अवपाशितां बद्धाम् । स्वेच्छयेति पाठे स्वेच्छया भ्रातृविषयपरिहासरूपविनोदेन, अत एव स्मितपूर्वमब्रवीत् ॥ ३।१८।१ ॥
हे भवति अस्मीत्यहमर्थे । कृतदारः ऊढभार्यः । भार्या चेयं सन्निहितेत्यर्थः ॥ ३।१८।२ ॥
“गुरुणापि समं हास्यं कर्तव्यं कुटिलं विना” इति न्यायेन भ्रातृविषयमपि परिहासं प्रयोजयन् रामो लक्ष्मणविषयत्वेन प्रवृत्त्यामासप्रत्यायिकैः तात्पर्येण निवृत्तिप्रतिपादकैः श्लिष्टशब्दैरुत्तरमनुभाषते अनुज इत्यदिना । शीलवत्प्रियदर्शनत्वादिगुणयुक्तः । प्रियं दर्शनं यस्य सः । अकृतदारः अनूढभार्यश्च ॥ ३।१८।३ ॥
अपूर्वी भार्यया चार्थीति पाठानुसारेण व्याख्यायते । पूर्वं भार्यासुखमनेन ज्ञातमिति पूर्वी स न भवतीत्यपूर्वी, अत एव भार्यार्थी प्रयोजनवांश्च । अपूर्वभार्यया चार्थिति पाठे अयमर्थः अपूर्वा नूतना या भार्या तामेवार्थयतीत्यर्थे सा च त्वमेव भविष्यसीति परिहासानुकूलः प्रातीतिको ऽर्थः । अन्तराशयस्तु अकृतदारः अकृतपरदारपरिग्रहः, असन्निहितभार्यो वा । अपूर्वभार्यया प्रथमभार्ययैवार्थी चरितार्थः । शीलवान् एकपत्नीव्रतशीलः । प्रियदर्शनः प्रियेषु मित्रेषु दर्शनं दृष्टिर्यस्य स तथोक्तः । ते अभर्तेति छेदः । अनुरूपः स्वभार्यानुरूप इति यावत् । अस्य रामस्य योग्य इति शेषः । भविष्यति काक्वादरेण भविष्यतीत्यर्थः । यद्वा अस्य रूपस्यानुरूपो भविष्यतीति काकुः ॥ ३।१८।४७ ॥
एवमिति । भर्तारं मद्दास्यकर्मणा अस्मात्पोषकमित्यन्तराशयः ॥ ३।१८।८ ॥
आर्येण परवान् तदधीनः दासस्य मे भार्या सती दासी भवितुं कथमिच्छसीति योजना ॥ ३।१८।९१४ ॥
गुरुणापि समं हास्यं कर्तव्यं कुटिलं विनेति न्यायेन लक्ष्मणः सीतायामपि परिहासं प्रयुङ्क्ते एनामिति । प्रातीतिकोर्थः स्पष्टः । वस्तुतस्तु विरूपां विशेषरूपां त्रिलोकसुन्दरीमित्यर्थः । असतीं न विद्यते अन्या सती यस्याः सा असती, परमपतिव्रता तामित्यर्थः । करालामुन्नताम् “करालो दन्तुरे तुङ्गे तरुणे ऽपि च कथ्यते” इति निघण्टुः । निर्णतोदरीं निर्णतं निम्नमुदरं यस्यास्सा ताम्, तनुमध्यामित्यर्थः । वृद्धां ज्ञानशीलगुणवृद्धामित्यर्थः ॥ ३।१८।१५,१६ ॥
अलातम्, उल्मुकम् । महोल्काः क्रूरग्रहाः ॥ ३।१८।१७ ॥
मृत्युपाशप्रतिमां यमपाशसदृशीम् । निगृह्य प्रतिरुद्ध्य जीवतीम् शूर्पणख्या भीषणतामालोक्य कथञ्चित्स्वास्थ्यमापन्नाम् ॥ ३।१८।१८२० ॥
कर्णनासमित्यत्र प्राण्यङ्गत्वादेकवद्भावः ॥ ३।१८।२१२३ ॥
प्रगृह्य उद्धृत्य ॥ ३।१८।२४ ॥
ततस्सभार्यमित्युत्तरसर्गार्थसङ्ग्रहश्लोकः ॥ ३।१८।२५ ॥
भयमोहाभ्यां मूर्च्छिता व्याप्ता ॥ ३।१८।२६ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायामष्टादशः सर्गः ॥ ३।१८ ॥