००५ शरभङ्गस्य अग्निप्रवेशः

हत्वेति । सीतां परिष्वज्य समाश्वास्य चेति, विराधाद्भीतामिति शेषः । कष्टं गहनम् । दुर्गं विषमं विप्रमायोग्यम् ॥ ३।५।१,२ ॥

तपसा भावितात्मनः तपसा सर्वेश्वरालोचनेन भावितो वासित आत्मा अन्तःकरणं यस्य तथा ॥ ३।५।३७ ॥

पाण्डराभ्रघनप्रख्यं पाण्डराभ्रस्येव घना अधिका प्रख्या कान्तिर्यस्य तथा ॥ ३।५।८१३ ॥

य इति । पुरुहूतस्य पुरु भूयिष्ठं यथा भवति तथा यज्वभिर्हूयत इति तथा । नः अस्माभिः ॥ ३।५।१४ ॥

इम इति अष्टदिक्ष्विति शेषः । अत्र शतशब्दो ऽनेकवाची ॥ ३।५।१५ ॥

विस्तीर्णेति । अतिशयेन विशालानि उरांसि येषाम् । शोणाश्मवसनाः पद्मरागसदृशवसनाः । शोणांशुवसना इति पाठे शोणा अंशवो वसनानि च येषां ते ॥ ३।५।१६,१७ ॥

इमे देवा इदानीं यथा यादृग्वयस्का इव दृश्यन्ते एतदेव देवानां नित्यदा वयो भवतीति सम्बन्धः ॥ ३।५।१८ ॥

इहैवेत्यादिश्लोकद्वयमेकं वाक्यम् । हे लक्ष्मण वैदेह्या सह इहैव तिष्ठ । आवामपि त्वया साकमागच्छाव इत्यत आह यावदिति । रथे रथसमीपे एष क इति यावज्जानामि तावत्पर्यन्तमिहैव स्थीयतामिति तं सौमित्रिमेवमुक्त्वा राघवः शरभङ्गाश्रमं प्रति स्वयमेवाभिचक्राम गन्तुमुपक्रान्त इति सम्बन्धः ॥ ३।५।१९,२० ॥

शरभङ्गमनुज्ञाप्य वक्ष्यमाणवचनश्रवणेन शरभङ्गमङ्गीकृत्य विविक्ते एकान्ते परमरहस्यत्वात् ॥ ३।५।२१ ॥

रामः इहोपयाति असौ यावन्मां नाभिभाषते तावत्कर्मणो निष्ठां निवृत्तिं नयतु, ततो मां द्रष्टुमर्हति । ममाभिभाषणात्पूर्वमेव अनेन रावणवधरूपं कर्म कर्तव्यम्, ततो मां द्रष्टमर्हति तदा मयि तस्य परमकटाक्षवीक्षणस्य स एवावसर इत्यर्थः ॥ ३।५।२२ ॥

अनेनान्यैस्सुदुष्करं महत्कर्म रावणवधरूपं कर्म कर्तव्यम् । कृतार्थं कृतदेवप्रयोजनं विजयिनं द्रष्टा द्रक्ष्यामि, रावणवधानन्तरं दृष्ट्वा कृतार्थो भविष्यामीति भावः ॥ ३।५।२३२५ ॥

रामस्तस्य पादौ संगृह्येति रामस्येश्वरावतारत्वेपि क्षत्रियरूपेणावतीर्णत्वात् “यद्यदाचरति श्रेष्ठः” इति न्यायेन क्षत्रियमर्यादां प्रवर्तयतीति सूचितम् ॥ ३।५।२६२८ ॥

हे नरव्याघ्र पुरुषोत्तम अदूरतो वर्तमानं बहुकालं मनसा ध्यातम् अधुना मम भाग्यवशेन बाह्येप्यदूरे वर्तमानं प्रियातिथिं प्रिया अतिथयो भक्ताः यस्य तम् । त्वामदृष्ट्वा ब्रह्मलोकं न गमिष्यामीत्यर्थः ॥ ३।५।२९ ॥

त्वयेति । हे देव धार्मिकेण भक्तसंरक्षणरूपधर्मशीलेन । कुतः, महात्मना महान् जगदाधारः आत्मा मूर्तिर्यस्य त्वया परमपुरुषेण समागम्य त्रिदिवं ब्रह्मलोकं गमिष्यामीति भावः । नित्यनिरतिशयनिर्मलानन्दस्वरूपस्य भक्तजनपारिजातस्य तव दर्शनानन्दं विहाय मम ब्रह्मलोके न किमपि भोक्तव्यमस्ति, तथापि पूर्वमपि मयैव शरीरान्तरैरनुभूतमपि ब्रह्मलोकं स्वबलप्रारब्धकर्माधीनो गमिष्यामि किं कर्तव्यमिति भावः ॥ ३।५।३० ॥

ब्राह्म्याः ब्रह्मलोकभवाः भोगप्रदेशविशेषाः । नाकपृष्ठ्याः स्वर्लोकभवाः भोगप्रदेशविशेषाः । प्रतिगृह्णीष्व मामकानिति सर्वेश्वरे श्रीरामे फलसमर्पणाभिप्रायेणोक्तम् । अतिथिसत्कारविवक्षा प्रातीतिकी । अहमेवाहरिष्यामीति समर्पितफलस्वीकारोक्तिः । प्रातीतिकार्थस्त्वहमेव सर्वान् लोकानाहरिष्यामि नतु त्वत्तः । प्रतिग्रहीष्यामीति क्षत्रियस्य प्रतिग्रहानर्हत्वादित्यभिप्रायः । प्रदिष्टं प्रदर्शितं, त्वयेति शेषः ॥ ३।५।३१३६ ॥

प्रतिस्रोतामित्याबन्तत्वमार्षम् । प्रतिस्रोतसं कृत्वा अनुव्रज अनुसृत्य गच्छ । नद्यां पूर्ववाहिन्यां पुरुषेण पश्चिमाभिमुखगमने प्रतिस्रोतस्त्वं भवति । पुष्पोडुपवहां पुष्पवल्लघून्युडुपानि वहतीति तथा । यद्वा पुष्पप्रस्तरवहाम् ॥ ३।५।३७ ॥

एष इति । तात जगज्जनक मां पश्य अयं कृतार्थो भवत्विति करुणाकटाक्षेणेति शेषः । गात्राणीत्यवयवाभिप्रायेण । “वृद्धः शौचक्रियालुप्तः प्रत्याख्यातभिषक्क्रियः । आत्मानं घातयेद्यस्तु भृग्वग्न्यनशना (म्बु) दिभिः ।” इति वचनाच्च्छरभङ्गस्याग्निप्रवेशस्समञ्जस इति ॥ ३।५।३८४४ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायां पञ्चमः सर्गः ॥ ३।५ ॥