०१५ पञ्चवट्यां पर्णशालानिर्माणम्

॥ १ ॥

आगता इति । यं देशं मुनिरब्रवीत् यथोद्दिष्टं तं देशमागताः स्मेत्यन्वयः ॥ ३।१५।२ ॥

सर्वतश्चार्यतां पश्येत्यर्थः । कानने निपुणो ह्यसि आश्रमोचितस्थलपरिज्ञान इत्यर्थः ॥ ३।१५।३,४ ॥

वनरामण्यकं वनस्य रमणीयता ॥ ३।१५।५१० ॥

इयमिति । पद्मिनी सरसी । पद्मैः रक्तपद्मैः । पद्मसेविता श्वेतपद्मयुक्ता ॥ ३।१५।११ ॥

यथाख्यातं तथेयं गोदावरी दृश्यत इत्यनुषङ्गः ॥ ३।१५।१२ ॥

मृगयूथनिपीडिताः मृगयूथैर्निबिडाः । वासार्थमागतैरिति शेषः । प्रांशवः उन्नताः ॥ ३।१५।१३ ॥

दृश्यन्त इति सार्धश्लोकमेकं वाक्यम् । फुल्लैर्विकसितैः सौवर्णादिधातुभिरुपलक्षिता गिरयः परमभित्तिभिः नीलपीतादिवर्मरचनाभिः गवाक्षिताः चित्रिताः, अलङ्कृता इति यावत् । गजा इवाभान्तीत्यन्वयः ॥ ३।१५।१४,१५ ॥

सालादिपाटलान्तैस्तरुभिरावृतास्सन्तो गिरयो दृश्यन्त इति पूर्वेणान्वयः ॥ ३।१५।१६२० ॥

पर्णशालामिति । सङ्खातमृत्तिकां भित्त्यात्मना सङ्खाता मृत्तिका यस्यां तां तथोक्ताम् । दीर्घैर्मस्करैर्वेणुभिः कृतवंशामाच्छादकर्तृणादेर्धारणार्थं पार्श्वयोस्तिर्यक् प्रसारितैर्दीर्घैर्वेणुभिः कृतवंशां धारितवंशादिसर्वाधेयकपालामित्यर्थः ॥ ३।१५।२१,२२ ॥

लघुविक्रमः अनलसगतिः ॥ ३।१५।२३ ॥

गोदावरीं प्राप्योति शेषः । सफलः फलसहितः ॥ ३।१५।२४ ॥

पुष्पबलिं वास्तुपूजाम् । शान्तिम् आभ्युदयिकीं क्रियाम् ॥ ३।१५।२५ ॥

हर्षमाहारयत् प्राप्तवान् ॥ ३।१५।२६ ॥

सुसंहृष्टः राघव इत्यनुषङ्गः । गाढं परिष्वज्यातिस्निग्धं वचनमब्रवीदित्यन्वयः ॥ ३।१५।२७ ॥

प्रभो लक्ष्मण प्रदेयो यन्निमित्तं ते परिष्वङ्गः मया कृतः यदाश्रमनिर्माणार्थं प्रदेयः पारितोषिको ऽस्ति तन्निमित्तपरिष्वङ्ग एव मयाद्य कृतः । इहान्यस्य प्रदेयस्याभावादिति मया कृतः दत्त इति वा ॥ ३।१५।२८ ॥

भावज्ञः अभिप्रायज्ञः । कृतज्ञः गृहनिर्माणादिकृतज्ञः । धर्मज्ञः सेवाधर्मज्ञः । नाथेन पालकेन त्वया मम पिता न संवृत्तः न गतः मद्दृष्ट्या जीवितवानित्यर्थः । पिता यथा पुत्रं पालयति तद्वत्त्वमपि मां पालयसीति भावः । त्वया नाथेनेति पाठः ॥ ३।१५।२९३१ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायां पञ्चदशः सर्गः ॥ ३।१५ ॥