०१० रामेण क्षात्रधर्मनिरूपणम्

वाक्यमिति । धर्मे स्थितः मुनिपरिपालनात्मके धर्मे स्थितः ॥ ३।१०।१ ॥

कुलं व्यपदिशन्त्या क्षत्रियाणां हि वीराणामित्यादिना क्षत्रियकुलधर्मं प्रकाशयन्त्येत्यर्थः ॥ ३।१०।२ ॥

किन्न्विति । हे देवि किन्नु वक्ष्यामि किञ्चिदपि मया न वक्तव्यम्, तत्कुतः ? त्वयैवोक्तमिदं वचः । किं तद्वचनमिति चेत्, धनुषा कार्यमेतावदार्तानामभिरक्षणमितीदं वचनं पूर्वसर्गे त्वयैवोक्तमिति । तद्वचनार्थमेवात्र रचनाभेदेनाह क्षत्रियैरिति । यद्वा किन्नु वक्ष्यामि किञ्चिद्वक्तव्यं मया कुतस्त्वयैवोक्तमिदं वचः । किं तद्वचनमिति चेत् ? “क्षत्रियैर्धार्यते चापो नार्तशब्दो भवेदिति । धनुषा कार्यमेतावदार्तानामभिरक्षणम्” इति पूर्वसर्गे यद्देव्या वचः तदनेन स्मार्यते । किं तु वक्ष्यामीति पाठे त्वया यदुक्तं तत्करणीयम्, किंतु विशेषो ऽस्ति, शरणागतपरित्राणं मया प्रतिज्ञातम् आर्ता मुनयश्च मां शरणागता इत्युपरि प्रतिपादयिष्यते । त्वयाप्युक्तमेवेत्याह क्षत्रियैरिति ॥ ३।१०।३ ॥

तद्वचनस्यायमवसर इत्याह ते चेति । संशितव्रताः सम्यक् शितं तीक्ष्णं व्रतं येषां ते तथोक्ताः ॥ ३।१०।४७ ॥

तेषां मुखाच्च्युतं वचनं त्रायस्वेति वचनमित्यर्थः । वचनशुश्रूषां वचनानुष्ठानलक्षणशुश्रूषामित्यर्थः । कृत्वा मनसिकृत्वेत्यर्थः । चरणशुश्रूषामिति पाठे पादाभिवन्दनमित्यर्थः ॥ ३।१०।८ ॥

स्वोक्तवाक्यविस्तारः प्रसीदन्त्विति । ईदृशैः महानुभावैः उपस्थेयैः उपास्यैः विप्रैरिति शेषः । अहमुपस्थित इति यज्ञरक्षणार्थं प्रार्थित इति यत् एषा मम ह्रीः, अतः प्रसीदन्त्विति सम्बन्धः ॥ ३।१०।९११ ॥

धर्षयन्ति तिरस्कुर्वन्ति ॥ ३।१०।१२ ॥

गतिं गम्यत इति गतिः शरणम् ॥ ३।१०।१३ ॥

तपःप्रभावेन त्वदुपासनात्मकतपः प्रभावेन ॥ ३।१०।१४१६ ॥

मयेति । एतद्वचः मुन्युक्तं वचः श्रुत्वा दण्डकारण्ये ऋषीणां कार्त्स्न्येन परिपालनम् । संश्रुतं प्रतिज्ञातम् ॥ ३।१०।१७ ॥

जीवमानः जीवन् । मुनीनां मुनिभ्यः । प्रतिश्रुतं संश्रुत्य । प्रतिज्ञां प्रतिज्ञाय । अन्यथाकर्तुं प्रतिज्ञातार्थमन्यथाकर्त्तुम्, अनृतं कर्तुमित्यर्थः । न शक्ष्यामि न शक्तो ऽस्मि सत्यं सत्यवचनं मे मम इष्टम् ॥ ३।१०।१८२० ॥

ममेति मयीति विभक्तिव्यत्यय आर्षः । सौहार्दात् शोभनहृदयत्वात् मयि स्नेहात् प्रीतेरित्यर्थः । न ह्यनिष्टो ऽनुशिष्यते । यस्मिन् यस्य प्रीतिर्नास्ति नासावनुशिष्यते हितं नोपदिश्यत इत्यर्थः ॥ नह्यतुष्ट इति पाठे अतुष्टः तोषरहितः, इष्टव्यतिरिक्त इति पूर्ववदेवार्थः ॥ ३।१०।२१ ॥

सदृशमिति त्वयोक्तं वचनमित्यनुषङ्गः । तव स्नेहस्येति शेषः । सदृशं तव कुलस्यानुरूपं चेत्यन्वयः ॥ ३।१०।२२,२३ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां अरण्यकाण्डव्याख्यायां दशमः सर्गः ॥ ३।१० ॥