०२० चतुर्दश खरामात्यवधः

सहसीतया वर्तमानमिति शेषः ॥ ३।२०।१३ ॥

प्रत्यनन्तरः प्रत्यासन्नः पालक इति यावत् । अस्याः पदवीम् अस्या मार्गम् । अस्या रक्षणार्थमागतानित्यर्थः ॥ ३।२०।४,५ ॥

चामीकरं सुवर्णम् ॥ ३।२०।६ ॥

पुत्रावित्यादिश्लोकद्वयमेकं वाक्यम् । दण्डकारण्यं प्रविष्टौ आवां दण्डकारण्ये वसन्तौ सन्तौ किमर्थमुपहिंसथ । मुनीनिति शेषः ॥ ३।२०।७,८ ॥

तेषां विचारे तव किं कार्यमित्यत आह युष्मानिति । विप्रकारान् मुनिविप्रकारान् । ऋषिणां नियोगेन युष्मान् हन्तुमेव प्राप्त इति सम्बन्धः ॥ ३।२०।९ ॥

हे संदुष्टाः अतिदुष्टाः उपसर्पितुं समीपमागन्तुं नार्हथ । यद्यागमिष्यथ तर्हि हनिष्यामीत्यर्थः (सन्दुष्टा नोपासर्पितुम् इति पाठः ) ॥ ३।२०।१०१२ ॥

क्रोधमुत्पाद्येत्यादिश्लोकत्रयस्य प्रातीतिकार्थः स्पष्टः । वस्तुतस्तु सुमहात्मनः सुमहानात्मा शरीरं यस्य सः भर्तुः राज्ञः खरस्य क्रोधमुत्पाद्य तत्प्रेरितैरस्माभिरिति तुच्छैर्हतस्ताडितोपि प्राणान्नो हास्यस्येव ॥ ३।२०।१३ ॥

अत्र हेतुः का हीति । रणमूर्द्धन्येकस्य ते अग्रतः स्थातुं बहूनामप्यस्माकं का शक्तिः? शक्तिर्नास्ति तदा किं पुनर्योद्धुमिति योजना । अत एव खरनिर्बन्धेनागतानामस्माकमित्यत्राप्याकृष्यते । परिघादिभिरुपलक्षितानामस्माकं प्राणान् । वीर्यमित्यादि जात्येकवचनम् । वीर्यादिकं च त्यक्ष्यसि । गर्भितो णिच् । त्याजयिष्यसि न सन्देहः अत एव हीति सम्बन्धः । इतः परावृत्य गतानामस्माकं खरहस्तवधाद्वरं त्वद्धस्तेन वध इति भावः ॥ ३।२०।१४१६ ॥

शिलाशितान् शाणोपले तीक्ष्णीकृतान् ॥ ३।२०।१७ ॥

निपातितानित्युत्तरसर्गसङ्ग्रहश्लोकः ॥ ३।२०।२५ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायां विंशः सर्गः ॥ ३।२० ॥