राम प्रीतोस्मि लक्ष्मण परितुष्टोस्मि इति श्रीरामागमननिवेदननिमित्तकः परितोषः । भगवद्विषया प्रीतिर्भक्तिः ॥ ३।१३।१ ॥
अध्वश्रमेण मार्गश्रमेण । आगमनादिप्रयुक्त स्वेदादिकार्यकृत् खेदः खिन्नता वां बाधते किमिति शेषः । प्रचुरश्रमः मैथिलीमिति शेषः । व्यक्तं बाधत इति योज्यम् । अत एव मैथिली उत्कण्ठते आकाङ्क्षते, क्वचिद्विश्रान्तिमिति शेषः ॥ ३।१३।२ ॥
न विमानिता न पीडिता । प्राज्यदोषं प्रचुरदोषं दुष्करमशक्यं कार्यं कृतवती सती त्वामधिगच्छतीति सम्बन्धः ॥ ३।१३।३,४ ॥
आसृष्टेः सृष्टिमारभ्य समस्तं धनधान्यादियुक्ततया सम्यगवस्थितं पतिमनुरञ्जन्ति अनुरक्ता भवन्ति । विषमस्थं दरिद्रं पतिम् ॥ ३।१३।५ ॥
एकत्रानवस्थानात् विद्युतां लोलत्वमनुगच्छन्ति । बहुकालागतस्नेहबन्धच्छेदेन शस्त्राणां तीक्ष्णतां अविचारेण कार्यकरणाद्गरुडानिलयोः शौध्यमनुगच्छन्तीत्यर्थः ॥ ३।१३।६ ॥
इयं तु सकलदोषरहितत्वेन गुणसम्पत्त्या च सद्भिः प्रशंसनीया । व्यपदेश्या पतिव्रतास्वग्रगण्येत्यर्थः ॥ ३।१३।७ ॥
अलङ्कृत इति । आश्रमो ऽयमलङ्कृतो ऽभवत् । यत्र यस्मिन्नाश्रमे त्वं निवासं करिष्यसि आधुनिकनिवासमात्रकृतालङ्कारमात्रं न पर्याप्तमित्यर्थः । यद्वा त्वदागमनमात्रेणायं देशस्त्वलङ्कृतो ऽभवत् । इतःपरं यत्र वत्स्यसि स त्वलङ्कृतो भविष्यतीति किमु वक्तव्यमित्यर्थः ॥ ३।१३।८,९ ॥
मुनिपुङ्गवः, भवानिति शेषः ॥ ३।१३।१० ॥
त्वदुक्तस्य सर्वार्थस्याङ्गीकारेपि किञ्चिद्वक्तव्यमस्तीत्यर्थः ॥ ३।१३।११ ॥
ध्यात्वा मुहूर्तमिति भाविकार्यनिश्चयाय ध्यानम्, ध्यानेनागामिसीतावियोगरूपकिञ्चिद्विक्षेपं दृष्ट्वापि भाविवाञ्छितरावणवधसीतावाप्त्यादिकार्यसिद्धिदर्शनेन धीरः सन् तं वचो ऽब्रवीत् ॥ ३।१३।१२ ॥
पञ्चानां वटानां समाहारः पञ्चवटी, तदुपलक्षितत्वात् पञ्चवटीत्यभिविश्रुतः प्रसिद्धो देशः ॥ ३।१३।१३१६ ॥
दशरथस्य स्नेहात् कैकेयीविषयदशरथस्नेहात् तव सर्वोपि वृत्तान्तः प्रवृत्त इति मम तपसः प्रभावेन विदित इत्यन्वयः । यद्वा मम तपसः प्रभावेन दशरथस्य तवोपरि परमस्नेहाच्च तव दशरथस्य च वृत्तान्तः पितृवचनपरिपालनाय वनवासवृत्तान्तः । दशरथवृत्तान्तः कैकेयीविषयस्नेहात् त्वत्प्रेरणरूपः विदित इत्यर्थः ॥ ३।१३।१७ ॥
हृदयस्थ इति सार्धश्लोकेमेकं वाक्यम् । छन्दः पूर्वप्रतिज्ञातराक्षसवधरूपाभिप्रायः । स च मया तपसा विज्ञातः, अत एव हि मया सह वासं प्रतिज्ञाय अनुज्ञाय पञ्चवटीं गच्छेति ब्रूमि ब्रवीमि । “अनित्यमागमशासनम्” इतीडभावः ॥ ३।१३।१८२१ ॥
भवानिति । परिरक्षणे तापसानामिति शेषः । अत्र पञ्चवट्याश्रम एवेत्यर्थः ॥ ३।१३।२२ ॥
न्यग्रोधं मार्गस्थम् अभि उद्दिश्य गच्छता त्वया अस्य मधूकवनस्योत्तरेण मार्गेणेति शेषः । गन्तव्यमिति योजना ॥ ३।१३।२३ ॥
स्थलं निर्वणं देशम् । उपारुह्य प्राप्य ततः पश्चात्कस्यचित्पर्वतस्याविदूरतः समीपे पञ्चवटीति ख्यातो देशो ऽस्ति तं गच्छेति शेषः ॥ ३।१३।२४२७ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायां त्रयोदशः सर्गः ॥ ३।१३ ॥