अथेति । पूरयन् शब्देनेति शेषः । आत्मानं युष्मत्स्वरूपं पृच्छते मह्यम् ॥ ३।३।१ ॥
तमिति । आत्मनः इक्ष्वाकुकुलमिक्ष्वाकुवंशप्रभवत्वम् उवाचेत्यन्वयः ॥ ३।३।२,३ ॥
हन्तेति । मम निबोध मम वचनान्मे स्वरूपमिति शेषः ॥ ३।३।४,५ ॥
शस्त्रेण येन केनापि शस्त्रेण शस्त्रबलेनाच्छेद्याभेद्यत्वम्, छेदभेदाभ्यामव्यथनीयत्वं ताभ्यां व्यथा नास्तीत्यर्थः ॥ ३।३।६ ॥
अनपेक्षौ प्रमदाशारहितौ । वां युवयोः । वस्तुतस्तु उत्सृज्य मामिति शेषः प्रमदामादायेति च शेषः । यथागतं त्वरमाणौ पलायेथां गच्छेथाम् । वां युवयोः जीवितं प्राणसमं स्त्रीरत्नम् । नाददे इत्युवाचेति पूर्वेण सम्बन्धः ॥ ३।३।७,८ ॥
क्षुद्रेति । रणे तिष्ठ ध्रुवं संप्राप्स्यसे मृत्युमित्यनुषङ्गः । मे मम पुरतः । जीवन् क्व गमिष्यसीति सम्बन्धः ॥ ३।३।९ ॥
शरानभिसन्धाय धनुषीति शेषः । सुदीर्घमाकर्णमाकृष्येति शेषः ॥ ३।३।१० ॥
ज्यागुणवता ज्याशब्दवता सुपर्णानिलाभ्यां तुल्यं गच्छन्तीति तथा ॥ ३।३।११ ॥
बर्हिणवाससः बर्हवासस इति यावत् । वासः पत्रम् । शोणितादिग्धाः रक्तलिप्ताः ॥ ३।३।१२ ॥
विद्धः ताडितः । वैदेहीं न्यस्य । वस्तुतस्तु वैदेहीं न्यस्य सीतासमीपमागत्वा । महानादं विनद्य कृत्वा ॥ ३।३।१३,१४ ॥
कालान्तकयमोपमे कालः अन्तकः यमश्चेति त्रयो मारणाधिकारिणः । तत्र कालस्याधिकारो जीवितविच्छेदे, अन्तकस्य प्राणापहारे, यमस्य पुण्यापुण्यविवेक इति भेदः ॥ ३।३।१५ ॥
जृम्भमाणस्य तनूभङ्गं कुर्वतः । कायान्निष्पेतुः कायं निर्भिद्य निष्पेतुः । आशु गच्छन्तीति आशुगास्सन्तः ॥ ३।३।१६ ॥
वरदानेन स्पर्शात्सम्बन्धात् । प्राणान् संरोध्य बलार्थं हृदये वायून् समाहृत्य ॥ ३।३।१७२१ ॥
अयमलं सुष्ठु वहति अनेन पथा गमनस्येष्टं भवति । यथा चेच्छति यथास्य गमनमिष्टं भवति तथा वहतु गच्छतु ॥ ३।३।२२ ॥
कुत एवमत आह अयमेवेति । परिगृह्य एकैकेन एकैकमिति यावत् ॥ ३।३।२३ ॥
स त्विति । समुत्क्षिप्य परिगृह्य । स्कन्धगतौ चकार स्कन्धमारो पयामासेत्यर्थः ॥ ३।३।२४२६ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायां तृतीयस्सर्गः ॥ ३।३ ॥