०१७ शूर्पणखा-आगमनम्

कृतेति । ततः अवगाहनानन्तरम् ॥ ३।१७।१ ॥

पौर्वाह्णिकीं प्रातर्होमादिकम् ॥ ३।१७।२४ ॥

कथासंसक्तवेतसः सतः यदृच्छया ॥ ३।१७।५१० ॥

प्रीतिरूपम् आनन्दप्रदरूपम् । दारुणा निर्घृणा । तरुणं सघृणम् । दक्षिणम् ऋजुभाषिणम् । वामभाषिणी वक्रोक्तिशीला । न्यायवृत्तं शास्त्रविहिताचारम् । शरीरजसमाविष्टा मदनाकुला ॥ ३।१७।१११७ ॥

नियोगात् आज्ञाबलात् । यन्त्रितः प्रचेदितः ॥ ३।१७।१८ ॥

धर्मकांक्षी पितृवाक्यनिर्वहणरूपधर्माभिलाषी । धर्मार्थं तस्यैव धर्मस्य परिपालनाय । का किन्नामधेया । कस्य जन्मादिना सम्बन्धिनी ॥ ३।१७।१९२४ ॥

तान् रावणादीन् । समतिक्रान्ता त्वदभिसरणे तन्निमित्तभयरहितेत्यर्थः । हे राम त्वा त्वां पूर्वदर्शनात् प्रथमदर्शनमारभ्य । अपूर्वदर्शनादितिपाठे अपूर्वदर्शनात् देवदानवमर्त्त्येष्वितः प्रागदृष्टदिव्यत्वद्रूपदर्शनाद्धतोः त्वां भर्तारं समुपेतास्मीति सम्बन्धः ॥ ३।१७।२५ ॥

प्रभावसम्पन्ना प्रकर्षेण भावेन श्रृङ्गाराख्येन सम्पन्ना स्वच्छन्दबलगामिनी च ॥ ३।१७।२६ ॥

सीतासौन्दर्यदर्शनमोहितापि जगन्मोहनदिव्यमङ्गलविग्रहश्रीरामदर्शनजनितमदनातुरा आत्मनः श्रीरामपरिग्रहाय शूर्पणखा देवीं दूषयति विकृतेति ॥ ३।१७।२७ ॥

निर्णतोदरीं लम्बोदरीम् ॥ ३।१७।२८।२९ ॥

मदिरेक्षणां रक्तलोचनाम् ॥ ३।१७।३० ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायां सप्तदशः सर्गः ॥ ३।१७ ॥