कृत इति । सूर्यस्योदयनं प्रति उदयकाल इत्यर्थः । अवगाहत प्राविशत् ॥ ३।२।१ ॥
वृक्षादिध्वंसे विराधकृतोपप्लवः कारणं दुर्दुर्शसलिलाशयमित्युक्तहेतोरेव । पक्षिणां साध्वसेन विष्कूजाः निश्शब्दा नानाविधाः शकुनयो यस्मिन् तत् । झिल्लिकागणनादितं रामो वनमध्यं ददर्शेति पूर्वेण सम्बन्धः ॥ ३।२।२,३ ॥
गिरिशृङ्गाभं गिरेः शृङ्गं आभा उपमा यस्य तम् ॥ ३।२।४ ॥
गम्भीराक्षं निम्ननयनम् । विकटं वक्रम् । बीभत्सं कुत्सितम् । विषमं निम्नोन्नतम् । विकृतं वक्ष्यमाणधर्मवत्त्वाद्विपरीतवेषम् ॥ ३।२।५ ॥
वसार्द्रं चर्म वसानम् वसा मांसविशेषः ॥ ३।२।६ ॥
भक्षणार्थं सिंहादीन् आयसे शूले अवसज्य निधाय प्रोतं कृत्वा महास्वनं यथा तथा विनदन्तमेवंविधं विराधं ददर्शेति पूर्वेण सम्बन्धः ॥ ३।२।७ ॥
स इति । सः विराधः । काले युगान्तकाले । क्रुद्धो ऽन्तकः प्रजा उद्दिश्य यथा धावति ॥ ३।२।८ ॥
अङ्गेन कटिप्रदेशेनेति यावत् ॥ ३।२।९ ॥
युवामित्यादि । सभार्याविति भार्याशब्दस्तु योषिन्मात्रवाची । एकया योषिता सहितौ । सभार्यशब्दः छत्रिणो गच्छन्तीतिवल्लाक्षणिको वा ॥ ३।२।१० ॥
कथमिति । वां युवयोः । मुनिदूषकौ मुनिवेषशरचापासिधारणात् अत एव पापौ ॥ ३।२।११ ॥
तयोर्भीत्युत्पादनाय विराधः स्वयमेव स्वस्वरूपं कथयति अहमित्यादिना । मृधे युद्धे ॥ ३।२।१२१५ ॥
तामिति । परिशुष्यता मुखेनोपलक्षितः ॥ ३।२।१६ ॥
विराधाङ्के प्रवेशितां विराधेनाङ्के प्रवेशिताम् ॥ ३।२।१७ ॥
अस्मासु विषये कैकेय्या यद्दुःखं वने सम्पादनीयतया अभिप्रेतं तत् क्षिप्रमद्यैव सुसंवृत्तं सिद्धमित्यर्थः ॥ ३।२।१८ ॥
येति । या पुत्रार्थे पुत्रप्रयोजननिमित्तम् । राज्येन राज्याभिषेककरणमात्रेण न तुष्यति, सर्वभूतानां हितोप्यहं ययाहं दीर्घदर्शिन्या वनमपि पुत्रराज्यस्थैर्याय प्रस्थापितः । या मम माता मध्यमा सा कैकेयी अद्य दिवसे सकामा जाता । ननु पूर्वं माता यवीयसीत्युक्तम्, कथमिदानीं मध्यमेत्युच्यते ? सत्यम्, कौसल्यासुमित्राभ्यां कनीयसी कैकेयी, अन्यासां दशरथस्त्रीणां ज्यायसीत्युभयात्मकता विद्यत इत्युभयनिर्देशः ॥ ३।२।१९,२० ॥
वैदेह्याः परस्पर्शात् यथा मे दुःखतरम् अतिदुःखं तथा पितुर्विनाशात् स्वराज्यहरणादपि मे दुःखं नास्तीत्यन्वयः ॥ ३।२।२१ ॥
बाष्पशोकपरिप्लुते नेत्रजलमनस्तापाभ्यां व्याप्ते क्रुद्धः कैकीयीं प्रति ॥ ३।२।२२ ॥
भूतानां ब्रह्मदीनामपि नाथः परमपुरुषोपि त्वम् अनाथ इव प्राकृत इव किमर्थं परितप्यसे । “स रामं लक्ष्मणं दष्ट्वा” इत्यारभ्य “किमर्थं परितप्यसे” इत्यन्तस्य ग्रन्थसन्दर्भस्य वास्तवार्थस्तु सः विराधः रामं लक्ष्मणं वैदेहीं च दृष्ट्वा संक्रुद्धस्सन् सीतामभ्यधावत्, ग्रहीतुमितिशेषः । रामादीन् दृष्ट्वा तत्तेजसाभिभूतो विराधः स्ववृत्तान्तं कथयन् तान् पृच्छति– स कृत्वेत्यादिश्लोकपञ्चकेन । ततः स विराधः अङ्के समीपे आगत्येति शेषः । वैदेहीमनादाय अपक्रम्याब्रवीत्, रामलक्ष्मणाविति शेषः । युवामिति । सभार्यौ सभायामार्यौ क्षीणजीवितौ क्षीणं जीवितमरीणां याभ्याम् । शरचापासिधारिणौ सन्तौ जटाचीरधरौ च सन्तौ दण्डकारण्यं प्रविष्टौ । यद्यपि तापसयोर्वां प्रमदया सह वासो यद्यपि तथापि कथं पापौ कथं मुनिदूषकौ, तादृशौ न भवत इत्यर्थः । अत्र हेतुः अधर्मचारिणौ अधर्मं चरतो भक्षयतो नाशयत इति तथा एतादृशविशेषणविशिष्टौ कौ युवाम् ? किञ्च अहमिति । अहं विराधो नाम राक्षसः इदानीं मम पापयोः पापाभ्यां हस्ताभ्यामिति शेषः । ऋषिमांसानि भक्षयन् सायुधो मृधे रुधिरं पास्यामीति धिया दुर्गं वनं चरामि । किञ्च भया कान्त्या आर्या श्रेष्ठा इयं नारी युवयोः का भविष्यतीति तावब्रवीदिति पूर्वेण सम्बन्धः । तस्येति । ऋषिमांसानि भक्षयन् चरामीत्येवं दुष्टं यथा तथा विराधस्य ब्रुवतः सतः सीता प्रावेपत । तामिति । विराधाङ्के विराधस्य समीपे प्रवेशितां स्थितामित्यर्थः । सीतां दृष्ट्वा परिशुष्यता मुखेनोपलक्षितः सीताभीत्येति शेषः । अब्रवीत् । पश्येति विराधाङ्के तत्समीपे प्रवेशितां स्थिताम् । यदभिप्रेतमित्यादिवाक्यानि सीताभीतिनिमित्तेनोक्तानीति द्रष्टव्यानि । परस्पर्शात् परस्य राक्षसस्य स्पर्शात् समीपगमनादित्यर्थः । बाष्पशोकपरिप्लुते सीताभीतिनिमित्तमिति भावः ॥ ३।२।२३२५ ॥
ममेति । भूजबलवेगवेगितः भुजबलस्य वेगेन वेगितः । सञ्जातवेगः सशरः महीं मह्यां पततु, विराथ इति शेषः ॥ ३।२।२६ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायां द्वितीयः सर्गः ॥ ३।२ ॥