००६ रामस्य रक्षोवधप्रतिज्ञा

शरभङ्ग इति । मुनिसङ्घाः काकुत्स्थ ककुत्स्थान्वये ऽवतीर्णं ज्वलिततेजसं रामं “रमन्ते योगिनो ऽनन्ते” इति श्रुतेः परं ब्रह्म अभ्यगच्छन्त द्रष्टुं किञ्चिद्विज्ञापयितुं चेति शेषः । अयं भावःस्वप्रकाशं परं ब्रह्मैव ककुत्स्थान्वये ऽवतीर्णं सद्भाग्यवशेनास्मद्दृष्टिगोचरो ऽभूत् अतोस्मत्तपोदानादिकमद्यफलितमिति दर्शनानन्देन कृतार्थीभवितुं निर्धनस्य धनलाभे यथा तद्वदानन्दनिर्भरा मुनिसङ्गा नानादिग्भ्यः समागता इति ॥ ३।६।१ ॥

वैखानसादयस्तपोविशेषलब्धसंज्ञास्तापसविशेषाः । यद्वा ब्रह्मणो नखजाता वैखानसाः । केशजाता वालखिल्याः “ये नखास्ते वैखानसाः ये वालास्ते वालखिल्याः” इति श्रुतेः । यद्वा विखनसमुनिना प्रोक्तं सूत्रमधिकृत्य तन्मार्गानुसारिणो वैखानसाः । वालखिल्यास्तु नवे ऽन्ने लब्धे पूर्वसञ्चितत्यागिनः । सम्प्रक्षालास्तु भवगतः क्षीपादप्रक्षालनजाता महर्षयः । यद्वा प्रत्यहं जीवनसाधनं सम्पाद्य सर्वं तद्विनियुज्य वर्त्तन्ते ये ते वा सम्प्रक्षालाः, अश्वस्तनिका इत्यर्थः । मरीचिपाश्चन्दिरकापायिनः । अश्मकुट्टास्तु भक्षणार्थं प्रियङ्ग्वादीनश्मन्येव कुट्टयन्तीति तथा । पत्राहाराः जीर्णपर्णाशनाः ॥ ३।६।२ ॥

ये व्रीह्यादीन् दन्तैः खण्डयित्वा भक्षयन्ति ते दन्तोलूखालनः । उन्मज्जकानाम कण्ठदघ्नजले स्थित्वा । तपः कुर्वन्तः । उन्मत्तका इति पाठे उद्गतः मत्तो मात्सर्यं येषां ते तथा । स्वार्थे कः । यद्वा ज्ञानिनः “बालोन्मत्तपिशाचवत्” इति स्मरणात्तथा । गात्रशय्यास्तु केवलं स्थले गात्रैरेव ये शेरते ते तथा । ये केचिदपि न शोरते ते अशय्याः । अभ्रावकाशकाः ये वातातपवर्षेषु अभ्रावकाशे असंवृतदेशे तपश्चरन्ति ते तथा । अभ्यवकाशिन इति पाठे अभ्यवकाशिनः सदा जाग्रत्स्वभाविनः । आकाशनिलयाः आकाश एव वायुधारणबलेन ये निलीयन्ते ते तथा । ये कुशाद्यावृतभूतले शेरते ते स्थण्डिलशायिनः ॥ ३।६।३,४ ॥

व्रतोपवासिनः व्रतोपवासनिष्ठाः । आर्द्रपटवाससः आर्द्रपट एव वासः आच्छादनं येषां ते तथा । तपोनित्याः “तपो हि स्वाध्यायः” इति श्रुतेः सदा अध्ययननिष्ठा इत्यर्थः । पञ्चतपोन्विताः पञ्चाग्निमध्यसमाचरिततपस्का इत्यर्थः ॥ ३।६।५,६ ॥

रक्षःपरिपीडितानां स्वेषामनन्यगतिकत्वं जगद्रक्षणायावतीर्णस्य श्रीरामचन्द्रस्य सर्वलोकशरण्यत्वञ्च निश्चित्य स्वरक्षणार्थं तस्य दयोत्पादकानि वाक्यानि मुनयोविज्ञापयन्ति अभिगम्येत्यादिना परिपालय नस्सर्वान्राक्षसेभ्यो नृपात्मजेत्यन्तेन ग्रन्थसन्दर्भेण । समाहिताः सावधानाः ॥ ३।६।७ ॥

त्वमित्यादिश्लोकद्वयस्य प्रातीतिकार्थः स्पष्टः । वस्तुतस्तु देवानां मघवानिव इक्ष्वाकुकुलस्य इक्ष्वाकुकुलमात्रस्य पृथिव्याश्च पृथिवीमात्रस्य च प्रधानो नाथस्त्वमिति काकुः । किन्तु जगद्धारणपोषणकर्ता अत एव निरवधिकेन यशसा विक्रमेण च त्रिषु लोकेषु सर्वलोकेषु विश्रुतः, सकलोकाधीश्वर इति शेषः । तथापि क्षत्रियरूपेणावतीर्णत्वाल्लोकशिक्षार्थम् । पितृव्रतत्वं पित्रर्थं व्रतं यस्य पितृव्रतः तस्य भावस्तत्त्वं, पितृवचनपरिपालकत्वमिति यावत् । सत्यं सत्यवचनत्वं पुष्कलः अधिको धर्मश्च त्वय्यस्तीत्यर्थः ॥ ३।६।८,९ ॥

त्वामिति । धर्मज्ञं शरणागतरक्षणरूपं धर्मं जानातीति तथोक्तम् । धर्मवत्सलं तादृशधर्मानुष्ठाननिरतम् त्वामासाद्य शरण्यत्वेन प्राप्य अर्थित्वात् अर्थो रक्षणविषययाच्ञा तद्वन्तो ऽर्थिनः तेषां भावस्तत्त्वम् । हे नाथ सर्वलोकप्रार्थनीय वक्ष्यामः किञ्चिद्विज्ञापयिष्यामः । नः अस्माकं तत्तु विज्ञापनरूपापराधं क्षन्तुमर्हसि । यद्यपि “सत्सु कार्यवतां पुंसामलमेवाग्रतः स्थितिः” इति न्यायेन त्वयि शरणागतिमात्रमेव कार्यसाधनम् । तथाप्यार्त्यतिशयेन किञ्चिदुच्यते तत्त्वया क्षन्तव्यमिति भावः ॥ ३।६।१० ॥

जगद्रक्षणायावतीर्णो रामो ऽस्मानपि रक्षिष्यतीति विज्ञायाप्यार्त्यतिशयाल्लोकरीत्यनुसारेण राजधर्मं विज्ञापयन्ति अधर्म इति । सर्वान्विषयवासिन इत्युत्तरश्लोकगतमत्रापि सम्बध्यते । तान् पुत्रवद्यो न रक्षति तेभ्यो बलिषङ्भागम् बलिः करः षष्ठो भागः षङ्भागः स चासौ षङ्भागश्च तं गृह्णाति तस्य महानधर्मः ॥ ३।६।११ ॥

एवमरक्षणे अनिष्टमुक्त्वा रक्षणे अभ्युदयमाहुः युञ्जान इति श्लोकद्वयेन । युञ्जानः प्रजारक्षणे यतमानः । नित्ययुक्तो नित्यावहितः । सर्वान् विषयवासिनः । स्वकीयान् प्राणानिव । प्राणैः प्राणेभ्योपि । पञ्चम्यर्थे तृतीया । इष्टान् सुतानिव च रक्षन् सन् ऐहिकामुष्मिकफलं प्राप्नोति ॥ ३।६।१२,१३ ॥

रक्षकस्य राज्ञः करषङ्भागमुक्त्वा धर्मादपि भागप्राप्तिप्रकारमाहुः यदिति । ननु क्वचित् षष्ठो भाग उच्यते, अत्र चतुर्थो भागो भण्यते, क्वचिद्द्वितीयो भागः पठ्यते तत्कथमिति चेत् ? उच्यते उपवासिभिक्षाहारजनकृतधर्मात् षष्ठो भागः, राजपरिपालितदेशसम्भूतफलाशिनो धर्माच्चतुर्थो भागः, तदन्नपानपुष्टाङ्गजनस्य धर्मात् द्वितीयो भागः । “यस्यान्नपानपुष्टाङ्गः कुरुते धर्मसञ्चयम् । अन्नप्रदातुस्तस्यार्धं कर्तुश्चार्धं न संशयः ॥ " इति स्मरणात् ॥

३।६।१४ ॥

एवं राजसाधारणधर्माधर्मौ प्रदर्श्य स्वकीयं विवक्षितमर्थं कथयन्ति सो ऽयमित्यादिना । ब्राह्मणभूयिष्ठमित्यनेन क्षत्रियवैश्यवानप्रस्थाश्च केचिदिह सन्तीति गम्यते ॥ ३।६।१५ ॥

एहीति । मुनीनां त्वन्मननशीलानाम् । भावितात्मनां निदिध्यासननिष्ठानां हतानां शरीराणि पश्येति कारुण्योत्पादनायोक्तम् । बहुधा हतानां प्रत्यङ्गं प्रत्युपाङ्गं च शस्त्रभिन्नानामस्माकं शरीराणि पश्येति च व्यज्यते ॥ ३।६।१६ ॥

पम्पेति तीरपरमेतत् । कदनं बाधा क्रियते, राक्षसैरिति शेषः ॥ ३।६।१७ ॥

विप्रकारं बाधाम् । न मृष्यामः सोढुमशक्ताः ॥ ३।६।१८ ॥

स्वानुभूतां रक्षःपीडामनूद्य निगमयन्ति तत इत्यादि श्लोकद्वयेन । प्रातीतिकार्थः स्पष्टः । शरण्यं सर्वलोकरक्षणसमर्थं त्वां शरणार्थं रक्षणार्थं समुपस्थिताः प्राप्ताः । नः कदावतीर्य रक्षिष्यतीति त्वामेव प्रतीक्षमाणानस्मानित्यर्थः ॥ ३।६।१९ ॥

अनन्यगतिकत्वेन सर्वात्मना त्वयैव रक्षणीया वयमिति विज्ञापयन्ति परेति । पृथिव्यामिति सर्वलोकोपलक्षणम् । त्वत्तः परा त्वदन्या गतिः ऐहिकामुष्मिकसाधनं देवतान्तरं नास्तीत्यर्थः । “तमेवं विद्वानमृत इह भवति । नान्यः पन्था विद्यते ऽयनाय” इति श्रुतेः ॥ ३।६।२० ॥

एतदिति । तपस्विनामतिशयेन विद्यमानतपसाम् । तापसानाम् ऋषीणाम् ॥ ३।६।२१ ॥

श्रीरामः ऋषीन् प्रत्युत्तरमाह नैवमर्हथेत्यादिश्लोकचतुष्टयेन । आज्ञाप्यः आज्ञानुवर्ती । केवलेन निरुपाधिकेन कार्येण पितृवचनपरिपालनरूपेण प्रयोजनेन हेतुना अवश्यं मया वनं प्रवेष्टव्यमेव, अयमेव वनप्रवेशो दैवगत्या राक्षसैः क्रियमाणं भवतामिमं विप्रकारमपाक्रष्टुमपि सम्पन्न इति अपेक्षितपदाध्याहारेण योज्यम् । उक्तश्लोकार्थ एव कविना श्लोकान्तरेण वर्ण्यते । इयमपि शैली कवेः । अहं पितुर्निर्देशकरस्सन् वनं प्रविष्टश्च भवतामर्थसिद्ध्यर्थं चाहमागतः ॥ ३।६।२२,२३ ॥

तस्येति । हन्तुमिच्छामीति यत् अतो महाफलो भविष्यतीति तपस्विनः प्रोवाचेति पूर्वेण सम्बन्धः । वास्तवार्थस्तु तपस्विनामहमाज्ञाप्यः, भक्ताधीनत्वादित्याशयः । किञ्च केवलेन कार्येण स्वकार्येण मया वनं प्रवेष्टव्यमिति काकुः । किन्तु राक्षसैः क्रियमाणं भवतां विप्रकारमपाक्रष्टुमेवेति सम्बन्धः । पितृवचनपरिपालनायागतः स्वयमिति न शङ्कनीयम्, तत्तु व्याजमात्रमित्याह पितुरिति । भवतामेवार्थसिद्ध्यर्थं यदृच्छया, नतु कर्मपारवश्येन । अतस्तस्य भवत्कार्यार्थमागतस्य मे वनवासः तपस्विनां महाफलः तपस्विनां शत्रून् रणे हन्तुमिच्छामीति यत् तेन महाफलो भविष्यति । महाफलत्वं नाम आश्रितानामिष्टप्राप्त्यनिष्टपरिहारहेतुत्वम् । इदानीं मुनिजनधैर्यसिद्ध्यर्थं रामः प्रतिजानीते पश्यन्त्विति ॥ ३।६।२४,२५ ॥

दत्त्वेति । वरं राक्षसवधप्रतिज्ञारूपम् । आर्यं पूज्यम् वृत्तं यस्येति आर्यवृत्तः ॥ ३।६।२६ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां आरण्यकाण्डव्याख्यायां षष्ठः सर्गः ॥ ३।६ ॥