स्कन्धावारनिवेशेन स्कन्धावाराः शिबिराणि । तस्य भरतस्य ॥ २।११७।३ ॥
प्रातिष्ठत प्रस्थितः ॥ २।११७।४ ॥
सो ऽत्रेरिति । ववन्दे वस्तुतस्तु ववन्दे अस्तौषीत् । पुत्रवत् पुंसः पुरुषान् भक्तान् त्रायत इति पुत्र तद्वत् । प्रत्यपद्यत ईश्वरत्वेन प्राप्तवानित्यर्थः ॥ २।११७।५ ॥
आतिथ्यमादिश्य आतिथ्यं कृत्वा ॥ २।११७।६ ॥
सत्कृतां सर्वैस्सत्कृतामित्यर्थः ॥ २।११७।७ ॥
प्रतिगृह्णीष्वेत्यत्र इतिकरणं द्रष्टव्यम् ॥ २।११७।८ ॥
दशवर्षाणीत्यारभ्य सेयं मातेव ते सखेत्यन्तमेकान्वयम् । दश्वर्षाण्यनावृष्ट्या लोके सति यया कृततपोमहिम्ना निरन्तरं मूलफले सृष्टे जाह्नवी च प्रवर्तिता । यया दशवर्षसहस्राणि महत्तपस्तप्तं कृतम् ॥ २।११७।९,१० ॥
यया व्रतैः कृच्छ्रचान्द्रायणादिभिः प्रत्यूहा विघ्नाश्च निवर्त्तिता निरस्ताः । देवकार्यनिमित्तं सन्त्वरमाणया यया दशरात्रं रात्रिश्च कृता दशरात्रावधिकालः एकरात्रत्वेन कृत इत्यर्थः । सेयं ते
मातेव मातृवत्पूजनीयेत्यर्थः ॥ २।११७।११ ॥
यया कर्मभिः अनन्यशक्यैः परानुग्रहार्थतपोविशेषैः । अनसूया असूयारहिता इति लोके ख्यातिमागता तामिमां वैदेही अनुगच्छत्विति सम्बन्धः ॥ २।११७।१२१५ ॥
शिथिलामिति । शिथिलां श्लथसन्धिबन्धावयवसन्निवेशाम् । वलितां सञ्जातवलिताङ्गाम् ॥ २।११७।१६,१७ ॥
अनामयम् आरोग्यम् ॥ २।११७।१८ ॥
धर्ममवेक्षसे पातिव्रत्यधर्मं समीक्षसे । ज्ञातिजनं बन्धुजनम् । मानम् अहङ्कारम् । वने अवरुद्धं वस्तव्यतया पित्रा नियुक्तम् ॥ २।११७।१९२२ ॥
नात इति । सर्वत्रयोग्यं सर्वावस्थासु रक्षणसमर्थम् ॥ २।११७।२३ ॥
कामवक्तव्यहृदयाः मदनविधेयहृदयाः । भर्तृनाथाः भर्तृ़णां नाथभूताः भर्तृनियामिका इत्यर्थः । यद्वा भर्तारं नाथन्ते याचन्त इति तथा, परपुरुषकाङ्क्षिण्य इत्यर्थः ॥ २।११७।२४२६ ॥
तदेवमिति । एवं रामं पतिव्रतानां समयानुवर्तिनी पतिपुत्राणामाचारानुवर्तिनी ॥ २।११७।२७ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याक्यायां सप्तदशोत्तरशततमः सर्गः ॥ २।११७ ॥