००९ सीतया आयुधन्यासप्रदानम्

सुतीक्ष्णेनेति । सीतेति शेषः । हृद्यया हृदयङ्गमया । स्निग्धया स्नेहप्रवृद्धया ॥ ३।९।१,२ ॥

किं तत्कामजं व्यसनं कश्चाधर्मः? याभ्यां निवर्तनीयो ऽहमित्याकाङ्क्षायामाह त्रीण्येवेति । परमकं परमव्यसनभूतम् ॥ ३।९।३ ॥

एवं व्यसनत्रयं निरूप्य प्रकृते ऽधर्मप्राप्तिपरिहाराय परिहार्यं व्यसनं परिशेषयितुमाह मिथ्यावाक्यमित्यादिना सार्धश्लोकचतुष्टयेन । हे राम कर्मनाशनं मिथ्यावाक्यं परेषां स्त्रीणामभिलाषणं च ते तव न भूतं न भिवष्यति । कुतो वर्तमानकाल इति शेषः ॥ ३।९।४ ॥

अत एव तद्धेतुकं परदाराभिगमनं नास्तीत्याह तवेति । हे मनुष्येन्द्र एतत् परदाराभिगमनं तव नास्ति, वर्तमान इति शेषः । ते तव नाभूत् पूर्वमिति शेषः । कदाचिदपि भविष्यत्काल इत्यर्थः । किं बहुना, हे राम मनसि तथा तादृशप्रसङ्गः क्वचिच्च क्वचिदपि न विद्यते भूतभविष्यद्वर्तमानकालेष्वपि तव परदाराभिगमनं नास्तीत्यर्थः ॥ ३।९।५ ॥

परदाराभिगमनमिथ्यावचनयोरभावे क्रमेण हेतुद्वयमाह स्वदारनिरत इति । हे नृपात्मज त्वं धर्मिष्ठस्सन् नित्यं स्वदारनिरतोसि, अनेन परदाराभिगमनराहित्ये हेतुरुक्तः । सत्यसन्धस्सन् पितुर्निर्देशकारको ऽसि, अनेन मिथ्यावचनराहित्ये हेतुरुक्त इति द्रष्ट्व्यम् । अत एव त्वयि धर्मश्च सत्यं च सर्वं प्रतिष्ठितम् ॥ ३।९।६,७ ॥

अन्यैर्बोद्धुमप्यशक्यमेतत्सर्वं तवास्तीति जानामीत्याह तच्चेति । अशक्यमिति छेदः । अतो न तव व्यसनद्वयप्रसक्तिरित्यर्थः ॥ ३।९।८ ॥

तृतीयव्यसनप्रसक्त्या तवाधर्मः स्यादित्यत आह तृतीयमिति । यदिदं परप्राणाभिहिंसनरूपं तृतीयं रौद्रं भयङ्करं व्यसनमस्ति तच्च मोहाद्यतो निर्वैरं क्रियते तच्च तन्निर्वैरं रौद्रतारूपं अधर्मान्तरं ते समुपस्थितम् ॥ ३।९।९ ॥

ननु कथं तृतीयव्यसनजनिताधर्मप्राप्तिरित्यत आह प्रतिज्ञात इति ॥ ३।९।१० ॥

ननु प्रतिज्ञामात्रेणाधर्मप्राप्तिः कथमित्यत आह एतदिति । एतन्निमित्तमेव प्रतिज्ञातरक्षोवधार्थमेव त्वं दण्डका इति विश्रुतं प्रसिद्धं वनम् धृतबाणशरासनस्सन् भत्रा सह प्रस्थितो ऽसि यतः अतः प्राप्तमेतत्तृतीयं प्राप्तमित्यर्थः ॥ ३।९।११ ॥

तत इति । तस्माद्धेतो राक्षसवधार्थं प्रस्थितं त्वां दृष्ट्वा त्वद्वृत्तं सत्यप्रतिज्ञालक्षणं चरित्रं च दृष्ट्वा निःश्रेयसं परलोकसुखम् । हितम् इह लोके सुखं चिन्तयन्त्या मम मनश्चिन्ताकुलं भवेत् भवति ॥ ३।९।१२ ॥

स्वाभिप्रायमाह नहीति । अशुचौ हेतुमाह कारणमिति । मम मत्सकाशात् ॥ ३।९।१३ ॥

वनचरान् राक्षसानुद्दिश्य शरव्ययं कुर्याः कच्चित् कुर्या एव, तस्मादेव तृतीयव्यसनप्राप्तिस्तवेति भावः ॥ ३।९।१४ ॥

ननु शरमोक्षमकृत्वैव स्थास्य इत्याशङ्क्याह क्षत्रियाणामिति । क्षत्रियाणां समीपे स्थितं धनुः क्षत्रियाणां तेजोबलमुच्छ्रयते वर्द्धयते । स्थितानीति बहुवचनतया योज्यम् । इन्धनानि हुताशस्य तेजोबलं तेजोरूपं बलं वर्द्धयन्तीति योज्यम् ॥ ३।९।१५ ॥

वासनाप्राबल्यादपरिहार्यो ऽयं व्यापार इति वक्तुमितिहासमाह पुरा किलेति ॥ ३।९।१६,१७ ॥

सन्यासविधिना कालान्तरे पुनरादानाय रक्षणार्थं स्थापनकर्मणेत्यर्थः ॥ ३।९।१८ ॥

स इति । आत्मनः प्रत्ययं स्थापितवस्तुविषयं विश्वासमित्यर्थः ॥ ३।९।१९२१ ॥

अधर्मकर्शितः अधर्मेण पीडितः । संवासात् धारणात् ॥ ३।९।२२ ॥

अग्निसंयोगवद्धेतुः अग्निसंयोगो यथा वस्तुनो विकारहेतुस्तद्वच्छस्त्रसंयोगो ऽपि शस्त्रिणो विकारहेतुर्भवति । स्वधाष्ट्र्यं परिहरति स्नेहादिति । स्नेहाद्भवद्विषयस्नेहात् । बहुमानात् भवत्कर्तृकात् अस्मद्विषयात् । स्मारये भवद्विज्ञातार्थमेव स्मारयामि, नत्वपूर्वमुपदिशामित्यर्थः ॥ ३।९।२३,२४ ॥

उपसंहरति नेति । वैरं विना हन्तुं बुद्धिर्न कार्येति सम्बन्धः । इममर्थं प्रपञ्चयति अपराधं विनेति । लोकान् प्राणिनः राक्षसवधारम्भः शनैश्शनैरितरप्राणिवधबुद्ध्युत्पादको भविष्यतीति भावः ॥ ३।९।२५ ॥

नन्वार्तमुनिजनरक्षणार्थमेव अनपराधिनामपि वधो ऽस्तीति सिद्धान्तमुपसृत्याह क्षत्रियाणामिति । क्षत्रियाणां क्षत्रधर्मोचितशिष्टरक्षणप्रवृत्तानां तु आर्तानां स्वसन्निधौ पीड्यमानानां वने निरतात्मनां मुनीनां अभिरक्षणमिति यावत् । एतावदेव धनुषा कार्यं राक्षसानां भयं कृत्वा मुनीनां रक्षणं कार्यं नतु राक्षसानां हिंसनमिति भावः ॥ ३।९।२६ ॥

नास्माकं हिंसाकर्मण्यधिकार इत्याह क्व चेति । शस्त्रं क्व च राज्यपालकक्षत्रियधार्यं शस्त्रं क्व वनं क्व राज्यं त्यक्त्वा इदानीमस्माभिराश्रयमाणं वनं क्व ? क्षत्रियकृत्यहिंसालक्षणं कर्म क्व ? हिंसारहितं तपश्च क्व इदं व्याविद्धं परस्परं विरुद्धम्, अतो ऽस्माभिर्देशधर्मः तपोवनधर्मः पूज्यतां सेव्यताम् ॥ ३।९।२७,२८ ॥

अक्षयेति । त्वं राज्यं परित्यज्य मुनिः सन्निरतः अहिंसायामिति शेषः । यदि भवेः तर्हि मम श्वश्रूश्वशुरयोः अक्षया प्रीतिर्भवेत् । वनवासोचितधर्मानुष्ठाने श्वशुरस्य स्वर्गलाभजा प्रीतिः पुत्रस्य युद्धदिक्लेशराहित्येन श्वश्रवाः कौसल्यायाः प्रीतिरित्यर्थः ॥ ३।९।२९ ॥

अहिंसाप्रधानं धर्मं प्रस्तौति धर्मादित्यादिना । धर्मात् अहिंसाप्रधानधर्मात् ॥ ३।९।३० ॥

न सुखाल्लभ्यते सुखमिति सुखादिष्टानुवर्तनात् सुखं न लभ्यते, अतो राक्षससंहारोद्योगः कर्तव्य इति भावः ॥ ३।९।३१ ॥

नित्यमिति धर्ममहिंसालक्षणं त्रैलोक्यं त्रिलोकान्तर्वर्तिजनधर्माधर्मात्मकं वस्त्वित्यर्थः । तुभ्यं त्वया तत्त्वतो विदितमित्यन्वयः ॥ ३।९।३२,३३ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायां नवमः सर्गः ॥ ३।९ ॥