राम इति । निशां परिणाम्य गमयित्वेत्यर्थः ॥ ३।८।१ ॥
उपास्पृशत् स्त्रातवान् ॥ ३।८।२६ ॥
अभ्यनुज्ञातुमिच्छाम इति त्वत्कर्तृकां गमनानुज्ञां प्रार्थयाम इत्यर्थः । धर्मनित्यैः नित्यधर्मपरैः । विशिखैः विधूमैः ॥ ३।८।७ ॥
अविह्येषत्यादिश्लोकद्वयमेकं वाक्यम् । अमार्गेणान्यायेनागतां प्राप्तां लक्ष्मीं राज्यलक्ष्मीं प्राप्य अन्वयवर्जितः दुष्कुलजातो दुष्प्रभुरिव । अविषह्यातपः अविषह्य आतपो यस्य सः सूर्यः यावन्नातिविराजते नातिजृम्भते तावत्पूर्वं गन्तुमिच्छाम इत्युक्त्वा ववन्द इत्यन्वयः ॥ ३।८।८११ ॥
आश्रममिति जातावेकवचनम् ॥ ३।८।१२ ॥
शान्तपक्षिगणानीति परस्परवैरविरहादिति भावः ॥ ३।८।१३१७ ॥
खड्गौ च कनकत्सरू इति । त्सरुः खड्गमुष्टिः ॥ ३।८।१८२० ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां आरण्यकाण्डव्याख्यायामष्टमः सर्गः ॥ ३।८ ॥