एवमिति । आधर्षितः कोपादवामानितः । खरः तीक्ष्णगुणः ॥ ३।२२।१ ॥
आत्मनीतिपदाध्याहारः । तथा चात्मनि कोपो धारयितुं न शक्यत इत्यन्वयः । लवणाम्भ इवोल्बणम् । व्रण इति शेषः । व्रणे विक्षिप्तं लवणयुक्तमम्भ इव धारयितुं न शक्यत इत्यर्थः । उदितमिति पाठे उदितं न्यस्तम् । उत्थितमिति पाठे उल्बणमिति यावत् ॥ ३।२२।२ ॥
आत्मदुश्चरितैः स्वकीयदुष्कृतैः विरूपकरणरूपैः ॥ ३।२२।३ ॥
सम्भ्रमः भयम् । तवावमानप्रभव इत्यादिश्लोकचतुष्टयस्य वास्तवार्तस्तु तवावमानप्रभवः त्वत्सम्बन्ध्यवमानोत्पन्नः मयि त्वरया कृतावमानप्रभव इत्यर्थः । क्रोधः धारयितुं न शक्यते । किञ्च मानुषं च वीर्यात् मच्छौर्यात् क्षीणजीवितं न गणये, तमहं जेतुं न शक्नोमीत्यर्थः । स राम एव प्राणान् मदीयप्राणान् मोक्ष्यति मोक्षयिष्यतीत्यर्थः । अतः हे दुर्भगे आत्मदुश्चरितैः स्वापचारव्यापारैः अद्य अयं मच्छुभावहविधिः हतः । त्वन्निमित्तं ममैश्वर्यं क्षीणजीवितं च नष्टमिति भावः । इतः परं बाष्पः संह्रियताम् सम्भ्रमश्च विमुच्यताम् । अहं भ्रात्रा सह रामं प्रति यामि यमसादनं च यामि सन्देह इत्यर्थः ॥ ३।२२।४ ॥
ततः परं रामस्य परश्वधहतस्य रामसम्बन्धिपरश्वधेन हतस्य मन्दप्राणस्य भूतले पतितस्य, ममेति शेषः । हे राक्षसि रुधिरं पास्यसीति सम्बन्धः ॥ ३।२२।५ ॥
पुनः प्रशंसितः त्वमेव सकलरक्षःश्रेष्ठ इत्यादि ॥ ३।२२।६,७ ॥
चतुर्दशसहस्राणि, सन्तीति शेषः ॥ ३।२२।८,९ ॥
उदीर्णानां दृप्तानाम् । सर्वोद्योगं सर्वप्रकारेणोद्योगं चतुरङ्गबलसर्वायुधासामग्रीसहितत्वेनोद्योगं कारयेत्यन्वयः ॥ ३।२२।१०,११ ॥
वस्तुतस्तु दुर्विनीतस्य दुष्टेषु विनीतस्य रामस्याग्रे पौलस्त्यानां राक्षसानां वधार्थं निर्यातुमिच्छामीति सम्बन्धः ॥ ३।२२।१२ ॥
शबलैः चित्रवर्णैः । रथमुपस्थितमिति शेषः ॥ ३।२२।१३ ॥
वैडूर्यमयौ कूबरौ युगंधरौ यस्य सः । असम्बाधं सम्मर्दरहितम् ॥ ३।२२।१४ ॥
शोभार्थं विरचितैः काञ्चनैस्सुवर्णकल्पितैः । एतच्च मत्स्यादौ सर्वत्र योज्यम् । मङ्गलैरलङ्कारप्रयोजकैः । सर्वत्र विचित्रैरिति शेषः ॥ ३।२२।१५ ॥
अमर्षात् क्रोधात् आरुरोहेति पराजयसूचनम् । “क्रोधः कार्यविभङ्गाय” इति शकुनशास्त्रे ॥ ३।२२।१६ ॥
रथस्थं खरं निशाम्य दृष्ट्वा ॥ ३।२२।१७,१८ ॥
रक्षसामिदं राक्षसं सैन्यं निर्जगामेति सम्बन्धः ॥ ३।२२।१९ ॥
मुद्गरैरित्यादि श्लोकत्रयमेकं वाक्यम् । वज्रैः वज्रायुधतुल्यैः मुद्गरादिभिरुपलक्षितानां राक्षसानां चतुर्दशसहस्राणि निर्यातानीत्यन्वयः । पुनरप्यत्र रक्षसां चतुर्दशसहस्राणीत्युक्तिः पूर्वं खरेणोक्तसङ्ख्याप्रदर्शनार्थमिति भावः । पट्टस इति पाठः ॥ ३।२२।२०२५ ॥
प्रवृद्धेति । उन्नदन्नुच्चैर्नादं कुर्वन् । अश्मवर्षवान् महाबलो मेघः उपरि विद्यमानं घनं मेघमिवाचूचुददित्यन्वयः ॥ ३।२२।२६ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायां द्वाविंशः सर्गः ॥ ३।२२ ॥