अथ मुनिः शूर्पणखागमनं वक्तुं तत्कामोद्दीपकं हेमन्त ऋतुः “ऋत्यकः” इति सन्ध्यभावः ॥ ३।१६।१ ॥
अभिषेकार्थं स्नानार्थम् ॥ ३।१६।२,३ ॥
येन हेमन्तेन सुपक्वसस्यादिम्पन्नेन शुभस्सन्नयं संवत्सरः अलङ्कृतो यद्यपि तथापि तव अतिसुकुमारस्य प्रिय इवाभाति । किमिति योजना । यद्वा यः हेमन्तकालः ते प्रियः येन हेमन्तेन संवत्सरः शुभस्सन् अलङ्कृत इवाभाति अयं कालस्सम्प्राप्त इति योजना ॥ ३।१६।४ ॥
हेमन्तधर्मान्वर्णयति नीहारेति । लोको जनः नीहारपरुषः नीहारेम हिमेन परुषः परुषस्पर्शशरीर इत्यर्थः । जलान्यननुपभोग्यानि शैत्यातिशयात्स्नानाद्यर्थमश्क्यानि । सुभगः इष्टः ॥ ३।१६।५ ॥
आग्रयर्मं नाम कश्चिद्धविर्यज्ञः नवधान्यभोजनस्यादावनुष्ठेयः । तेनाग्रयणेन देवान् सन्तर्प्य । पितृकर्मणा पितृ़न् सन्तर्प्य सन्तो विगतकल्मषा भवन्तीत्यन्वयः । कृताग्रयणका इत्यनुवादः । काले शरत्काले ॥ ३।१६।६ ॥
प्राज्यः प्रभूतः कामो येषां ते तथोक्ताः, सर्वसस्यादिसम्पन्नत्वादिति भावः । सम्पन्नतरगोरसाः बहुलतरगोक्षीराः जनपदा भवन्तीति शेषः ॥ ३।१६।७ ॥
अन्तकसेवितां दिशं दक्षिणां दिशम् ॥ ३।१६।८ ॥
प्रकृत्या स्वभावेन हिमकोशैः घनीभूतैः हिमसमूहैराढ्यः समृद्धः । दूरे सूर्यो यस्य स तथोक्तः ॥ ३।१६।९ ॥
अत्यन्तं सुखं सञ्चारो येषां ते तथोक्ताः । स्पर्शतः सुखाः सुखस्पर्शातपा इति यावत् । सुभगादित्याः सुभगः सुसेव्यः आदित्यो येषु ते तथोक्ताः । छायासलिलदुर्भगाः छायाश्च सलिलानि च दुर्भगान्यनिष्टानि येषु ते तथोक्ताः दिवसाः मध्याह्ने एवंविधा भान्तीत्युत्तरेणान्वयः ॥ ३।१६।१० ॥
मृदुसूर्याः ईषदुष्णसूर्याः । पटुशीताः प्रबलशीताः । शून्यारण्याः हिमालयपर्यन्तारण्ये प्राणिसञ्चारविरहात् । हिमध्वस्ताः हिमोपहताः, शून्यारण्यपदसान्निध्यात् हिमध्वस्ता इत्यनेन अरण्यप्रदेशव्याप्तहिममुच्यते । मृदुसूर्यपदसान्निद्ध्यात् सनीहारा इत्यनेन सूर्यमण्डलावारकं हिममुच्यत इत्यर्थः ॥ ३।१६।११ ॥
निवृत्तानि आकाशे अनावृतप्रदेशे शयनानि भोगिनां पर्यङ्का यासु ताः । पुष्यनीताः पुष्यनक्षत्रेण नीताः प्रवर्तिताः येषु दिवसेषु पुष्यनक्षत्रं रात्रिकालं परिमाणं बोधयतीत्यर्थः । अन्ये तु पुष्यनीताः पुष्यशब्देन पुष्यनक्षत्रयुक्ता पौर्णमासी नीता लक्ष्यते । तथा च पुष्यनक्षत्रयुक्तां पौर्णमासीं नीताः गताः तदुपलक्षिता इति यावत् । कादाचित्कतया भेदधीहेतुरुपलक्षणमित्याहुः । यद्वा पुष्यनीताः पुष्याः पोष्याः । गुणाभाव आर्षः । शीतनिवारकोपचारैः पोष्या भोगिन इत्यर्थः । तैर्नीताः कृच्छ्रेण गमिताः त्रियामाः हिमारुणाः हिमधूसराः । शीताः शीतस्पर्शमारुतसमेताः । वृद्धतरायामाः अतिदैर्ध्याः त्रियामाः रात्रयः यान्ति गच्छन्ति ॥ ३।१६।१२ ॥
रविणा संक्रान्तं सौभाग्यं सुभगत्वं यस्य स तथोक्तः । रविर्हि तस्मिन् काले सुभागो न चन्द्रः । तुषारारुणमण्डलः तुषारधूसरमण्डलः निश्वासान्धः निश्वासेनान्धो मलिनः आदर्शो मुकुर इव न प्रकाशते ॥ ३।१६।१३ ॥
तुषारमलिना ज्योत्स्ना कौमुदी । आतपश्यामा आतपेन वैवर्ण्यं प्राप्ता सीतेव लक्ष्यते दृश्यते । न तु शोभते सीतेव न शोभत इत्यर्थः ॥ ३।१६।१४ ॥
प्रकृत्या स्वभावेनाशीतलस्पर्शः । अशीतेत्युपलक्षणमनुष्णेपि द्रष्टव्यम् । तथा चानुष्णाशीतलस्पर्श इत्यर्थः । काले प्रातःकाले हिमविद्धस्सन् द्विगुणशीतलः प्रातःकालभवत्वेन हिमविद्धत्वेन च द्विगुणशीतलत्वमित्यर्थः ॥ ३।१६।१५ ॥
बाष्प ऊष्मा तेन छन्नानि प्रातःकाले कूपोदकादिष्विव वनादप्यूष्माप्रादुर्भवतीत्यनुभव एव प्रमाणम् ॥ ३।१६।१६ ॥
खर्जूरपुष्पाकृतिभिः, पीतवर्णैरित्यर्थः । पूर्णतण्डुलैः व्रीहिपूर्णैश्शिरोभिः मञ्जरीभिः किञ्चिदालम्बाः किञ्चिन्नम्राः ॥ ३।१६।१७ ॥
हिमनीहारसंवृतैः हिमबिन्दुसंवृतैः उपलक्षितः सूर्यः ॥ ३।१६।१८ ॥
पूर्वाह्णे प्रातःकाले । अग्राह्यवीर्यः । अत्र नञीषदर्थे, अनुदरा कन्येतिवत् । ईषद्ग्राह्यं वीर्यमौष्ण्यं यस्य । स्पर्शतः सुखः, सुखस्पर्श इत्यर्थः । आपाण्डुरीषत्पाण्डुः किञ्चिच्छोभते ॥ ३।१६।१९ ॥
अवश्यायनिपातेन हिमनिपातेन । निविष्टतरुणातपा बालातपसमेतेत्यर्थः ॥ ३।१६।२० ॥
प्रतिसंहरते करं दुस्पर्शशैत्यवत्त्वादितिभावः ॥ ३।१६।२१ ॥
समुपासीनाः सम्यग्जलसमीपमुपासीनाः प्राप्ताः जलचारिणो विहङ्गाः । अप्रगल्भाः शौर्यरहिताः ॥ ३।१६।२२ ॥
अवश्यायरूपेण तमसा नद्धाः सङ्कुचितपल्लवपुटाः । नीहारतमसावृताः उपरि पतत्प्रालेयरूपेण तिमिरेण सञ्छन्नाः । स्वपतां हि द्वे तमसी, आभ्यन्तरं बाह्यं च । तत्राभ्यान्तरेण निद्रातमसा सङ्कुचिताः बाह्येन निशातमसासञ्छन्नाः स्वपन्ति । वनराजयश्च स्वेषु पतितावश्यायतमस्सङ्कुचितपल्लवा उपरिपतितनीहारतमसा सञ्छन्नाः प्रसुप्ता इव लक्ष्यन्ते ॥ ३।१६।२३,२४ ॥
अगाधस्थमपि गम्भीरस्थमपि । अगाग्रस्थमिति पाठे पर्वताग्रस्थमपीत्यर्थः । रसवत् रुचिकरम् ॥ ३।१६।२५ ॥
जरया जर्झरितैः शकलीकृतैः पर्णैः पर्त्रैः पुष्पदलैश्चोपलक्षितैः, पद्मैरिति शेषः । न भान्तीत्यन्वयः ॥ (जराजर्झरितैः पर्णैः इति पाठः) ॥ ३।१६।२६३० ॥
निरुदरः तनूदरः । ह्रीनिषेधः ह्रिया निषिद्धकर्मजुगुप्सोत्पादकतया परनारीविषिये निषेधश्चक्षुरादीन्द्रियनिवर्तनं यस्य सः । तत्र हेतुः जितेन्द्रियः । मधुरः सुन्दरः । आर्यं ज्येष्ठं त्वाम् । वस्तुतस्तु विविधान् भोगान् सन्त्यज्य सर्वात्मना श्रवणादिरूपनवविधभक्त्या आर्यं ब्रह्मादीनामपि पूज्यं त्वामेवाश्रितः ॥ ३।१६।३१,३२ ॥
स्वर्गो जितः सम्पादितः । वस्तुतस्तु तिरस्कृतः स्वर्गस्य त्वद्भक्तेरन्तरायरूपत्वादितिभावः । अत एव वनस्थमपि त्वां तापस्ये तापसकृत्ये स्थित्वा अनुविधीयते अनुकरोति सेवत इत्यर्थः ॥ ३।१६।३३ ॥
पित्र्यं पितृस्वभावम् । द्विपदा मनुष्याः नानुवर्तन्ते अपितु मातृकं मातृस्वभावमनुवर्तन्त इति ख्यातः प्रसिद्धो ऽयं लोकप्रवादः भरतेनान्यथाकृतः, मातृकृतस्यानयस्य परिहारादिति भावः ॥ ३।१६।३४,३५ ॥
इतीति । स्नेहात् भरतविषयस्नेहात् ॥ ३।१६।३६ ॥
कौसल्यासुमित्राव्यतिरिक्तमात्राव्यतिरिक्तमात्राभिप्रायेण कैकेयी मध्यमेत्युच्यते । अमध्यमेति वा छेदः । तामेव पूर्वोक्तामेव कुरु कथय ॥ ३।१६।३७ ॥
वनवासे निश्चिता निश्चयवती । दृढव्रता मे बुद्धिः भरतस्नेहसन्तप्ता सती बालीशीक्रियते । भरतस्य सुगुणाश्रयस्य विश्लेषमसहमाना सती चाञ्चल्यं प्राप्नोति भावः ॥ ३।१६।३८ ॥
कैश्चिदुच्यमानानि प्रियाण्यपि वाक्यानि कर्णकठोराणि भवन्ति तन्निरासायोक्तं मधुराणि । हृद्यानि हृदयादनपेतानि हृदयप्रियत्वस्य तु प्रागेवोक्तत्वात् । यद्वा हृद्यानि हृदयङ्गमानि “बन्धनेचर्षौ” इति यत्प्रत्ययः । वश्यमन्त्रवत्परहृदयबन्धनानीति यावत् । मनःप्रह्लादनानि नितान्तसुखकराणि ॥ ३।१६।३९४३ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां आरण्यकाण्डव्याख्यायां षोडशः सर्गः ॥ ३।१६ ॥