०१२ अगस्त्यदर्शनम्

॥ १,२ ॥

हितः शुभोदर्ककारी । अनुकूलः तदिच्छाकरणशीलः । भक्तः पूज्यविषयकानुरागो भक्तिः तद्वान् । यदि ते श्रोत्रमागतः । यदिशब्दस्सम्भावनायाम् ॥ ३।१२।३ ॥

यमिति गायत्र्या अष्टमाक्षरं ते वयमितिश्लोकस्थयमित्यनेन तृतीयाक्षरेण सङ्गृह्णाति । भगवन्तं द्रष्टुमिच्छामहे अयमर्थो मुनये निवेद्यतामिति सम्बन्धः ॥ ३।१२।४ ॥

अग्निशरणम् अग्निशालाम् । निवेदितुं निवेदयितुम् ॥ ३।१२।५ ॥

अञ्जसा शीघ्रम् ॥ ३।१२।६८ ॥

तत इति प्रातीतिकार्थः स्पष्टः । वस्तुतस्तु अस्मत्कुलदैवतं सीतालक्ष्मणोपेतः श्रीराम आगत इति शिष्यादुपश्रुत्य स्वयं श्रवणानन्दमनुभूय पश्चादब्रवीदित्यर्थः ॥ ३।१२।९ ॥

रामः दिष्ट्या दैवात् । चिरस्य चिरकालस्य । अद्य द्रष्टुं मां प्रति समुपागतः । हि यस्मात् । अस्य रामस्यागमनं मयापि मनसा काङ्क्षितमिति योजना । वस्तुतस्तु मयाप्यन्तरङ्गभूतया लक्ष्म्यापि यस्य अस्य विष्णोः “अकारो ब्रह्मविष्ण्वीशेषु” इति निघण्टुः । आगमनं ज्ञानम् “सर्वे गत्यर्था ज्ञानार्थाः” इति वचनात् । मनसा काङ्क्षितं खलु “दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः” इति श्रुतेः । स एव सर्वलोकैकशरण्यः श्रीरामः भीषणामयपीडितस्य भिषगिव चिरस्य चिरकालस्याद्य द्रष्टुं मां प्रति मामुद्दिश्य दिष्ट्या मद्भाग्यवशेन समुपागतः मम पुरत आविर्भूत इत्यहो मम भाग्यं किं वर्णनीयमित्यर्थः । एतदात्मगतम् ॥ ३।१२।१०,११ ॥

एवमिति । तथेति आनयिष्यामीत्यब्रवीदित्यर्थः । लक्ष्मणः काकुस्थं दर्शयामास । शिष्यमिति शेषः । गतिबुद्धीत्यादिना द्विकर्मकत्वम् ॥ ३।१२।१२१४ ॥

तमिति । अगस्त्यवचनं ब्रुवन् अगस्त्येनोक्तं वाक्यं ब्रुवन् ॥ ३।१२।१५,१६ ॥

अगस्त्या श्रमाधिष्ठितदेवतास्थानान्याह स तत्रेत्यादिना । तत्र अगस्त्याश्रमे सः श्रीरामः ब्रह्मादिदेवतास्थानानि पश्यतीत्यन्वयः ॥ ३।१२।१७२० ॥

अभिनिष्पतत् अभ्युत्थानं कृतवान् मुनीनामग्रतः स्थित इति शेष । तमगस्त्यं ददर्शेत्यन्वयः ॥ ३।१२।२१,२२ ॥

औदार्येण तेजोविशेषजनित गाम्भीर्येण इममगस्त्यमित्यवगच्छामि निश्चिनोमीत्यर्थः ॥ ३।१२।२३,२४ ॥

अभिवाद्येति । योगरूढिभेदेन रामस्यापौनरुक्त्यम् ॥ ३।१२।२५,२६ ॥

प्रथममग्निं हुत्वा वैश्वदेवं कृत्वा पश्चादर्घ्यदानेन अतिथीन् प्रतिपूज्य ब्राह्मणातिथीन् पूजयित्वा वानप्रस्थधर्मेण तेषामतिथीनां भोजनं ददावित्यर्थः ॥ ३।१२।२७,२८ ॥

ननु निरपेक्षेण पूजनीयो न क्षत्रियः अहं किमर्थं पूजित इत्याशङ्कायां वानप्रस्थ इति मयैवमनुष्ठितं नान्यथेति समाधित्सुराह अन्यथेति । तपस्वी वानप्रस्थः । अन्यथा समुदाचरन् पूज्यपूजातिक्रमं कुर्वन् परे लोके स्वानि मांसानि भक्षयेत् । किञ्च दुस्साक्षी कूटसाक्ष्यपि परलोके स्वानि मांसानि भक्षयेत् अतः प्रत्यवायपरिहाराय त्वां पूजयामीत्यर्थः ॥ ३।१२।२९ ॥

मम पूज्यत्वं कथमित्यत आह राजेति । सर्वस्य लोकस्य राजा अतः पूजनीयश्च मान्यश्च किञ्च प्रियातिथिश्च सन् सम्प्राप्तः अतः पूज्यता तवेत्यर्थः । वस्तुतस्तु सर्वलोकस्य ब्रह्माण्डस्य राजा प्रभुः तथापि धर्मचारी लोकशिक्षार्थं धर्मान् चरत्याचरतीति तथा । महारथः महान् महात्मा गरुडो रथो यस्य सः तथोक्तः । किञ्च पूजनीयस्सत्कर्मभिराराध्यः । मान्यः मुक्तिसिद्धये मन्तव्यश्चेति योजना ॥ ३।१२।३०,३१ ॥

इदमिति । हेमरत्नविभूषितं हेम्ना रत्नैश्च विभूषितम् । ब्रह्मणा दत्तो ब्रह्मदत्तः तदाख्यश्च (तूणी च दत्ताविति शेषः) महारजतकोशः हेमकोशः । वैष्णवं त्वदीयम् । तद्धनुः परशुरामाद् गृहीत्वा देवेषु तिष्ठत्विति वरुणे न्यस्तं, खरादिवधः प्रत्यासन्न इति मत्वा इन्द्रेणागस्त्ये विहितमिति वेदितव्यम् ॥ ३।१२।३३३८ ॥

इति श्रीमहेश्वरतीर्थविचितायां श्रीरामायणतत्त्वदीपिकाख्यायां आरण्यकाण्डे द्वादशः सर्गः ॥ ३।१२ ॥