॥ १३ ॥
यूथबद्धान् यूथतया बद्धान् । पृषतान् बिन्दुमृगान् ॥ ३।११।४,५ ॥
पद्मपुष्करसम्बाधं पद्मानां रक्तपङ्कजानाम्, पुष्कराणां पुण्डरीकाणाम् “पुष्करं पुण्डरीकम्” इति निघण्टुः । सम्बाधः सम्मर्दो यस्मिन् तम् ॥ ३।११।६ ॥
नतु कश्चन दृश्यते गीतादिकर्तेत्यर्थः ॥ ३।११।७ ॥
धर्मभृतं शरणागतेष्वनुयायिषु मुनिष्वेकं मुनिम् ॥ ३।११।८११ ॥
पञ्चाप्सरो यस्मिन्निवसन्ति तत्पञ्चाप्सर इति तटाकनाम ॥ ३।११।१२,१३ ॥
सर्वे प्रव्यथिता अभूवन् सर्वे अब्रुवन्निति च सर्वशब्दद्वयस्य निर्वाहः । साग्निपुरोगमाः अग्निना पुरोगमेन सहिताः साग्निपुरोगमाः ॥ ३।११।१४,१५ ॥
विद्युच्चलितवर्चसः चलद्विद्युद्वर्चसः प्रधानाप्सरसः पञ्चेत्यनेन तत्परिचारिका अन्या अपि सन्तीत्यवगम्यते ॥ ३।११।१६ ॥
दृष्टपरावरः दृष्टौ परावरौ जीवात्मपरमात्मानौ येन स तथोक्तः । “द्वे ब्रह्मणी वेदितव्ये परं चैवापरं च " इति श्रुतेः ॥ ३।११।१७ ॥
निर्मितं तेनैव मुनिना क्रीडार्थमिति शेषः ॥ ३।११।१८,१९ ॥
वादित्राणां निस्वनो यस्मिन् स तथोक्तः । भूषणोन्मिश्रः भूषणस्वनोन्मिश्रः । गीतशब्दो विशेष्यम् । प्रतिजग्राह शुश्रावेत्यर्थः ॥ ३।११।२०,२१ ॥
एवमिति । कथयमानस्य कथयमाने सति ॥ ३।११।२२ ॥
प्रविश्येति आश्रममण्डलमित्यनुषज्यते ॥ ३।११।२३ ॥
तथेत्यादिश्लोकद्वयमेकं वाक्यम् । तस्मिन्नाश्रममण्डले उषित्वा तत्रैव महर्षिभिः पूज्यमान इति तच्छब्दद्वयस्य सम्बन्धः ॥ ३।११।२३,२४ ॥
जगामेति । येषां मुनीनां सकाशे आश्रमेषु पूर्वं प्रथमं पर्यायेण जगाम उषितवांश्च येषामेवाश्रमे अनुग्रहविशेषेण पर्यायान्तरेणापि तथैव पर्यायेण जगाम उषितवांश्चेत्यर्थः ॥ ३।११।२५२८ ॥
परिवृत्त्य सर्वमुन्याश्रमान् ॥ ३।११।२९,३० ॥
उपासीनः उपसमीपे आसीनः ॥ ३।११।३१ ॥
कथयतां सकाशादिति शेषः ॥ ३।११।३२३४ ॥
तं मुनिवरं स्वयमपि स्वयं शुश्रूषेयमिति यत् एष मनोरथः हृदिसंपरिवर्तत इति सम्बन्धः ॥ ३।११।३५३८ ॥
योजनानीति । अस्मादाश्रमाद्दक्षिणेन चत्वारि योजनानि याहि ततःपरं अगस्त्यभ्रातुराश्रमो ऽस्ति ॥ ३।११।३९ ॥
स्थलीप्राये वनोद्देशे । पिप्लीवनशोभित इति मार्गचिह्नप्रदर्शनार्थमुक्तम् । स्थलप्राये स्थलं प्रायः प्रायेण यस्मिन् तथा ॥ ३।११।४० ॥
पद्मिन्यः सरस्यः ॥ ३।११।४१ ॥
दक्षिणामिति । योजनमन्तरं गत्वा तत्रागस्त्याश्रमपदं द्रक्ष्यसीति शेषः ॥ ३।११।४२४५ ॥
मुनेः श्रुत्वा वचनमिति शेषः ॥ ३।११।४६४८ ॥
आश्रमपदं दृश्यते खलु एतदेव अगस्त्यस्य भ्रातुराश्रमपदं नूनमिति सम्बन्धः ॥ ३।११।४९ ॥
कुत इत्याकाङ्क्षायां सुतीक्ष्णोक्तमार्गचिह्नानि प्रदर्शयति यथा हीति । अस्य अगस्त्यस्य भ्रातुः वनस्य सम्बन्धिनो द्रुमा दृश्यन्त इत्युत्तरेणान्वयः ॥ ३।११।५० ॥
पिप्पलीनां कटुकोदयः कटुकस्योदयः अभिव्यक्तिर्यस्मिन् स तथा । गन्धो दृश्यत इति शेषः ॥ ३।११।५१ ॥
तत्र तत्रेति । संक्षिप्ताः सम्यङ् न्यस्ताः, होमार्थं स्थापिता इत्यर्थः । काष्ठसञ्चयाः समित्समूहाः ॥ ३।११।५२ ॥
कृष्णे कृष्णवर्णे । अभ्रशिखरे मेघगिरिशिखरे उपमा यस्य तत् ॥ ३।११।५३ ॥
विविक्तेषु पूतेषु । पुष्पोपहारं पुष्पबलिम् ॥ ३।११।५४ ॥
यस्मात्सुतीक्ष्णस्य वचनं मया यथा श्रुतम् तस्मादगस्त्यभ्रातुराश्रमं भविष्यतीति सम्बन्धः ॥ ३।११।५५ ॥
हितकाम्यया हितेच्छया । लोकानां वातापील्वलनिमित्तं मृत्युं तपसा तपोबलेन निगृह्य विनाशय दिगियं पुण्यकर्मणा शरण्या संश्रयितुं योग्या कृतेति सम्बन्धः ॥ ३।११।५६ ॥
अत्राख्यायिकामाह इहेति ॥ ३।११।५७ ॥
संस्कृतं ब्राह्मणवदेव संस्कृतभाषां वदन् ॥ ३।११।५८ ॥
ततः निमन्त्रणानन्तरं वातापिं भ्राता इल्वलः भोजयामासेति द्विकर्मको धातुः । भुक्तवतां सताम् । ततः भोजनानन्तरम् ॥ ३।११।५९,६० ॥
विनिष्पतत् अडभाव आर्षः ॥ ३।११।६१ ॥
तैरिति बहुवचनम् । तयोः परिजनाभिप्रायेण ॥ ३।११।६२ ॥
प्रार्थितो ऽभूदिति शेषः । तदनु तत्प्रार्थनामङ्गीकृत्य भक्षितः अगस्त्येनेतिशेषः ॥ ३।११।६३ ॥
ततः श्राद्धान्ते । सम्पन्नं समृद्धं वा इत्युक्त्वा पृष्ट्वा हस्तावसेचनं उत्तरापोशनं दत्त्वा ॥ ३।११।६४,६५ ॥
जीर्णस्य जीर्णितस्य ॥ ३।११।६६ ॥
प्रधर्षयितुं हिंसितुम् ॥ ३।११।६७,६८ ॥
तस्य अगस्त्यस्य ॥ ३।११।६९ ॥
कथयमानस्य कथयतस्सतः ॥ ३।११।७०७५ ॥
निवारो जलकदम्बकः ॥ ३।११।७६७९ ॥
शान्ता मृगद्विजाः इति पाठः । यथा स्निग्धपत्रा वृक्षाः यथा मृगद्विजाः शान्ताः अतः आश्रमो नातिदूरस्थ इति सम्बन्धः ॥ ३।११।८० ॥
अगं विन्ध्यपर्वतं स्यति स्तम्भयतीत्यगस्त्यः । स्यतेः स्त्यादेशः । स्वेन कर्मणा स्तम्भनरूपकर्मणा परिश्रान्तानां श्रमापहः । आज्येति प्राज्येति पाठद्वयम् ॥ ३।११।८१,८२ ॥
तस्येदमाश्रमपदमिति पूर्वेण योज्यम् । प्रभावादिति अस्य प्रभावाद्राक्षसैः न दृश्यते अस्य त्रासात् नोपभुज्यते स्वदेशत्वेन परिगृह्य नानुभूयत इत्यर्थः ॥ ३।११।८३ ॥
यदेति । निर्वैराः प्राणिषु वैररहिताः वैरवर्तनाशक्ताः । प्रशान्ताः शान्तवद्वर्तमानाः ॥ ३।११।८४ ॥
भगवतः अगस्त्यस्य नाम्ना नामग्रहणेन । इयं दक्षिणा दिक् क्रूरकर्मभिः रक्षोभिः दुर्धर्षा धर्षयितुमशक्या । प्रदक्षिणा सज्जनाभिगम्या चेति त्रिषु लोकेषु (अगस्त्यदिगिति) प्रथितेति सम्बन्धः ॥ ३।११।८५ ॥
सामान्यत उक्तमगस्त्यशब्दार्थं विवृणोति मार्गमिति ॥ ३।११।८६,८७ ॥
एष इति । श्रेयसा योजयिष्यति इन्द्रदीरितं शरभङ्गोक्तमर्थं मनसि निधायेदमुक्तमित्यनुसन्धेयम् ॥ ३।११।८८ ॥
प्रभोरगस्त्यस्य वाक्याद्वनवासस्य शेषमवशिष्टकालं वत्स्यामि स्थास्यामीति सम्बन्धः ॥ ३।११।८९,९० ॥
क्रूरः निर्दयः । गूढविप्रियकृच्छठः । नृशंसः घातुकः ॥ ३।११।९१ ॥
पतगाः गरुडजातयः ॥ ३।११।९२ ॥
सिद्धाः तपस्सिद्धाः । नवैर्देहैर्दिव्यदेहैः ॥ ३।११।९३ ॥
अत्राश्रमे । देवाः भूतैः प्राणिभिः कर्तृभिः शुभैः सत्कर्मभिराराधितास्सन्तः राज्यादीनि शीघ्रं प्रयच्छन्तीति सम्बन्धः ॥ ३।११।९४,९५ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्डव्यायामेकादशः सर्गः ॥ ३।११ ॥