यद्यपीति । एष मे भर्ता वृत्तिवर्जीतो यद्यपि तथापि अद्वैधं द्वैधीभावरहितं यथा तथा उपचर्तव्यः गुणवत्त्वनिर्गुणत्वभेदं विहाय सम्यगुपचरणीय इत्यर्थः ॥ २।११८।३ ॥
मातृवर्ती पितृप्रियः इति पाठः । मातृवर्ती मातृशुश्रूषकः । पितृप्रियः पितुः प्रीतिविषय इत्यर्थः । तदेवाह यामित्यादिश्लोकद्वयेन । नृपनारीणामित्यत्र सप्तम्यर्थे षष्ठी ॥ २।११८।४६ ॥
आगच्छन्त्या इति । श्वश्र्वा कौसल्यया यत्पातिव्रत्यधर्माचरणं समाहितं उपदिष्टमित्यर्थः ॥ २।११८।७९ ॥
तथा त्वं यातेत्युक्तिः पातिव्रत्यमहिम्ना स्वर्गस्य हस्तगतत्वादिति भावः ॥ २।११८।१०१३ ॥
छन्दये वरं वृणीष्वेति प्रार्थये ॥ २।११८।१४,१५ ॥
तस्या इति । मन्दविस्मया मन्दस्मितेत्यर्थः ॥ २।११८।१६,१७ ॥
अनुलेपनं अङ्गरागम् । अनुलेपनसाधनमङ्गरागमित्यर्थः । यद्वा उद्वर्तनादिना अङ्गानि रञ्जयतीत्यङ्गरागः कुङ्कुमचन्दनादिः । अनुलेपनं तु " कर्पूरागरुकस्तूरीतक्कोलैर्यक्षकर्दमम् । " इत्युक्त यक्षकर्दमवन्महापरिमलद्रव्यसहितमनुलेपनमित्यङ्गरागानुलेपनयोर्भेदः ॥ २।११८।१८ ॥
अनुरूपं त्वद्गात्रानुरूपम् । असंक्लिष्टम् अबाधितमित्यर्थः ॥ २।११८।१९२२ ॥
तथेति । प्रियकथामनु प्रियकथामुद्दिश्य ॥ २।११८।२३ ॥
श्रुतिमुपागता श्रवणपथं प्राप्ता ॥ २।११८।२४२७ ॥
क्षेत्रमण्डलं यागोपयोगिमण्डलाकारं क्षेत्रम् । कर्षतः शोधनार्थं कृषतः ॥ २।११८।२८ ॥
मुष्टिविक्षेपतत्परः " या जाता ओषधयो देवेभ्यः " इत्यादिमन्त्रोक्तप्रकारेण औषधिमुष्टिविकिरणतत्पर इत्यर्थः ॥ २।११८।२९।३० ॥
अन्तरिक्षेति । अप्रतिमेति च्छेदः ॥ २।११८।३१,३२ ॥
इष्टवद्देव्यै पत्न्यै । सम्भाविता संबर्द्धितेत्यर्थः ॥ २।११८।३३ ॥
पतिसंयोगसुलभं वयः पाणिग्रहणोत्सवयोग्यं वयः ॥ २।११८।३४ ॥
जनात् कन्याग्रहीतृतत्सम्बन्धिजनात् । प्रधर्षणां तिरस्क्रियाम् ॥ २।११८।३५ ॥
अदूरस्थां तां धर्षणां समीपस्थां कन्यानिमित्ततिरस्क्रियामित्यर्थः । आत्मनि सन्दृश्य ममाप कार्यनिमित्ततिरस्कारो भवेदित्यालोच्येत्यर्थः ॥ २।११८।३६ ॥
सदृशम् अभिजनविद्यावृत्तादिना तुल्यम् । अभिरूपं वयस्सौन्दर्यादिना योग्यम् ॥ २।११८।३७,३८ ॥
महायज्ञ इति । वरुणेन दत्तं देवैः प्रेरितेन वरुणेन दत्तमित्यर्थः ॥ २।११८।३९४१ ॥
इदमिति न संशय इति पित्रा व्याहृतमिति पूर्वेण सम्बन्धः ॥ २।११८।४२ ॥
तोलने चालने ॥ २।११८।४३,४४ ॥
इमौ धनुर्दर्शनकाङ्क्षिणौ । रामाय धनुर्दर्शेयेति विश्वामित्रः पितरं प्रोवाचेति सम्बन्धः ॥ २।११८।४५४७ ॥
ज्यामिति । वीर्यवत् सारवत् ॥ २।११८।४८,४९ ॥
उत्तमं जलभाजनं उद्यम्य पित्राहं रामाय दातुमुद्यतेति सम्बन्धः ॥ २।११८।५० ॥
छन्दम् अभिप्रायम् ॥ २।११८।५१५४ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायाम् अयोध्याकाण्डव्याक्यायाम् अष्टादशोत्तरशततमः सर्गः ॥ २।११८ ॥