ह्रियमाणाविति । प्रगृह्य उद्यम्य । शार्दूलद्वीपिन इति सबिन्द्वबिन्दुव्याघ्रौ । काकुत्स्थावुत्सृज्य मां हर ते नमः इत्यादुक्तिः रामलक्ष्मणयोः प्रेमातिशयादिति ज्ञेया ॥ ३।४।१३ ॥
तस्या इति । वेगं त्वराम् ॥ ३।४।४,५ ॥
संविग्नः बाहुभङ्गेनोद्विग्नः ॥ ३।४।६८ ॥
भयेष्वभयद इति स्वश्रवणस्मरणकीर्तनादि संविदधतः पुरुषस्य सकलभयापहारी भवति ॥ ३।४।९ ॥
अयं तपोबलसम्पन्नो यस्मात् अतः राक्षसः युधि शस्त्रेण निर्भेत्तुं न शक्यते, किन्तु निखनावह इति सम्बन्धः ॥ ३।४।१०,११ ॥
मोहात् अज्ञानात् । पुरुषर्षभ इति पाठः । हे परमपुरुष पूर्वं त्वं मया न ज्ञात इति तव सच्चिदानन्दजगन्मोहनश्रीमूर्तिसंस्पर्शभागधेयात्पूर्वं निरवधिककरुणया मदीयशापविमोचनायाविर्भूतश्रीरामस्त्वमिति मया न ज्ञात इत्यर्थः ॥ ३।४।१२ ॥
इदानीं स एव परमेश्वरः त्वं रामरूपेणावतीर्ण इति विदितः ॥ ३।४।१३ ॥
तुम्बुरूर्नाम गन्धर्वौ ऽहं वैश्रवणेन शप्तः, तस्मादभिशापाद्राक्षसीं तनुं प्रविष्ट इति सम्बन्धः ॥ ३।४।१४ ॥
प्रकृतिं गान्धर्वीं तनुम् ॥ ३।४।१५ ॥
शापकारणमाह अनुपस्थीयमानः अवसरेष्वसेव्यमानः । अनुपस्थाने कारणमाह रम्भासक्तमिति । अतः क्रुद्धस्सन् मां राक्षसो भवेति व्याजहार । ततः प्रसाद्यमान इत्युवाच । इति यदा दाशरथी राम इत्यादिना पूर्वोक्तं शापमोचनप्रकारमप्युवाचेत्यर्थः ॥ ३।४।१६१८ ॥
अध्यर्धयोजने अधिकमर्धं यस्य तदध्यर्थं तच्च तद्योजनञ्च, सार्धयोजनमित्यर्थः ॥ ३।४।१९ ॥
अवटे गर्ते ॥ ३।४।२० ॥
स्वर्गसंप्राप्तः स्वर्गं सम्यक् प्राप्तुमुपक्रान्तवान् ॥ ३।४।२१,२२ ॥
कुञ्जरस्येत्यादिश्लोकद्वयमेकं वाक्यम् । श्वभ्रं गर्तः । प्रदरः गर्तः । हे लक्ष्मण राक्षसस्य श्वभ्रं खन्यतामिति रामो लक्ष्मणमुक्त्वा अयं प्रदरं खनतु तावत्पर्यन्तमहमेवं करोमीति प्रदरखननावसरप्रदानाय पादेन विराधकण्ठे आक्रम्य तस्थावित्यर्थः ॥ ३।४।२३,२४,२५ ॥
मुक्तकण्ठं श्रीरामचरणपीडनेन शिथिलीकृतकण्ठम् । यद्वा रामपादेन त्यक्तं कण्ठं निक्षिप्य नितरां चालयित्वा प्राक्षिपत् अपातयत् ॥ ३।४।२६ ॥
तमाहव इत्यादि पूर्वस्य विस्तरः । नदन्तमिति परमेश्वरेण श्रीरामेण वधं प्राप्तो ऽस्म्यतो धन्यो ऽहं धन्यो ऽहमिति हर्षेण नादं कुर्वन्तमित्यर्थः । संयति स्थिरौ आहवे निर्जितं तं बलेनोत्क्षिप्य चालयित्वा निक्षिपतुः अपातयताम् ॥ ३।४।२७ ॥
कस्मादेवं प्रचक्रतुरित्यत आह असह्यतामिति । महासुरस्य शस्त्रेणासह्यतावध्यतां प्रेक्ष्य अत्यर्थविशारदौ अत्यन्तकार्यविशारदौ बिले वधं समर्थ्य निश्चित्य प्रचक्रतुः । (असह्यतां प्रेक्ष्य इति पाठः) ॥ ३।४।२८ ॥
अतो ऽयमेवास्य वधोपाय इति कथं ज्ञातमित्यत आह स्वयमिति । स्वयं प्रसह्य अवरुध्य बिले निक्षिप्य । काननचारिणा रामेण वधार्थं न मे वधः शस्त्रकृतो भवेदिति आत्मन ईप्सितो मृत्युर्विराधेन स्वयं निवेदित इति सम्बन्धः । बिलप्रक्षेपार्थं शस्त्रवधं निषिद्ध्य ईप्सितो बिलप्रक्षेपवधो विराधेन स्वयं निवेदित इत्यर्थः ॥ ३।४।२९३१ ॥
चन्द्रदिवाकराविव उभावपि चन्द्र इव कलासम्पन्नौ सूर्य इव प्रतापसम्पन्नौ ॥ ३।४।३२ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायां चतुर्थः सर्गः ॥ ३।४ ॥