॥ १ ॥
उत्तिष्ठेति । प्रमोहं विसंज्ञाताम् । सम्भ्रमं चित्तचाञ्चल्यम् ॥ ३।१९।२४ ॥
अन्तकसमा त्वं केन इमाम् अवस्थां नीता प्रापिता सती आगता अत्रेति शेषः ॥ ३।१९।५ ॥
त्वं केन विरूपिता एवंरूपा जातेति शेषः । व्यक्तम् आख्याहि क इति । अभिसमापन्नम् अभितः सम्यगापन्नम् । क्षुधितम् आशीविषम् आशिषि दंष्ट्रायां विषं यस्य सः तम् । को वा तुदतीति प्रश्नः । तत्तुल्यो ऽयं त्वदवमान इति भावः । कः कालेति । न जानते इति पाठः न जानीते । बहुवचनम् आर्षम् । अयम् अपि प्रश्नः ॥ ३।१९।६ ॥
नहि पश्याम्य् अन्तम् एकं वाक्यम् । तम् इत्य् अध्याहार्यम् । अमरेष्व् इति अत्र महेन्द्रशब्दो विशेष्यम् । पाकशासनसहस्राक्षशब्दौ विशेषणे । एतेषु षष्ठ्यर्थे द्वितीया । यथा महेन्द्रस्येति दृष्टान्तः । (अमरेषु सहस्राक्षम् इति पाठः) पाकं पाकाख्यं वृत्रासुरभ्रातरं शासितवानिति पाकशासनम् । महेन्द्रम् अन्तरेण इन्द्रं विना कः मम विप्रियं कुर्यात् तव नहि पश्यामीत्य् अन्वयः ॥ ३।१९।७ ॥
सारसो हंसः ॥ ३।१९।८ ॥
रक्तं रक्तवर्णं रुधिरम् ॥ ३।१९।९ ॥
पत्ररथाः पक्षिणः । सङ्गता मिश्रिताः ॥ ३।१९।१० ॥
मयापकृष्टम् आक्रान्तं मयासह कृतविरोधम् इति यावत् ॥ ३।१९।११ ॥
विक्रम्य शौर्यं कृत्वा ॥ ३।१९।१२,१३ ॥
न तं पश्याम्य् अहम् लोके परोक्षमपि वा नरः ।
स्वमित्रो ऽपि निरस्तो ऽपि यो ऽस्य दोषम् उदाहरेत् ॥
इत्य् उक्तेः सर्वलोकस्पृहणीयस्य श्रीरामस्य दिव्यरूपगुणानां मित्रामित्रसाधारण्येन आनन्दकरत्वात्तेन विरूपितापि शूर्पणखा तद्रूपगुणवर्णनेन वा परमसुखम् अनुभविष्यामीति धिया वर्णयति तरुणावित्यादिना ॥ ३।१९।१४,१५ ॥
देवौ वा मानुषौ वा तौ न तर्कयितुम् उत्सहे
यद्यपि दशरथसुताविति तत्सकाशादेव श्रुतं तथापि तयोर् अमानुषचरित्रैः श्रीरामलक्ष्मणौ देवौ वा मानुषौ वेति विचारयितुं निश्चितुं न समर्थास्मीत्य् अर्थः ॥ ३।१९।१६,१७ ॥
ताभ्याम् इति । तां प्रमदाम् अधिकृत्य निमित्तीकृत्य ताभ्याम् उभाभ्यां सम्भूय एकेन कनीयसा इमाम् अवस्थाम् नीतेति योजना ॥ ३।१९।१८ ॥
रुधिरं पातुम् इच्छामीत्य् अनेन श्रीरामवर्णनेन स्वकामुकीत्वशङ्कां खरस्य निवर्तयतीति ज्ञेयम् । तस्याः हताया इति विपरिणामः ॥ ३।१९।१९ ॥
एष मे प्रथमः काम इति पुनर्-वचनम् उत्कटेच्छाद्योतनायेति न पुनरुक्तिः । तस्याश् चानृज्जुवृत्ताया इत्यादि श्लोकद्वयस्य वास्तवार्थस् तु रणमूर्द्धनि तयोः रामलक्ष्मणयोः । तृतीयार्थे षष्ठी । अनृज्जुवृत्तायास् तस्याः त्वद्भगिन्या ममेति शेषः । हतयोः छिन्नयोः । द्वितीयार्थे षष्ठी । कर्णनासिके पश्येति शेषः । अत इतः परम् अहं सफेनम् अपि रुधिरं पातुम् इच्छामीति काकुः । नेच्छाम्य् एवेत्य् अर्थः । आहवे तयोस् त्व् अयं कृतो भवेद् यदि अपकार इति शेषः । छिन्नकर्णनासां माम् दृष्ट्वाप्य् उपेक्षसे यदि तदा त्यक्ताहारा देहं त्यक्ष्यामीति भावः ॥ ३।१९।२० ॥
इति तस्यां ब्रुवाणायाम् इत्य् आरभ्य सर्गसमाप्तिपर्यन्तस्य वास्तवार्थस् तु इति तस्यां ब्रुवणायां रामवृत्तान्तम् इति शेषः । खरः “तस्माद् यः क्रूररूपेण देहेन हरतामृतम् । विष्णुर्-दाशरथिर् भूत्वा मोक्षयिष्यति सुव्रत ॥” इति शिवशापाद्राक्षसत्वं प्राप्तयाज्ञवल्क्यसुतश् चन्द्रकान्त इत्य् अर्थः। अत एव शूर्पणखामुखाद्रामवृत्तान्तश्रवणानन्तरं विष्णुत्वेन ज्ञात्वा सपरिवारस्य स्वस्य रामहस्ताद्वधेच्छुस् सन् भगिनीप्रीतय इव रामेण सह युद्धार्थं राक्षसान् व्यादिदेशेत्य् अर्थः। अस्मिन्नर्थे शेषधर्मे भीष्मयुधिष्ठिरसंवादकथानुसन्धेया। भीष्मः
याज्ञवल्क्यसुता राजन्
त्रयो वै लोकविश्रुताः।
चन्द्र-कान्त-महामेध-
विजया बाह्मणोत्तमाः।
खरश् च दूषणश् चैव
त्रिशिरा ब्रह्मवित्तमाः।
आसन् तेषां च शिष्याश् च
चतुर्दश सहस्रधा
इति। अत एव बाह्यदृष्ट्या परुषोक्तिवत्प्रतीयमानानि तस्य वाक्यानि सौम्यरूपाण्य् एव तथा व्याख्यास्यामः ॥ ३।१९।२२ ॥
तौ हत्वेति श्लोकद्वयम् एकं वाक्यम् । प्रातीतिकार्थः स्पष्टः । वस्तुतस् तु हे राक्षसाः इयं भगिनी प्रमथ्य मम रुधिरं पास्यति अतस् तेषां समीपं गत्वा स्वतेजसा शीघ्रेण तौ रामलक्ष्मणौ दुर्वृत्तां दुर्लभं वृत्तम् आचारो यस्यास् ताम् सीतां च हत्वा ज्ञात्वा “हन हिंसागत्योः” इति धातोर् गत्यर्थस्य ज्ञानार्थत्वात् । अपावर्तितुं प्रतिनिवर्तितुम् अर्हथ । अयं मम भगिन्याः इष्टो मनोरथः ॥ ३।१९।२३,२४ ॥
वातेरिता वायुनुन्ना मेघा इव जग्मुर् इति सम्बन्धः ॥ ३।१९।२५,२६ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायाम् आरण्यकाण्डव्याख्यायाम् एकोनविंशः सर्गः ॥ ३।१९ ॥