्रायः । हन्तुमसमर्थः अतः नोपावर्तत इति व्यज्यते ॥ ३।२३।२१ ॥

यन्निमित्त इति । या शूर्पणखा निमित्तं यस्य विपर्ययस्य स तथोक्तः । विपर्ययो नाशः । सा भगिनीत्यर्थः । वस्तुतस्तु रामस्य लक्ष्मणस्य च जय इति शेषः । मे मम विपर्ययः नाशश्च यन्निमित्तः या शूर्पणखानिमित्तं यस्य सः । सा भगिनी । तयोः ताभ्यां मृतस्य, ममेति शेषः । रुधिरं पीत्वा सकामास्तु ॥ ३।२३।२२ ॥

एवं रामात्स्वमरणं निश्चित्यापि युयुत्सुस्सन् स्वसेनाधैर्योत्पादकानि वाक्यान्याह न क्वचिदित्यादिना ॥ ३।२३।२३ ॥

कुमानुषौ कौ भूमौ मनुष्यरूपेणावतीर्णावित्यवगन्तव्यम् ॥ ३।२३।२४ ॥

मृत्युपाशावपाशिता अवपाशिता बद्धा ॥ ३।२३।२५३१ ॥

श्येनगाम्यादयो द्वादश खरामात्याः ॥ ३।२३।३२३५ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायां त्रयोविंशः सर्गः ॥ ३।२३ ॥