११९ रामस्य दण्डकारण्यप्रवेशः

उपोह्य समीपं प्रापय्य । सन्ध्याकाले निद्रार्थं निलीनानां पतत्त्रिणां ध्वनिः श्रूयत इति सम्बन्धः ॥ २।११९।३ ॥

एते चेति । कलशोद्यताः उद्यतकलशाः ॥ २।११९।४ ॥

कपोताङ्गारुणः कपोताङ्गवदरुणः ॥ २।११९।५ ॥

अल्पपर्णा ये तरवः ते समन्ततः घनीभूताहि अव्यक्तपर्णान्तरालत्वात्सान्द्रीभूता इव । तत्र हेतुः न प्रकाशान्ति वैदिश इति ॥ २।११९।६ ॥

वेदितीर्थेषु वेदिस्थानेषु ॥ २।११९।७९ ॥

अलङ्कुरु आत्मानमिति शेषः ॥ २।११९।१०१२ ॥

न्यवेदयदिति । प्रीतिदानं प्रीत्या दीयत इति प्रीतिदानम् । कर्मणि ल्युट् । वसनाभरणस्रजां समाहारो वसनाभरणस्रजम् । वसनाभरणस्रजाम् इति वा पाठः ॥ २।११९।१३१६ ॥

वनवस्य सञ्चारम् कन्दमूलफलाहरणार्थं सञ्चारम् । राक्षसैस्समभिप्लुतं सम्यगुपद्रुतमित्यूचुरिति सम्बन्धः ॥ २।११९।१७ ॥

व्यालाः पशवः । " सर्पहिंस्रपशू व्यालौ " इति निघण्टुः ॥ २।११९।१८,१९ ॥

एष इति । क्षमं युक्तम् ॥ २।११९।२० ॥

इतीवेति इतीव पूर्वोक्तमार्गप्रकारेणैव द्विजैः कृतस्वस्त्ययनः कृतमङ्गलाशीर्वादः ॥ २।११९।२१ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यनारायणतीर्थशिष्य श्रीमहेश्वरतीर्थविरचितायां श्रीरामयणतत्त्वदीपिकाख्यायामयोद्याकाण्डव्याख्यायाम् एकोनविंशत्युत्तरशततमः सर्गः ॥ २।११९ ॥

महेशतीर्थरचिता रामपादसमर्पिता । टीकात्वयोध्याकाण्डस्य समाप्ता तत्त्वदीपिका ॥ अपाङ्गजनिताशेषसम्पदम्भोधिसम्भवा । लक्ष्मीः स्थितिमती भूयादस्माकं भवने सदा ॥

काण्डं द्वितीयं श्रृण्वन् यः प्रोक्तेन नियमेन तु । सो ऽग्निसायुज्यमाप्नोति पठनाद्वापि शास्त्रतः ॥