आरण्यकाण्डम् ॥ ३ ॥
ऽ
श्रीरामचन्द्राय नमः ॥ “इक्ष्वाकुवंशप्रभवः” इत्यारभ्य “दण्डकान्प्रविवेशह” इत्यन्तेन ग्रन्थसन्दर्भेण संक्षिप्य नारदेनोक्तं श्रीरामचरितं सर्वलोकोपकारकं महाप्रबन्धेनोक्त्वा अधुना देवस्य दण्डकारण्यसञ्चारसमुद्भूतानद्भुतान्पराक्रमान्विस्तरेण वक्तुं तृतीयकाण्डमारभते प्रविश्येत्यादि । आत्मवान् धृतिमान् “आत्मा जीवे धृतौ च” इति यादवः । दुर्धर्षः द्विषद्भिरप्रधृष्यः, तिरस्कर्तुमशक्य इत्यर्थः । महारण्यमिति सामान्येनोक्तस्य दण्डकारण्यमिति विशेषसंज्ञा । दण्डकनाम्ना राज्ञा परि पालितो देशः शुक्रशापादरण्यमभूदित्युत्तरकाण्डे वक्ष्यति । मण्डलं समूहः ॥ ३।१।१ ॥
तापसाश्रममण्डलं वर्णयति कुशेत्यादिना सार्द्धसप्तश्लोकैः । चीराणि वल्कलानि । परिक्षिप्तं व्याप्तम् । ब्राह्मी लक्ष्मीः तपोजनिततेजोविशेषः तया समावृतम् । तया समावृतत्वादेव गगनाधिकरणसूर्यमण्डलवद्दुर्द्दर्शं रक्षो ऽसुरादिभिर्द्रष्टुमशक्यम् ॥ ३।१।२ ॥
शरण्यम् आवासार्हम् । सुसंमृष्टाजिरम् अलङ्कृतप्राङ्गणमित्यर्थः ॥ ३।१।३ ॥
अप्सरसां गणैरुपनृत्तम् उपसमीपे नृत्तवत् । अर्श आद्यच् । बहुर्वीहिर्वा । अतिमनोहरप्रदेशत्वात्तैः पूजितं पूज्यमानम् । अग्निशरणानि दक्षिणाग्निगार्हपत्याहवनीयसभ्यावसथ्यशालाः । स्रुग्भाण्डैः स्रुक्स्रुवादियागोपकरणजातैः । “सर्वमावपनं भाण्डम्” इत्यमरः ॥ ३।१।४ ॥
अरण्ये भवा आरण्याः ॥ ३।१।५ ॥
बलिहोमार्चितं बलिभिर्वैश्वदेवादिबलिभिर्होमैः शोभितम् । ब्रह्मघोषनिनादितं वेदघोषयुक्तम् । पद्मिनी पद्मसरः । पद्मया पद्मपुष्पयुक्तया ॥ ३।१।६ ॥
पुराणैः वृद्धैः ॥ ३।१।७ ॥
ब्रह्मभवनं ब्रह्मलोकः । ब्रह्मघोषः वेदघोषः । ब्रह्मविद्भिस्सर्वत्र ब्रह्मानन्यत्वज्ञानवद्भिः ब्राह्मणैरुक्तलक्षणैः । अन्वर्थब्राह्मणैस्ताद्दशैर्युक्तत्वादेव ब्रह्मभवनप्रख्यत्वमाश्रमस्य ॥ ३।१।८ ॥
स इति । विज्यम् अवरोपितगुणं कृत्वेति आश्रमवर्तिमृगपक्षित्रासनिवृत्त्यर्थमिति शेषः ॥ ३।१।९ ॥
दिव्यज्ञानोपपन्नाः श्रीराम एव तारकं ब्रह्मेति ज्ञानवन्त इत्यर्थः । महर्षयः अलौकिकतत्त्वसाक्षात्कारसमर्थाः रामं दृष्ट्वा चकाराल्लक्ष्मणं च तथा प्रीतास्सन्तः अभ्यगच्छन् आभिमुख्येन जग्मुरित्यर्थः ॥ ३।१।१० ॥
त इति । रामं दृष्ट्वा लक्ष्मणं च वैदेहीं च दृष्ट्वा मङ्गलानि भवन्त्विति आशीर्वचनानि प्रयुञ्जानाः उद्यन्तं सोममिव सकलजगदानन्दकरं तं राममेव स्वेष्टदेवतात्वेन प्रत्यगृह्णन् स्वीचक्रुरित्यर्थः ॥ ३।१।११ ॥
रूपेति । रामस्य रूपादिकं वनवासिनो मुनयः दद्दशुरिति सम्बन्धः । रूपं नाम
“अङ्गान्यभूषितान्येव प्रेक्षणीयैर्विभूषणैः । येन भूषितवद्भाति तद्रूपमिति कथ्यते ॥ " इति। संहननम् अवयवानां संश्लिष्टसन्धिबन्धः सौन्दर्यम् “अङ्गप्रत्यङ्गकानां यस्सन्निवेशो यथोचितम्। सुश्लिष्टसन्धिबन्धस्तत्सौन्दर्यमिति चोच्यते ॥
" लक्ष्मीः कान्तिः लावण्यमित्यर्थः । “मुक्ताफलेषु च्छायायास्तरलत्वमिवान्तरा । प्रतिभाति यदङ्गेषु लावण्यं तन्निगद्यते ॥ " सौकुमार्यं मार्दवम्। सुवेषताम् उचितशृङ्गारसम्पन्नताम्। विस्मिताकाराः विस्मितोऽन्तःकरणधर्मः अद्भुतवस्तुदर्शनजन्यः, आकारः तद्व्यञ्जकमुखप्रसादविस्फारितेश्रणत्वादिः तद्वन्तः ॥
३।१।१२ ॥
वैदेहीमिति । वनचारिणः पशुपक्षिमृगादयः । अयं भावः पद्मभवप्रमुखानामप्यगोचरो भगवान् सीतालक्ष्मणोपेतः श्रीरामः पङ्गोरुपरि गङ्गाप्रवाहवदस्माकमपि पुरतः प्रादुरासीदिति सकलजगन्मोहनदिव्यमङ्गलविग्रहदर्शनानन्दविच्छेदभयेन निमेषरहितैर्नेत्रैर्मृगादयोप्याश्चर्यभूता दद्दशुरित्यर्थः । इवशब्दो वाक्यालङ्कारे ॥ ३।१।१३ ॥
अत्र अस्मिन् दिने । महाभागाः ऋषयः ॥ ३।१।१४ ॥
परमपुरुषस्य तव सन्दर्शनेन वयं महाभागा अतिधन्याश्चेति प्रियवचनैस्सत्कृत्य । सलिलं सलिलादिपूजाद्रव्यम्, आनीयेति शेषः । आजहुः रामस्य पूजामिति शेषः ॥ ३।१।१५ ॥
वन्यं वने भवम् । आश्रमं निवासस्थानं च निवेदयित्वा इमानि वस्तूनि देव त्वदीयानीत्युक्त्वा प्राञ्जलयः अयमेवादिपुरुष इति निश्चयबुद्ध्या सम्बुद्धभक्तिरसेन बद्धाञ्जलयो भक्तिनम्राः भगवन्तं श्रीराममब्रुवन् विज्ञापयन्ति स्मेत्यर्थः ॥ ३।१।१६ ॥
विज्ञापनप्रकारमेवाह धर्मपाल इत्यादिना । धर्मपालः वर्णाश्रमधर्मपालकः । शरण्यः आर्तस्य सर्वलोकस्य रक्षिता । दण्डधरः दुष्टनिग्रहकर्ता । भगवदवताररूपेण गुरुः पूज्यः अर्घ्यादिसत्क्रियापूजार्हः । राजा राजरूपेण मान्यः बहुमानार्हश्च त्वमसीति शेषः । कुतो ममैताद्दशप्रभाव इति शङ्कायां तमेव कैमुतिकन्यायेन द्रढयति इन्द्रस्येति । दिक्पालचतुष्टयात्प्रत्येकं चतुर्थांशो राजनि संक्रामतीतिन्यायेनेन्द्रस्य त्वन्नियम्यस्य पुरन्दरस्य चतुर्थांशभूतो राजापि प्रजा धर्मेण रक्षति तस्माद्रक्षणाद्वरानग्र्यान् भोगान्भुङ्क्ते च लोकनमस्कृतश्चेति सम्बन्धः । यद्येवंविधस्य राज्ञोप्येवं प्रभावः, सकलजगद्रक्षणायावतीर्णस्येश्वरस्य तव तु धर्मपालकत्वशरण्यत्वादिकमस्तीति किमु वक्तव्यमिति भावः ॥ ३।१।१७,१८ ॥
अस्तु, प्रकृते किमायातमित्यत आह ते वयमिति । ननु नगरं विहायागतेन चतुरङ्गबलरहितेन वनस्थेन मया भवन्तः कथं रक्ष्या इत्यत आह नगरस्थ इति । यतस्त्वं नगरस्थो वनस्थो वा राजा अतस्ते भवदेकशरणा वयं भवता करुणाशालिना रक्ष्याः । अत्रास्मद्रक्षणं नाम अनन्तकल्याणगुणैकनिलयजगन्मोहनादिव्यमङ्गलत्वन्मूर्तिध्यानानन्दानुभवान्तरायरूपरक्षोनिवारणरूपम् । अतिप्रसङ्गपरिहारार्थमाह भवद्विषयवासिन इति । विषयो देशः । अयं भावः इतरे राजानो बुद्धिबलेन चतुरङ्गबलेन च स्वराज्यमात्ररक्षणे शक्ता भवन्ति, सकललोकरक्षणधुरन्धरस्यासहायशूरस्य तव नगरवासे किं बलमुपचीयते, स्वाभाविकनित्यनिरतिशयज्ञानशक्तिसम्पन्नस्य तव वनवासे किमपचीयते ? अतो यत्रकुत्रापि स्थितस्य तवासाध्यं किमपि नास्तीति ॥ ३।१।१९ ॥
महाप्रभाववतां भवतां कुतो रक्षकान्तरापेक्षोत्यत्राह न्यस्तदण्डा इति । न्यस्तदण्डाः त्यक्तशापादिशासनाः । यद्वा त्वय्येव विन्यस्तसकलराक्षसशिक्षाभाराः । अत एव गर्भभूताः गर्भो यथा मात्रा प्रयत्नेन परिपालनीयः तद्वद्वयमपि परिपालनीयाः इत्यर्थः ॥ ३।१।२० ॥
अन्यैः नीवारादिभिः ॥ ३।१।२१ ॥
सिद्धाः भरद्वाजादिवत्सिद्धसङ्कल्पाः । न्यायवृत्ताः न्यायो भगवदुपासनादिरूपधर्मः स एव वृत्तं शीलं येषां ते तथा कृताभ्यवहारमीश्वरं सकलजगत्स्वामिनं नीराजनमङ्गलस्तुत्यादिभिर्यथान्यायं यथाविधि तर्पयामासुः ॥ ३।१।२२ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामाणयतत्त्वदीपिकाख्यायाम् आरण्यकाण्डव्याख्यायां प्रथमः सर्गः ॥ ३।१ ॥