स इति । अनर्थार्थम् स्वकुलस्येति शेषः ॥ ३।२१।१,२ ॥
भक्ताः अत एव मय्यनुरक्ताः । अत एव मम हिताः । अत एव मम वचनं न कुर्युरिति न किन्तु कुर्युरेव । किंच ते न निहन्तव्याः परैर्हन्तुमश्क्याः घ्नन्तोपि घातुका एव । निश्चयार्थे अपिश्ब्दः ॥ ३।२१।३ ॥
कारणं शोककारणम् । यत्कृते शोकनिमित्तम् ॥ ३।२१।४९ ॥
तानिति । रामस्य कर्म च, दृष्ट्वेत्यनुषज्यते ॥ ३।२१।१० ॥
भीता अत एव समुद्विग्ना कम्पमाना अत एव विषण्णा दुःखिता । अत्र हेतुः सर्वतो भयदर्शिनी, सर्वत्र श्रीरामदर्शनादिति भावः । रामेणेत्यादिश्लोकचतुष्टयस्य प्रातीतिकार्थः स्पष्टः । वस्तुतस्तु शूर्पणखा रामं न जहीति हितबुद्ध्या खरं निवारयति रामेणेति । हे निशाचार रामेण ते शक्तिः वीर्यं तेजो वास्ति यदि तथापि अमित्रघ्नं दण्डकारण्यनिलयं रामं त्वं न जहि मावधीः । यदि हनिष्यसि तर्हि तवाग्रतो ऽहं प्राणान् त्यक्ष्यामीति सम्बन्धः ॥ ३।२१।१११५ ॥
विचार्यमाणे तयोर्हनने तव शक्तिरपि नास्तीत्याह बुद्ध्येति । रामस्य प्रतिमुखे अग्रतः स्थातुं न शक्त इति बुद्ध्या पश्यामि आलोचयामीति सम्बन्धः । सबलश्च महारणे इति पाठः । महारणे यः मिथ्यारोपितविक्रमः अत एव शूरमानी अत एव न शूरः अत एव तौ मानुषावपि हन्तुं न शक्तोषीति सम्बन्धः ॥ ३।२१।१६,१७ ॥
एवमङ्गीकारे बाधकमाह रामतेज इति ॥ ३।२१।२०,२१ ॥
प्रथितोदरी विस्तृतोदरी, स्थूलोदरीति यावत् । राक्षसी प्रथितोदरी इति पाठः ॥ ३।२१।२२ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायामेकविंशः सर्गः ॥ ३।२१ ॥