०१४ जटायुषः वृत्तान्तः

॥ १ ॥

तमिति । पक्षिं पक्षिणम् ॥ ३।१४।२ ॥

आत्मनः पितुः श्रीरामस्य तव पितुरित्यर्थः ॥ ३।१४।३,४ ॥

सर्वभूतसमुद्भवमिति रामस्य प्रत्ययार्थं स्वोत्पत्तिकथनार्थमपीत्यर्थः ॥ ३।१४।५७ ॥

कश्यप इति अरिष्टनेमिविशेषणम् । अनन्तरोक्तो ऽरिष्टनेमिः कश्यपः तेषां पश्चिमश्चासीदित्यर्थः ॥ ३।१४।८१० ॥

कश्यप इति । ननु “ददौ स दशा धर्माय कश्यपाय त्रयोदश” इति श्रूयते, अत्र कथमष्टावित्युच्यत इति चेत्, सत्यम् अष्टावित्येकवारमिति वा उपलक्षयणमिति वा वैवस्वतमन्वन्तरे एवमिति द्रष्टव्यम् ॥ ३।१४।११ ॥

कन्याः भार्याः ॥ ३।१४।१२ ॥

तन्मनाः भर्तृपरा । अदित्यादयस्त्रिस्रः पतिवाक्यं श्रद्दधिरे, तत्राप्यदितिः । शेषास्त्वमनसो ऽभवन् ॥ ३।१४।१३ ॥

अत एव पतिविश्वासतारतम्यमपि ज्ञातमित्याह अदित्यामिति ॥ ३।१४।१४२२ ॥

अपत्यमिति । सृमराश्चमरास्तथा येषां नीलवालैः कान्ताकचसाहाय्यं क्रियते ते सृमराः । येषां श्वेतवालैः देवराजादिवीजनं क्रियते ते चमराः महिषाकृतयः ॥ ३।१४।२३२७ ॥

नागाः बहुफणास्सर्पाः । यद्वा मनुष्याकाराः फणालाङ्गूलयुक्ताः नागाः । तदन्ये पन्नगाः ॥ ३।१४।२८ ॥

सर्वान् पिण्डफलान् वृक्षान् पिण्डकारफलान् ॥ ३।१४।२९ ॥

विनता च शुकीपौत्री कद्रूश्च सुरसास्वसेति पूर्वोक्ताया विनतायाः पुनः कथनं शुक्याः पौत्री विनतेति स्वकुलक्रमं वक्तुं पुनः कद्रूग्रहणम्, तस्यास्सन्ततिकथनाय । अनेन प्रतिपक्षकुलेन गरुडमर्दितेन स्वकुलं प्रख्यापितं भवति । एष सृष्टिप्रकारो वैवस्वतमन्वन्तर इति विज्ञेयम् । श्येनीपुत्रमिति । ननु श्येनीशुक्यौ ताम्रायाः पुत्र्यौ श्येनीपुत्रस्तु कथं जटायुः, अरुणस्य कथं श्येनी भार्या? उच्यते श्येनीसन्तानपरम्परापतिता काचन श्येनी भविष्यतीत्यदोषः । विधिनिषेधयोर्मनुष्याधिकारत्वाद्वा न दोष इति ज्ञैयम् ॥ ३।१४।३०३२ ॥

त्वयि याते, आश्रमान्मृगयाप्रयोजनायेति शेषः ॥ ३।१४।३३,३४ ॥

सीतां परिदाय परिवार्य ॥ ३।१४।३५ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायां चतुर्दशः सर्गः ॥ ३।१४ ॥