राम इत्यादि । तैः पूर्वोक्तैर्द्विजैर्मुनिभिः ॥ ३।७।१,२ ॥
तदित्यत्र “प्रविश्य तु महारण्यम्” इत्यारभ्य दण्डकारण्यस्यैव प्रस्तुतत्वात्तच्छब्देन तदेव परामृश्यते । द्रुमैः सन्ततं सम्यग्व्याप्तम् ॥ ३।७।३,४ ॥
तत्रेति । मलपङ्कजटाधरं मलं नाम उद्वर्तनादिसंस्काराभावाच्छरीरजन्यम् । पङ्को नाम वनसञ्चाराच्छरीरलग्नमिति भेदः । विधिवदित्यनन्तरं उपगम्येति शेषः ॥ ३।७।५ ॥
रामो ऽहमिति । सत्यविक्रम अक्षततपःस्वभाव ॥ ३।७।६,७ ॥
त्वया क्रान्तः अधिष्ठितः । अत एव सनाथ इव स्वामिसहित इव, अभूदिति शेषः ॥ ३।७।८ ॥
प्रतीक्षमाण इत्यादि सार्धश्लोकस्य प्रातीतिकार्थः स्पष्टः । वस्तुतस्तु रावणवधार्यं रघुकुले ऽवतीर्णस्य तव राज्यभ्रंशः, चित्रकूटमुपादाय तव चित्रकूटप्राप्तिमारभ्य मे मया श्रुतः । अत एव तद्वधार्थं भवाननेन मार्गेणागमिष्यतीति त्वामेव प्रतीक्षमाणस्सन् देहं त्वक्त्वा इतो देवलोकं नारोहे परमपुरुषार्थस्वरूपत्वद्दर्शनस्य स्वर्गस्यान्तरायत्वादिति भावः ॥ ३।७।९११ ॥
मत्प्रसादात्तेषु विहरस्व । वस्तुतस्तु मत्प्रसादात् मय्यनुग्रहात् । तेषु विहरस्वेत्यपि तान् विशेषेण हर स्वीकुर्विति भगवति कर्मफलसमर्पणबुद्ध्या मुनिनोक्तम् ॥ ३।७।१२,१३ ॥
अहमेवेति । प्रातीतिकार्थः स्पष्टः । वस्तुतस्तु भक्त्या त्वदर्पिताल्लोकानहमाहरिष्याम्येवेत्यर्थः । लौकिकदृष्ट्याह आवासमिति ॥ ३।७।१४ ॥
गौतमेन तद्वंशजेन शरभङ्गेण भवान् कुशल इत्याख्यातः ॥ ३।७।१५१७ ॥
लोभयित्वा मनसो लौल्यं जनयित्वा रूपकान्तिगतिचेष्टाविशेषैः समाधिभङ्गं कृत्वेत्यर्थः । दोषं भयम् । लिङ्गव्यत्यय आर्षः । अत्र दण्डकारण्ये ॥ ३।७।१८ ॥
तस्य वचनं श्रुत्वा विरोचनमुवाचेत्यन्वयः । विकृष्य सशरं धनुरित्युत्तरेण सम्बन्धः ॥ ३।७।१९ ॥
हे महाभाग अहं धनुर्विकृष्य शरेण मृगसङ्घान् हन्यां चेत् तत्र मृगवधे भवानभिषज्येत विषादं प्राप्नुयात्, ततो भवद्विषादान्मे कृच्छ्रतरं कष्टतरं किं स्यात्? न किमपि । अतस्त्वदाश्रमे हिंसां न करिष्यामीति भावः । तत इत्यत्राप्यनुषज्यते, ततः कारणादेव एकत्र चिरं वासं न समर्थये नाङ्गीकरोमीति ॥ ३।७।२०,२१ ॥
सन्ध्यामुपागमत् सन्ध्यामुपासितुमुपागतवानित्यर्थः ॥ ३।७।२२२४ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां आरण्यकाण्डव्याख्यायां सप्तमः सर्गः ॥ ३।७ ॥